Monthly Archives: March 2019

अस्तं याति गभस्तिमान् – 06-04-2019

 

नूतना समस्या –

“अस्तं याति गभस्तिमान्”

ഒന്നാംസ്ഥാനം

പര്യാപ്തമൂർജമുഷ്ണം ച
ജീവലോകേ സമർപയൻ
തോയേസായമയം നിത്യ-
മസ്തംയാതിഗഭസ്തിമാൻ

NARAYANAN N.

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” विस्मितः ” इत्यस्य समानपदं किम् ? (क) पीडितः (ख) सफलः (ग) चकितः
  2. ” पेटिकायाम् ” अत्र का विभक्तिः ? (क) तृतीया (ख) सप्तमी (ग) चतुर्थी
  3. ” तस्य ” इत्यस्य बहुवचनरूपं किम् ? (क) तयोः  (ख) तेषाम्  (ग) तेषु
  4. ” भवति ” अत्र कः लकारः ? (क) लृट्  (ख) लङ् (ग) लट्
  5.  त्वं ——- मातुलगृहं गमिष्यति ? (क) कुत्र (ख) कदा (ग) किम् 
  6.  वर्षाकाले मयूराः ——-कुर्वन्ति ? (क) किम् (ख) कदा (ग) कुत्र
  7.  जगन्नाथपुरी ——- अस्ति ? (क) किम् (ख) कदा (ग) कुत्र 
  8. गङ्गानदी ——- प्रवहति ? (क) किम् (ख) कुतः (ग) कुत्र
  9. तव स्वास्थ्यं ——- अस्ति ? (क) किम् (ख) कुत्र (ग) कथम्
  10. ” दृष्ट्वा ” अत्र कः प्रत्ययः ? (क) ल्यप्  (ख) क्त्वा (ग) तुमुन्

ഈയാഴ്ചയിലെ വിജയി

Revathy K M, Tripunithura

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Revathy K M, Tripunithura
  • Narendaran A K
  • Manu Wilson
  • Adidev C S
  • Rajalakshmi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कुजग्रहे जीवसन्धारणं स्थापयितुं निदानेन सह नासायाः परीक्षणम्।

न्यूयोर्क- कुजग्रहे जीवसन्धारणं शक्यमिति अनुमानेन सह नासा संस्था आयाति। राष्ट्रान्तरीय बहिराकाशनिलये कृतात् परीक्षणात् जीवसन्धारणं शक्यमिति सूचना लब्धा।

     कुजपर्यवेक्षणात् लब्धां सूचनामाधारीकृत्य कुजमण्डलसमानं साहचर्यं कृतकरूपेण संसृष्ट्य सूक्ष्मजीवीन् सस्यजालानि च निलयं संप्रेष्य एव परीक्षणं जातम्। बयोमेट्स् इत्यासीत् परीक्षणस्य नाम। ५३३ दिनानि यावत् तानि सस्यानि सूक्ष्मजीविनश्च बहिराकाशनिलये जीवान् धारयन्ति अत्यन्तं दुष्करं साहचर्यं सन्तारयामासुः।

     कुजग्रहे जीवसन्धारणस्य निदानमेवेदमिति शास्त्रज्ञानाम् अभिप्रायः। सौरयूथे भूमिमतिरिच्य जीवस्य साध्यता कुजग्रहे एवास्तीत्यतः इदं परीक्षणं शास्त्रलोकं कौतुकेन पश्यति।

सुप्रसिद्धा कैरलीलेखिका अषिता दिवमगात्।

तृशूर्- कैरलीसाहित्ये विख्याता लेखिका अषिता अन्तरिता। तृशिवपुरस्थे निजीयचिकित्सालये कुजवासरे रात्रौ १२.५५ वादने सा ऐहिकं दौत्यं समापूरयत्। अर्बुदरोगग्रस्ता सा चिकित्सायामासीत्।
तृशूर् मण्डलस्थे पषयन्नूर् देशे १९५६ एप्रिल् पञ्चमे दिवे आसीत् तस्याः जननम्। केरलसर्वकलाशालायाम् जेर्णलिसं विभागे अध्यपकः डो. के.वी. रामन्कुट्टी अस्याः पतिः भवति।
अस्याः प्राथमिकी शिक्षा दिल्ल्यां मुम्बैय्यां च सम्पन्ना। एरनाकुलं महाराजकलालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पादितवती। स्त्रीजीवितस्य विह्वलतां व्याकुलतां च तस्याः कथासु प्रतिफलति। बालसाहित्ये कथासाहित्ये आत्मीयग्रन्थरचनायां च सा निष्णाता आसीत्।

