Monthly Archives: January 2019

राष्ट्रपितुः प्रतिरूपं प्रति गोलिकाप्रहारः, हिन्दू महासभां प्रतिकृत्वा केरला सैबर् वार्येय्स् इति संघः।

तिरुवनन्तपुरम्- राष्ट्रपितुः महात्मागान्धिनः एकसप्ततितमे रक्तसाक्षित्वदिने हिन्दू महासभया गान्धीवधः पुनराविष्कृतःतथा नाथुरां गोड्से प्रतिमायां हारार्पणं च कृतम्। घटनामेतां अत्यतिशयेन श्रुतवन्तः राष्ट्रपौराः। हिन्दूमहासभायाः राष्ट्रियसचिवा पूजा शुकन् पाण्डे एव गान्धिवधस्य पुनराविॆष्कारमकरोत्। गान्धिनः प्रतिरूपं प्रति क्रीडानालिकाशस्त्रेण सा गोलिकां प्राहरत्।

अस्याः घटनायाः चलनचित्रदृश्यानि समाजमाध्यमेषु प्रचरितानि। अतः समाजस्य विविधेभ्यः कोणेभ्यः महान् प्रतिषेधः अङ्कुरित। तस्य भागत्वेन केरला सैबर् वार्येय्स् इति अन्तर्जालिकासंघः हिन्दूमहाभायाः जालपुटम् अपाहरत्। तत्र सभां विरुध्य मुद्रावाक्यादिकं प्रादर्शयच्च। एष राष्ट्रद्रोहापराधः, अतः तान् विरुध्य सर्वकारीणदण्डार्थं सन्नाहमपि तैः कृतम्।

भूतपूर्वः केन्द्रमन्त्री जोर्ज् फर्णाण्टस् वर्यः मृतिमुपगतः।

नवदिल्ली- जनता पार्टी इति दलस्य स्थापकाङ्गं तथा भूतपूर्वः केन्द्रीय-प्रतिरोधमन्त्री जोर्ज् फर्णाण्टस् वर्यः(88वयस्कः) कालयवनिकायाम् अन्तरधात्। स्मृतिभ्रंशरोगबाधितः स बहुकालं चिकित्सायामासीत्।

पूर्वं एन्.डी.ए. सर्वकारस्य मन्त्रिसभायां प्रतिरोधमन्त्रिपदम् अलंचकार। तदनन्तरं एन्.डी.ए. खटबन्धात् विमुक्तः सन् स्वतन्त्ररूपेण निर्वाचनमभिमुखीकृतः। परन्तु पराजितः। पत्रकारप्रवर्तनात् राजनैतिकरंगमागतः अयं महानुभावः आपातस्थितेः काले कारागारे बद्धः आसीत्। कर्णाटकराज्ये मंगलूरु देशीयः भवत्ययम्।

डो. एम्. लीलावतीवर्या केन्द्रसाहित्य अक्कादम्या पुरस्कृता।

नवदिल्ली- विख्याता कविः प्रभाषिका च डो. एम्. लीलावतीवर्या केन्द्र साहित्य अक्कादमी पुरस्कारेण आदृता। विवर्तनस्य गणे एवायं पुरस्कारः दीयते। श्रीमद्वाल्मीकिरामायणस्य कैरलीविवर्तनमेव तां पुरस्कारार्हामकारयत्।

पूर्वं केरल-साहित्य-अक्कादमीपुरस्कारः, वल्लत्तोल् पुरस्कारः इत्यादिभिः एषा समादृता आसीत्। १९२७ सेप्तेम्बर् ६ दिनाङ्के तृशूर् मण्डले गुरुवायूर् देशे भूजातेयं महती कुन्नंकुलं विद्यालयात् प्राथमिकशिक्षामवाप्य पुनः एरणाकुलं महाराजास् कलालयः मद्रास् सर्वकलाशाला, केरलसर्वकलाशाला इत्यादिषु स्वकीयां शिक्षाम् अपूरयत्। बहुकालपर्यन्तं कलालये अध्यापिका असीत् विरामनन्तरं साहित्यसपर्यायां निरता वर्तते।

शर्माजीपुरस्कारं डो.जी. चन्द्रशेखरप्रभुवर्याय समार्पयत्

।कोल्लम्- विख्यातस्य कवेः संस्कृतप्रचारकस्य कृष्णशर्मणः स्मरणार्थम् आयोजितः पुरस्कारः भवति शर्माजी पुरस्कारः। प्रगद्भाय संस्कृताध्यापकाय प्रतिवर्षं एषः पुरस्कारः दीयते। अस्मिन् वर्षे डो.जी. चन्द्रशेखरप्रभुवर्याय पुरस्कारमिमं प्रादात्।

विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षः डो. पी.के. माधवन् वर्यः पुरस्कारमदात्। नागपूरस्थे कविकुलगुरुःकालिदास-विश्वविद्यालये व्याकरणविभागाध्यक्षः डो.सी.जी. विजयकुमारवर्यः मुख्यभाषणं व्यधास्यत्। राष्ट्रपतिपुरस्कारेण मानितं डोय जी. गङ्गाधरन् नायर् वर्यं समारोहे/स्मिन् समादरयत्। डो. एटनाट् राजन् नम्प्यार्, डो. एं.पी. उण्णिकृष्णन्, डो. पी.के. शङ्करऩारायणन् प्रभृतयः आशंसां समार्पयन्।

शीतो देशाद्बहिर्गतः – 02-02-2019

 

नूतना समस्या –

“शीतो देशाद्बहिर्गतः”

Last date: 02-02-2019

शिलाज-रासायनिकोद्योगाः कोच्चीनगरस्य साध्यतां वर्धयिष्यति। प्रधानमन्त्री।

कोच्ची- शिलाज-रासायनिकोद्योगाः अधिकतया कोच्चीं प्राप्स्यन्ति, तथा बी.पी.सी.एल् मध्यस्थाः ऐ.आर्.ई.पी. परियोजनाः कोच्चीनगरस्य औद्योगिकसाध्यतां वर्धयिष्यतीत्यपि प्रधानमन्त्री नरेन्द्रमोदी अवदत्। केच्ची तैलशुद्धीकरणशालायां बी.पी.सी.एल्. संस्थायाः ऐ.आर्.ई.पी. परियोजनायाः उद्घाटनं निर्वक्ष्यन् भाषमाण आसीत् सः। द्विवर्षाभ्यन्तरे राष्ट्रस्थेभ्य षट् कोटिपरिमितेभ्यः जनेभ्यः पाचकवातकनालीं अदात् इति मोदीवर्यः असूचयत्।

     मुख्यमन्त्री पिणरायि विजयः केन्द्रमन्त्रिणौ धर्मेन्द्र प्रधान्, अल्फोण्स् कण्णन्तानम्, राज्यपालः ज. पी. सदाशिवं इत्यादयः समारोहे भागमभजन्त।

PRASNOTHARAM 02-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वेदस्य मुखं किम् ? (क) व्याकरणम्  (ख) निरुक्तम्  (ग) छन्दः
  2. ” कुटीरम्  ” इत्यस्य समानार्थकं पदम् ? (क) गृहम् (ख) घोषः  (ग) भवनम्
  3. अशक्तानाम् बलं भवति ? (क) क्षमा  (ख) चिन्ता (ग) उद्यमम् 
  4. ” कृष्णद्वैपायन ” इति कस्य नाम भवति ? (क ) कालिदासस्य  (ख) वाल्मीकेः  (ग) वेदव्यासस्य
  5. अमितम् अहितम् अनावृतम् च भक्षणम् —–। (क) त्याज्यम् (ख) उत्तमम् (ग) श्रेष्ठम्
  6. केरळानाम् राजधानी का ?  (क) तृश्शूर्  (ख) एरणाकुलम् (ग)तिरुवनन्तपुरम्
  7. ६३ इ्यस्य पदम् ?  (क) त्रिसप्ततिः (ख) त्रिषष्ठिः (ग) त्रिनवतिः
  8. आर्यसमाजस्थापकः कः ?  (क) रवीन्द्रनाथटागोऱः (ख)सुभास् चन्द्रबोसः (ग) दयानन्द सरस्वती
  9.  ” बाल ” शब्दस्य षष्ठी बहुवचनम् ? (क) बालात्  (ख) बालेषु  (ग)  बालानाम्
  10.  ” अस्मद् ” शब्दस्य तृतीया एकवचनम्  ? (क) मया  (ख) त्वया (ग) मम

ഈയാഴ്ചയിലെ വിജയി

HARIHARAN K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • HARIHARAN K
  • GANGA O M
  • MARIYA K W
  • DAWN JOSE
  • ADIDEV C S
  • ANUGRAHA ARAVIND
  • JOBY PUVATHINGAL

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

भारतरत्नपुरस्कारः।

भूतपूर्वराष्ट्रपतिः प्रणव् कुमार् मुखर्जी, प्रशस्तः संगीतज्ञः भूपन् हसारिका, राष्ट्रीय स्वयंसेवक संघस्य नेतृष्वन्यतमः नानाजी देशमुख् च भारतसर्वकारेण दीयमानेन सर्वोत्तमपुरस्कारेण समादृताः। गणतन्त्रदिनानुबन्धितया सर्वकारेण पुरस्कारो∫यं दीयते।

