Daily Archives: February 15, 2019

पुल्वामा भीकराक्रमणं- राष्ट्रिय-अन्वेषणसंघः गृहमन्त्री राजनाथसिंहश्च अद्य काश्मीरे।

श्रीनगरम्- जम्मू काश्मीरे राष्ट्रिय-अन्वेषण-निगमस्य द्वादशाङ्गसंघः अद्यअन्वेषणं विधास्यति। सूक्ष्मनिरीक्षणसन्नाहेन सह अगम्यमानः संघः भीकराक्रमणेन अभिभूते स्थले निरीक्षणम्  आयोजयिष्यति। ऐ.जी. पदवीस्थः अधिकारी एव संघं नयति।

केन्द्रीय गृहमन्त्री राजनाथसिंहश्च अद्य काश्मीरान् प्राप्स्यति। प्रातः प्रथानमन्त्रिणः नेतृत्वे आयोज्यमानस्य मन्त्रिसभासुरक्षासमित्यधिवेशनस्य अनन्तरं स काश्मीरान् गमिष्यति।

भीकराक्रमणेन अभिभूते पुल्वामा स्थले सन्दर्शनानन्तरं वरिष्ठैः सुरक्षाकर्मकरैः तथा रक्षिदलनेतृभिः सह सः आशयविनिमयं करिष्यति। एतस्मिन्नन्तरे जम्मूकाश्मीरे अन्तर्जालसेवानां नियन्त्रणं  समायोजयत्। सुरक्षाकारणेनैवेदं नियन्त्रणं भवति।