केरलस्य उत्सङ्गसङ्गणकपद्धतिः -मुख्यमन्त्री मुद्राम् उदघाटयत्।

तिरुवनन्तपुरम्- केरलस्य स्वीयम् उत्सङ्गसङ्गणक-ग्राहकवितारकं कोक्कोणिक्स् नामकम् अचिरेण प्रवृत्तिपथमायाति। अस्याःपद्धतेः मुद्रा मुख्यमन्त्रिणा पिणरायि विजयन् वर्येण प्रकाशिता। उद्योगमन्त्री ई.पी. जयराजन् वर्यः कोक्कोणिक्स् संस्थया निर्मितम् उत्सङ्गसङ्गणकम् मुख्यमन्त्रिणे समार्पयत्।

     केक्कोणिक्स् संस्थायाः प्राथमिकपङ्क्तिसंगणकानि फेब्रुवरी11 दिनाङ्के दिल्ल्यां सम्पत्स्यमानायाम् अङ्कीयवैद्युतक -निर्माणोच्चकोट्यां(Electronics Manufacturing Summit) अवतारयिष्यति। केल्ट्रोण् आख्या सार्वजनीनसंस्था य़ु.एस्.टी. ग्लोबल् इति अङ्कीयवैद्युतकनिर्माणरंगस्थया आगोलसंस्थया सह मिलित्वा एवकेरले एव गुणयुतम् उत्सङ्गसङ्गणकं निर्मातुं प्रयतते।

     इन्टेल् इति इलट्रोणिक्स् निर्माणसंस्थायाः मार्गनिर्देशान् अङ्कीयज्ञानं च अवाप्य कोक्कोणिक्स् इति सार्वजनीन-निजीयसंरम्भस्य रूपकल्पना जाता।

मर्त्यजन्म परं वरम् – 30-03-2019

 

नूतना समस्या –

“मर्त्यजन्म परं वरम्”

ഒന്നാംസ്ഥാനം

പുണ്യാപുണ്യവിവേകസ്തു
മർത്യജാതിഷു ദൃശ്യതേ
തസ്മാത് സർവേ വിജാനന്തു
മർത്യജന്മ പരം വരം.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 30-03-2019

 

 

प्रश्नोत्तरम्।

 

 

 

  1. रमेशः इतस्ततः ———।(क) भ्रमति  (ख) भ्रमतः  (ग) भ्रमन्ति
  2. वयं तत्र  ——–। (क) अगच्छम् (ख) अगच्छाव (ग) अगच्छाम
  3. सूर्यः अस्तं  ———। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यसि
  4. वैद्यः औषधं  ———। (क) यच्छति (ख) यच्छसि (ग) यच्छतः
  5. शिष्याः गुरुम् ———। (क) अपृच्छत् (ख) अपृच्छतां (ग) अपृच्छन्
  6. दीपकः ———-भवति । (क) प्रकाशेन (ख) प्रकाशाय (ग) प्रकाशम्
  7. सर्वे ———- कुर्वन्ति । (क) परिश्रमः (ख) परिश्रमेण (ग) परिश्रमम्
  8. जलं  ——- अस्ति। (क) कूपः (ख) कूपे (ग) कूपम्
  9.  ——– मधुरं वदन्ति । (क) शुकेन (ख) शुकाः (ग) शुके
  10. ——–भटाः पतति । (क) अश्वः (ख) अश्वैः (ग) अश्वात्