     २०१२ तः आरभ्य २०१७ वर्षपर्यन्तं भारतस्य राष्ट्रपतिरासीत् प्रणब् कुमार् मुखर्जी वर्यः। कोन्ग्रस् दलस्य शासनकाले वित्तमन्त्री तथा विदेशकार्यमन्त्री चासीत् अयं महात्मा। १९३५ दिसम्बर् मासस्य ११तमे दिनाङ्के लब्धजन्माभवत्। इदानीमपि राष्ट्रस्य हिताय प्रवर्तमानस्य अस्य कीर्तिः पुरस्कारेणानेन द्विगुणिता वर्तते। राष्ट्रस्यास्य उपराष्ट्रपतिरूपेणापि तस्य योगदानं महदस्ति।

     राष्ट्रीय-स्वयंसेवक-संघस्य नेतृषु अन्यतम आसीत् नानाजी देशमुख् वर्यः। विद्याभ्यासमण्डले स्वास्थ्यक्षेत्रे च कर्म अकरोदयं महात्मा। १९१६ अक्तूबर् ११ दिनाङ्के भूजातो∫यं विविधेषु जनसेवनकर्मसु व्यापृतो∫भवत्। २०१० फेब्रुवरिमासस्य २७ दिनाङ्के दिवमारूढो∫यं नानाजी देश्मुख् इति नाम्ना सुपरिचित आसीत्।

     असां संगीतमण्डले प्रमुख महात्मा भवति भुपन् हसारिका।अयं  सुधाकान्त इति नाम्ना प्रसिद्धः आसीत्। चलनचित्रगायकः, वाग्गेयकारः कविः चलनचित्रनिर्माता चासीत् अयं वर्यः। पद्मश्री, पद्मविभूषण्, पद्मभूषण्, दादा साहिब् फाल्के पुरस्काराः चानेन स्वायत्तीकृता वर्तन्ते। २०११ तमे वर्षे दिवंगतः सः मरणानन्तरत्वेन बहुमानितः सर्वकारेण।

     भारतरत्नपुरस्कारः भारतसर्वकारेण प्रजाभ्यः दीयमानः सर्वोत्तमपुरस्कारः भवति। १९५४ तमे वर्षे जनुवरिमासस्य द्वितीयदिने भारतरत्नपुरस्कारः प्रथमतया आयोजित आसीत्। श्री राजगोपालाचारी वर्याय तस्मिन् वर्षे अयं पुरस्कारः प्रथमतया समर्पितश्च।

मोहन् लाल् नम्पीनारायणन् वर्ययोः पद्मभूषण् पुरस्कारः

नवदिल्ली- गणतन्त्रदिवसमालक्ष्य पद्मपुरस्काराः घोषिताः। कैरलीचलचित्ररंगे विशिष्टनटः श्री मोहन् लाल् वर्यः तथा विख्यातः शास्त्रज्ञः नम्पी नारायणन् वर्यः च पद्मभूषण् पुरस्कारेण बहुमानितौ।

     शिवगिरिमठस्थः स्वामी विशुद्धानन्दः तथा विख्यितः गायकः के.जी. जयन् वर्यश्च पद्मश्रीपुरस्कारेण आदृतौ। विख्यातपतिरकाराय यशश्सरीराय कुल्दिप् नेय्यार् वर्याय पद्मिभूषण् पुरस्कारः मरणानन्तरबहुमतिरूपेण दास्यति। नटः तथा नर्तकश्च प्रभुदेवा वर्यः अपि पद्मश्रीपुरस्कारेण आदृतः।

राज्ये विद्यालयीयशिक्षारंगे समग्रपरिवर्तनाय विदग्धसमितेः अनुशासनम्।

तिरुवनन्तपुरम्- राज्यस्थेषु विद्यालयेषु शिक्षारंगे समग्रपरिवर्तनाय विदग्धसमित्या अनुशासितम्। प्रथमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं शिक्षा एकस्य निदेशालयस्य परिधौ आनयनमेव मुख्यः निर्देशः। एतत्सम्बन्धि आवेदनं समित्यध्यक्षः एन्.ए. खादर् वर्यः मुख्यमन्त्रिणे अदात्।

     निर्देशानुसारं विद्यालयस्य पूर्णनियन्त्रणं प्रांशुपालस्य दायित्वं भविता। शिक्षायाः घट्टद्वयं प्रकीर्तितमत्र। प्रथमघट्टः प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं भवति। एषु अध्यापकानां योग्यता स्नातकबिरुदं तथा बी.एड्. च भवति। अष्टमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं द्वितीयो घट्टः। अत्र अध्यापकानां योग्यता स्नातकोत्तरबिरुदं तथा बी.एड्. च भवति।

.