Monthly Archives: February 2019

PRASNOTHARAM – 17-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानो वेदः कः? (क) सामवेदः  (ख) ऋग्वेदः (ग) यजुर्वेदः
  2. वाल्मीकेः पूर्वनाम किम्  ? (क) बादरायणः (ख) कात्यायनः  (ग) रत्नाकरः
  3. श्रीशङ्करस्य जन्मस्थानं कस्मिन् ग्रामे भवति ? (क) पन्मना (ख) चेम्पषन्ति (ग) काालटी
  4. ” अस्मद्  ” शब्दस्य प्रथमा बहुवचनरूपं किम् ? (क) यूयम् (ख) वयम् (ग) ते
  5. ” गृहेषु ” अत्र का विभक्तिः ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  6. ” पतञ्चलिः ” कस्य शास्त्रस्य उपज्ञाता भवति  ? (क) योगशास्त्रस्य (ख) न्यायशास्त्रस्य (ग) सांख्यशास्त्रस्य
  7. भगवद्गीतायां कति अध्यायाः सन्ति  ? (क) १६  (ख) १७  (ग) १८
  8. दृश्यते – दृश्येते  –  ——– । (क) दृश्यन्ते (ख) दृश्यध्वे  (ग) दृश्ये
  9. “कर्तुम्  ” इत्यस्य प्रत्ययः कः ? (क) क्त्वान्तं  (ख) तुमुन्नन्तं  (ग) ल्यबन्तं
  10. अद्य गुरुवासरः चेत्  परश्वः कः वासरः  ? (क) शुक्रवासरः (ख) शनिवासरः  (ग) रविवासरः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SIVARANJINI
  • PARVATHY
  • GANGA O M
  • K HARIHARAN
  • S MURALI
  • ANASWARA MOHAN
  • JISHA S V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नववाण्या‌ः दशमं वार्षिकदिनम्।

इरिङ्ङालक्कुटा – फिब्रुवरी १० दिनाङ्कः नववाण्याः दशमं जन्मदिनं भवति। २०१० फेब्रुवरी १० दिनाङ्के एव नववाणी इति जालपुटस्य औपचारिकम् उद्घाटनमभवत्। तृशूर् मण्डले इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्य संस्कृतं कौण्सिल् नेतृत्वे समायेजितो/यं जालपुटः अद्य शाखोपशाखाभिः विवर्धमानः वर्तते। अस्य प्रायोजकः सी.वी. जोस् वर्यः अन्तर्जाललोके संस्कृतस्यापि अद्वितीयं स्थानमस्तीति सर्वान् संस्कृतशिक्षकान् अस्मारयत्।

     नूतनया साङ्केतिकविद्यया पठनप्रवर्तनानि आयोजयितुं सहायकानि बहूनि कार्याणि अस्मिन् जालपुटे सन्ति।  वर्षद्वयात् पूर्वं अस्य मोबैल् आप् तथा मोबैल् व्यू अपि प्रवृत्तिपथमानीतं वर्तते। येन सङ्गणकानां साहाय्यं विनैव अतितान्त्रिकरीत्या पाठयितुम् अध्यापकाः प्रभवन्ति।

     श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयस्य तदानीन्तनः कुलपतिः तथा राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अधुनातनः निदेशकः डो. जे. प्रसाद् वर्यः २०१० फेब्रुवरी १० दिनाङ्के इरिङ्ङालक्कुटायां नववाणी जालपुटस्य उद्घाटनं व्यदधात्। डो. के.जी. पौलोस् वर्यः अपि सन्निहितः आसीत्।

     दशमे अस्मिन् जन्मदिने अनुवाचकेभ्यः आशंसामर्पयामः।

शबरिमलायां पुनः नियन्त्रणानि आयोज्यन्ते।

पत्तनंतिट्टा- शबरिमलायां पुनः सन्दर्शकनियन्त्रणम् आयोजयितुं रक्षिदलं सन्नह्यति। कुम्भमासपूजार्थं कुजवासरे मन्दिरोद्घाटनं भविता। अस्मिन् साहचर्ये निलक्कल् प्रदेशात् सन्निधानपर्यन्तं नियन्त्रणम् आयोजयिष्यति।

     युवतीप्रवेशविषये प्रतिषेधमालक्ष्य भक्तेभ्यः सुगमं दर्शनं विधातुं सर्वकारः सदा सन्नद्धः भवति, तदर्थमेव नियन्त्रणमिति पत्तनंतिट्टमण्डल-रक्षिदलाधिकारी न्यगादीत्।

     सुरक्षायाः भागत्वेन कुजवासरे भक्त-पत्रकारप्रभृतयः सर्वे जनाः प्रातः दशवादनानन्तरमेव निलक्कल् तः पम्पा-सन्निधानं प्रति प्रवेशमर्हन्ति। पूजादिवसेषु शान्तिं संरक्षितुं सर्वैः सहकारिभिः भाव्यम् इति रक्षिदलनेता अभ्यर्थयत्।

