शबरिमलायां पुनः नियन्त्रणानि आयोज्यन्ते।

पत्तनंतिट्टा- शबरिमलायां पुनः सन्दर्शकनियन्त्रणम् आयोजयितुं रक्षिदलं सन्नह्यति। कुम्भमासपूजार्थं कुजवासरे मन्दिरोद्घाटनं भविता। अस्मिन् साहचर्ये निलक्कल् प्रदेशात् सन्निधानपर्यन्तं नियन्त्रणम् आयोजयिष्यति।

     युवतीप्रवेशविषये प्रतिषेधमालक्ष्य भक्तेभ्यः सुगमं दर्शनं विधातुं सर्वकारः सदा सन्नद्धः भवति, तदर्थमेव नियन्त्रणमिति पत्तनंतिट्टमण्डल-रक्षिदलाधिकारी न्यगादीत्।

     सुरक्षायाः भागत्वेन कुजवासरे भक्त-पत्रकारप्रभृतयः सर्वे जनाः प्रातः दशवादनानन्तरमेव निलक्कल् तः पम्पा-सन्निधानं प्रति प्रवेशमर्हन्ति। पूजादिवसेषु शान्तिं संरक्षितुं सर्वैः सहकारिभिः भाव्यम् इति रक्षिदलनेता अभ्यर्थयत्।

     पूजार्थं फेब्रुवरी १२ कुजवासरादारभ्य १७ रविवासरपर्यन्तं सन्निधाने प्रवेशः भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *