४८ तमः वयलार् पुरस्कारः अशोकन् चेरुविल् महाभागाय दीयते।
तिरुवनन्तपुरम्- अष्टचत्वारिंशः वयलार् पुरस्कारः आख्यायिकाकाराय अशोकन् चेरुविल् महाशयाय प्रदीयते। काट्टूर् कटव् इति तस्य आख्यायिका एव पुरस्काराय चिता। वयलार् स्मारकनिधिरेव पुरस्कारः आयोजितः।बेन्यामिन्, प्रोफ- के एस् रविकुमार्, ग्रेसी इत्येते पुरस्कारनिर्णेतारः आसन्। केरलीय राजनैतिकमनसः आख्यानमेव काट्टूर् कटव् इत्याख्यायिका इति पुरस्कारसमितेः अभिप्रायः। ३०० परिमितानां पुस्तकानां मध्ये अन्तिमचरणे षट् पुस्तकानि परिगणितानि। तेषु उत्कृष्टा रचना भवति काट्टूर् कटव् इति पुरस्कारसमितेः निर्णयः।
वयलार् रामवर्मा महाशयस्य मृत्युदिने ओक्टोबर् मासस्य २७ तमे दिनाङ्के अनन्तपुर्यां निशागन्धि वेदिकायां पुरस्कारसमर्पणं भविता।
Leave a Reply