     पूजार्थं फेब्रुवरी १२ कुजवासरादारभ्य १७ रविवासरपर्यन्तं सन्निधाने प्रवेशः भविता।

दशरूप्यकशुल्केन त्रिचक्रिकायां यात्रा, कोच्ची मेट्रो रयिल् निगमस्य नूतना पद्धतिः।

कोच्ची- कोच्ची नगरे अवरतः दशरूप्यकाणां शुल्केन त्रिचक्रिकायात्रासेवा समारब्धा। त्रिचक्रिकाकर्मकराणां संयुक्तसंघस्य नेतृत्वे कोच्ची मेट्रो निगमस्य अनुबन्धसेवारूपेण प्रवर्तमानायाः त्रिचक्रिकासेवायाः कृते वैद्युतिमुपयुज्य प्रवर्तमानाः त्रिचक्रिकाः सज्जाः भवन्ति।

पद्धतेः सूत्रधारत्वं कोच्ची मेट्रोरयिल् निगमस्यास्ति। प्रथमं किलोमीट्टर् द्वयपर्यन्तं दशरूप्यकाणि, अतिरिक्तैकैक कि.मी. कृते पञ्चरूप्यकाणि इति क्रमः। वैद्युतत्रिचक्रिकायां चत्वारो जनाः प्रयाणाय प्रभवन्ति। एकैकः दशरूप्यकाणि दद्यात्। षेयर् ओट्टो इत्यस्य नामास्ति।

परिस्थितिमलिनीकरणात् विमुक्ता भवति इत्यस्याः विशेषता। अपि च जी.पी. एस्. सुविधा अस्तीत्यतः सुरक्षा अपि भवति।

अपगताचरणम्- अध्यापकान् गृहीतुमागतं रक्षिदलं छात्रैः अवरुद्धम्।

मूवाट्टुपुषा- छात्राणां पुरतः मर्यादारहितः आचारः इत्याक्षेपे वालकं ब्रैट् पब्लिक् स्कूल् नामकस्य विद्यालयस्य प्रांशुपालं तथा प्रथमाध्यापिकां च गृहीतुमागतं रक्षिदलसंघं छात्राः नियरुन्धन्। अन्तरिक्षे संघर्षभरिते जाते रक्षिदलसंघः प्रतिनिवृत्तः।
प्रांशुपालः जोर्ज् ऐसक् तथा तस्य पत्नी तथा प्रथमाध्यापिका च लिमा जोर्ज् इत्येतयोः गृहीतुमागतं संघमेव छात्राः रक्षाकर्तारः च मलित्वा न्यरुन्धन्।
गतदिने रक्षाकर्तृमेलने छात्राणां पुरत‌ः कंचन रक्षितारम् असभ्यवचनैः अपामानयत् इति कस्याश्चन मातुः आवेदने एव रक्षिदलस्य अयमुुक्रमः जातः।

एन्डोसल्फान् प्रक्षोभः अवसितः।

तिरुवनन्तपुरम्- कासरगेड् देशीयैः एन्डोसल्फान् दुरितबाधितैः तिरुवनन्तपुरं सचिवालयस्य पुरतः समायोजितः उपवाससमरः पर्यवसितः। मुख्यमन्त्रिणः पिणरायि विजयस्य सान्निध्ये क्रियमाणया चर्चया एव समरमवसितुं निर्णयो जातः। मुख्यमन्त्रिणः निजीयकार्यदर्शी एं.वी. जयराजन् वर्यः एव कार्यमिदं पत्रालयान् न्यवेदयत्।

दुरिकबाधितानां पट्टिकायां इतो/प्यधिकं नाम अन्तर्भाव्यमिति समरसमितेः आवश्ये सर्वकारः अनुकूलतां प्राकटयत्। एतदर्थम् अनुस्यूतकार्यक्रमान् आयोजयितुं मण्डलाधिपं निरदिशत्।

दुरतबाधितानाम् अष्टौ परिवाराः गतेषु पञ्चगिवसेषु सचिवालयगोपुरे समरं कुर्वन्तः आसन्।

नववाणी विराजते – 09-02-2019

10-02-2010-ല്‍ ആരംഭിച്ച നവവാണിക്ക്  10-02-2019-ന് പത്താം ജന്മദിനമാണ്. താഴെക്കൊടുത്തിരിക്കുന്ന സമസ്യ പൂരിപ്പിക്കുമ്പോള്‍ കേരളത്തിലെ സംസ്കൃതവിജ്ഞാനലോകത്ത് ഈ സംരംഭം എന്തു ചലനമുണ്ടാക്കി എന്ന കാര്യം കൂടി പരിഗണിക്കണമെന്ന് അഭ്യര്‍ത്ഥിക്കുന്നു.

नूतना समस्या- 

“नववाणी विराजते”

ഒന്നാംസ്ഥാനം

പ്രതിവാരം സമസ്യാഭി:
വാർത്താസംപ്രേഷണൈസ്തദാ
ഭൂലോകേ സർവരാജ്യേഷു
നവവാണീവിരാജതേ

N. NARAYANAN

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 09-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. नारायणभट्टपादस्य गुरुः कः ? (क) अच्युतपिषारटिः  (ख) नारायणपिषारटिः (ग) गोविन्दपिषारटिः
  2. यमुनायाः पुराणप्रसिद्धं नाम किम् ? (क) निला (ख) सरस्वती (ग) कालिन्दी
  3. रघुवंशमहाकाव्यस्य कर्ता कः ? (क) भासः (ख) भारविः  (ग) कालिदासः
  4. केरलेषु अक्षरनगरी इति प्रसिद्धा नगरी का ? (क) कोट्टयम्  (ख) तृश्शूर्  (ग) एरणाकुलम्
  5. ” 96 ” इत्यस्य संस्कृपदं किम् ? (क) पञ्चनवतिः (ख) षण्णवतिः  (ग) सप्तनवतिः
  6. ” तनयः ” इत्यस्य समानार्थकं पदं  किम् ? (क) तरुः (ख) पु्त्रः (ग) वृक्षः
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ? (क) सांख्यम् (ख) योगम् (ग) न्यायम्
  8. ” गच्छति स्म ” अर्थः कः ? (क) गमिष्यति (ख) गच्छतु  (ग) अगच्छत्
  9. वैदिकशब्दानाम् अर्थविवरणं केन वेदाङ्गेन लभ्यते ? (क) निरुक्तेन  (ख) कल्पेन (ग) व्याकरणेन
  10. ” वदति ” इत्यस्य लकारः कः ? (क) लङ् (ख) लोट् (ग) लट्

ഈയാഴ്ചയിലെ വിജയി

MURALI S.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • K Hariharan
  • Ganga O M
  • Narayanan Namboothiri
  • Davis N K
  • Jeevanlal
  • Sreehari Narayanan
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केन्द्रिय समाचारविभागस्य (सी.बी.ऐ.) मेधावित्वेन ऋषिकुमारशुक्लावर्यः नियुक्तः।

नवदिल्ली- अनिश्चितत्वस्यान्ते नूतनः सी.बी.ए. निदेशकत्वेन ऋषिकुमारशुक्लावर्यः केन्द्रसर्वकारेण नियुक्तः सः मध्यप्रदेशे अरक्षिदलस्य परमनिदेशकः आसीत्। प्रधानमन्त्रिणः आध्यक्ष्ये उन्नताधिकारसमितिरेव बहुदिवसस्य अधिवेशन्नन्तरं एनं न्ययुञ्जत। 30 प्रत्याशिनां पट्टिकातः इयं नियुक्तिः जाता। प्रधानमन्त्री नरेन्द्रमोदीवर्यः, विपक्षदलनेता मल्लिकार्जुन खार्गे, मुख्यन्यायाधीशः रञ्जन् गोगोय् च समित्याम् अङ्गानि सन्ति।

सि.बि.ए. निदेशकनियुक्तिः अनिश्चिततया विलम्बते इति कारणेन सर्वोच्चन्यायालयस्य विमर्शः सञ्जातः आसीत्। एतादृशी संस्था तात्कालिकनिदेशकेन प्रवर्तते इत्येतत् नाङ्गीकर्तुं शक्यते इत्यासीत् न्यायालयविमर्शः।

छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।

  स्वस्थाः जनाः राष्ट्रस्य सम्पदः।

तृशूर्- प्रधानमन्त्रिणः स्वच्छभारत अभियानमनुसृत्य स्वच्छताविषये तृशुर् मट्टत्तूर् माध्यमिकविद्यालयीयैः छात्रैः निर्मितं ह्रस्वचलच्चित्रं प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य प्रशंसामवाप।

पूर्वं राज्य-संस्कृतं कौण्सिल् विद्यालयीयछात्राणां कृते ह्रस्वचलचित्रप्रतियोगितां समायोजयदासीत्। तदात्वे रचितमिदं चलच्चित्रम्। तत्रापि पुरस्कृतमासीदितम्।

विद्यालयप्रथमाध्यापिकायाः कृते लिखिते पत्रके छात्राणाम् इदम् उद्यमं प्रधानमन्त्री मुक्तकण्ठं प्रशशंस। पत्रके श्रीमता नरेन्द्रमोदिना सूचितं यत् महात्मगान्धिनः १५० तमे जन्मदिनसमारोहं प्रवर्तमाने अस्मिन् काले स्वच्छता तथा स्वास्थ्यं च कथं परस्परपूरकं भवतीति छात्राः सम्यक् ज्ञातवन्तः। एतत् अन्येषां छात्राणां मार्गदर्शकमपि भूयात् इति।

प्रधानमन्त्रिणः प्रशंसापत्रम्