Monthly Archives: February 2019

केन्द्रीयः अर्थसङ्कल्पः- आयकरपरिधिः परिष्कृता।

नवदिल्ली- २०१९ तमवर्षस्य कृते अर्थसङ्कल्पः अद्य लोकसभायां प्रस्तुतः। निर्वाचने गोपुरद्वारमागते तात्कालिकरूपेणैव अस्य प्रस्तुतिः जाता। अर्थसङ्कल्पानुसारम् आयकरस्य परिधौ वर्धना जाता। नूतननिर्देशानुसारं पञ्चलक्षरूप्यकाणि पर्यन्तम् वेतनाययुक्ताः आयकरात् मुक्ताः भवेयुः। आयकरनियमस्य ८० सी अनुसारम् आयकरात् १.५ लक्षं रूप्यकाणाम् आश्वासः आसीत्य़ स अनुवर्तते। अतः ६.५ लक्षं रूप्यकाणां वेतनाययुक्तैः कर्मकरैः आयकरः न दातव्यः।

सामान्यव्यवकलनं ४०००० रूप्यकेभ्यः ५०००० रूप्यकाणि इति परिवर्तितम्। पत्रालयसञ्चितनिधेः ४०००० रूप्यकाणि पर्यन्तं करमुक्तप्रस्तावना नावश्यकी।