छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।

  स्वस्थाः जनाः राष्ट्रस्य सम्पदः।

तृशूर्- प्रधानमन्त्रिणः स्वच्छभारत अभियानमनुसृत्य स्वच्छताविषये तृशुर् मट्टत्तूर् माध्यमिकविद्यालयीयैः छात्रैः निर्मितं ह्रस्वचलच्चित्रं प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य प्रशंसामवाप।

पूर्वं राज्य-संस्कृतं कौण्सिल् विद्यालयीयछात्राणां कृते ह्रस्वचलचित्रप्रतियोगितां समायोजयदासीत्। तदात्वे रचितमिदं चलच्चित्रम्। तत्रापि पुरस्कृतमासीदितम्।

विद्यालयप्रथमाध्यापिकायाः कृते लिखिते पत्रके छात्राणाम् इदम् उद्यमं प्रधानमन्त्री मुक्तकण्ठं प्रशशंस। पत्रके श्रीमता नरेन्द्रमोदिना सूचितं यत् महात्मगान्धिनः १५० तमे जन्मदिनसमारोहं प्रवर्तमाने अस्मिन् काले स्वच्छता तथा स्वास्थ्यं च कथं परस्परपूरकं भवतीति छात्राः सम्यक् ज्ञातवन्तः। एतत् अन्येषां छात्राणां मार्गदर्शकमपि भूयात् इति।

प्रधानमन्त्रिणः प्रशंसापत्रम्

 

One Response to छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।

  1. राजी says:

    👏👏👏👍अभिनन्दनानि

Leave a Reply

Your email address will not be published. Required fields are marked *