 ഈയാഴ്ചയിലെ വിജയി

Anjana. M.S. LFCHS IJK

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana. M.S. LFCHS IJK
  • Narayanan Mumbai
  • Maneesha Joseph
  • Sivaranjini M V
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालः – शपथमग्रहीत्।

नवदिल्ली- सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालत्वेन शपथं गृहीतवान्। दिल्ल्यां राष्ट्रपतिभवने आयोजिते अधिवेशने राष्ट्रपतिः रामनाथ कोविन्द् वर्यः शपथं ग्राहयति स्म। उपराष्ट्रपतिः वेङ्कय्या नाय्टू वर्यः, प्रधानमन्त्री नरेन्द्रमोदीवर्यः मुख्यन्यायाधीशः रञ्जन् गोगोय् प्रभृतयः समारोहे भागमभजन्।
२०१७ मेय् मासे सर्वोच्चन्यायालयात् वृत्तिविरतः घोष् वर्यः जूण् मासे राष्ट्रिय-मानवाधिकार-आयोगे अङ्गत्वेन प्रवर्तितवान्।
सर्वोच्चन्यायालयस्य आदेशानुसारमेव अधुना लोकपालस्य नियुक्तिः जाता।

प्रलयानन्तरकेरलं नवोत्थानमूल्यानि च पाठ्यपुस्तकेषु अन्तर्भावयति।

तृशूर्- राज्यस्तेषु पाठ्यपुस्तकेषु नवोत्थानमूल्यानि प्रलयानन्तरकेरलं च अन्तर्भावयति। 2021 तमे वर्षे पाठ्यपुस्तकानां परिवर्तनं भविता। तदानीं एतान् विषयान् पठितुं छात्राः अवसरं लभेयुः। पाठ्यपद्धतिपरिष्करणमनुबन्ध्य सञ्चालितेषु  विचारसत्रेषु एष एव विषयः उन्नीतः।

     विचारसत्रेषु समाकलितान् विषयान् पाठ्यपद्धतिपरिष्करणसमितेः नयरेखायां अन्तर्भावयति। 2020 तमे वर्षे आगस्त् मासावधि पाठ्यपद्धतिपरिष्करणस्य सर्वाणि प्रवर्तनानि सम्पूर्य पाठपुस्तकानि मुद्रणार्थं देयानि इति सर्वकारस्य आशयः 2021 वर्षे एतानि पुस्तकानि छात्रेभ्यो दातुं शक्यते।

     फेब्रुवरी प्रथमवारे गतसप्ताहे च विचारगोष्ठ्यः समभवन्। पञ्चवर्षगवधिकमेव पाठ्यपद्धतिपरिष्करणस्य समयः।

कण्णूर् परियारं वैद्यकीयकलालयः सर्वकारेण स्वायत्तीकृतः।

तिरुवनन्तपुरम्- परियारं वैद्यकीयकलालयम् अनुबन्धस्थापनानि च स्वायत्तीकृत्य सर्वकारेण आदेशो दत्तः। एतदर्थं नैयामिकान् अन्तरायान् दूरीकर्तुं पूर्वमेव विधानसभायाम् अन्वादेशः प्रस्तुतःआसीत् सर्वकारेण।

     परियारं सहकारि चिकित्सालयः तथा प्रागतिक-वैद्यकीयसेवा, एवम्  तदनुबन्धसंस्थाः वैद्यकीय-दन्तीयकलालयौ, अनुवैद्यकलालयः इत्यादयः राजकीयवैद्यशास्त्रपठनविभागस्य प्रत्यक्षनियन्त्रणे आनीयन्ते। अधिकारविनिमयः यावत् पूर्णं भविष्यति तावत् अस्य नियन्त्रणं कण्णूर् मण्डलाधिकारिणे निक्षिप्तं भविता।

     अनेन एं.बी.बी.एस्. पठनस्यकृते 100 जनाः बी.डी.एस्. पठनस्य कृते 60 जनाश्च प्रवेशार्हाः भविस्यन्ति, येषां  सर्वकारीणे शुल्के पठनं कर्तुं शक्यते।