८,९ कक्ष्यायोः सम्पूर्णोत्तरणं न भविता। दशमकक्ष्यायां उत्तारणाय न्यूनतमाङ्कः अवश्यं करिष्यतिl

तिरुवनन्तपुरम्- केरलराज्यस्य पाठ्यक्रमानुसारम् अध्ययनं कुर्वतां छात्राणां कृते न्यूनतमाङ्कः अवश्यं क्रियते। अद्य समायोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। जूण् मासे समायोजिते शिक्षासम्मेलने अयं निर्देशः सूचितः आसीत्

अष्टम्यां नवम्यां च कक्ष्यायाम् इतःपरं सम्पुर्णोत्तरणं न भविता। उत्तरणाय न्यूनतमाङ्कः अवश्यं क्रियते। २०२५-२६ अध्ययनवर्षे एस् एस् एल् सि परीक्षा एतदनुसारम् आयोजयिष्यति।

सम्पूर्णोत्तरणं राज्ये शिक्षायाः गुणवत्तान्यूनतायै कारणं स्यादिति सूचनानुसारमेव अयं निर्णयः स्वीकृतः।

Leave a Reply

Your email address will not be published. Required fields are marked *