Monthly Archives: February 2019

आट्टुकाल् देवीमन्दिरे अद्य पोङ्काला महामहः। अनन्तपुरी भक्तानां महायागशाला जाता।

तिरुवनन्तपुरम्- अद्य आट्टुकाल् मन्दिरे  पोङ्काला महोत्सवः। व्रतशुद्ध्या सह देव्यै पोङ्काला समर्पयितुं लक्षपरिमितानां स्त्रीजनानां सान्निध्यम् अनन्तपुर्यां जातम्। कु्भमासे पूर्वफल्गुनी नक्षत्रं पौर्णमी च युगपदागते दिने एव अयं महोत्सवः आचर्यते।

     प्रातः 10.15 वादने मन्दिरस्थात् दीपात् अग्निमादाय पण्टार अटुप्प् इति चुल्लिकायां  स्थाप्य एव पोङ्काला आरभते। ततः चुल्लिकातः चुल्लिकं अग्निः संक्राम्यते। मन्दिरात् योजनापर्यन्तं दुरे पोङ्कालार्थं चुल्ल्यः स्थापिता वर्तन्ते। मध्याह्ने 2.15 वादने एव पोङ्काला निवेद्यं समर्प्यते। पोङ्कालादिनमालक्ष्य अनन्तपुरीनगरं सुरक्षावलये अस्ति। स्त्रीणां शवरिमला इति प्रसिद्धं भवति आट्टुकाल् मन्दिरम्।

भीकराक्रमणं प्रतिरोद्धुं पञ्चवर्षाभ्यन्तरे को/पि प्रयासः कुतो न कृतः- ममता बानर्जी।

नवदिल्ली- पुल्वामा भीकराक्रमणसमानं प्रवर्तनं निरोद्धुं गते पञ्चवर्षाभ्यन्तरे केन्द्रसर्वकारेण कोपि प्रयासः कुतो न कृत इति पश्चिमवंगमुख्यमन्त्री ममता बानर्जीवर्या अवदत्। पञ्चदिवसं यावत् अस्मिन् विषये सा मौनमवलम्बते स्म। अधुना पश्चिमवंगदेशे वंशीयविभागाय श्रमो दृश्यते इत्यतः एतत् कार्यं वक्तुं प्रेरिता अभवम् इति सा न्यगादीत्।

मोषणं पापमेव तत् – 23-02-2019

 

नूतना समस्या –

“मोषणं पापमेव तत्”

ഒന്നാംസ്ഥാനം

യഃ പുരാ ചോരണം കൃത്വാ
ബാന്ധവാൻ പര്യപാലയത്
സോSവദത്താപസോ ഭൂത്വാ
മോഷണം പാപമേവ തത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कति वेदाङ्गानि सन्ति ? (क) ६  (ख) ७  (ग) ८
  2. सांख्यदर्शनस्य उपज्ञाता कः ?  (क) पतञ्जलि महर्षिः (ख) कपिलमहर्षिः (ग) जैमिनिमहर्षिः 
  3. ” शीघ्रम् ” इत्यर्थकं पदं किम् ?  (क) सम्प्रति  (ख) झटिति (ग) अधुना 
  4. ” विदुरवचनम्  ” केन सम्बद्धं भवति ? (क) रामायणेन  (ख) महाभारतेन  (ग) शाकुन्तलेन
  5. अमरकोशस्य कर्ता कः ?  (क) वाल्मीकिः  (ख) व्यासः  (ग) अमरसिंहः
  6. महाभारतं कस्मिन् विभागे अन्तर्भवति ?  (क) इतिहासेषु (ख) पुराणेषु (ग) महाकाव्येषु
  7. दैवदशकस्य कर्ता कः ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी
  8. केरलस्य संस्कृतविश्वविद्यालयः कुत्र वर्तते ? (क) तृश्शूरे  (ख) कण्णूरे  (ग) कालट्याम्
  9. भारतस्य देशीयपक्षी कः ? (क) मयूरः  (ख) हंसः  (ग) शुकः
  10. परोपकाराय  ———- दुहन्ति । (क) वृक्षाः (ख) नद्यः  (ग) गावः

ഈയാഴ്ചയിലെ വിജയി

SNEHA K.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SNEHA K.
  • Parvathy
  • Murali S
  • Ganga O M
  • Hariharan K
  • Anaswara Mohan
  • Dawn Jose
  • Adidev C S
  • Jancy Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

स्वयं प्रतिरोधाय भारतस्याधिकारम् आलम्बते इति अमेरिक्काराष्ट्रम्।

वाषिङ्टण्-भीकरवादं विरुध्य स्वयं प्रतिरोधाय तथा भीकरवादमुन्मूलयितुं भारताय अमेरिक्काराष्ट्रस्य आलम्बनम्। स्वयं प्रतिरोधाय भारतस्याधिकारम् अनुमेने इति ऐक्य-अमरिका-राष्ट्रप्रवक्ता सूचितवान्।

     पुल्वामा भीकराक्रमणस्य पश्चात् भारतस्य राष्ट्रिय-सुरक्षा उपदेष्टारं अजित् डोवल् वर्यं दूरवाणीद्वारा आहूय अमरिकायाः राष्ट्रिय-सुरक्षा-उपदेष्टा जोण् बोल्टन् वर्यः एव कार्यमिदमसूचयत्। पुल्वामा भीकराक्रमणे स स्वकीयंअनुशोचनसन्देशं च दूरवाणीद्वारैव दत्तवान्।

     आतङ्कवादिभ्यः आलम्बनं दीयमानस्य पाकिस्तानस्य प्रवर्तनानि नाङ्गीकरणीयानि, एतानि पूर्णतया समापयितुं पाकिस्तानं प्रति पुनरपि आवेदयिष्यति इत्यपि जोण् बोल्टन् वर्यः अवदत्।

पुल्वामा भीकराक्रमणं- राष्ट्रिय-अन्वेषणसंघः गृहमन्त्री राजनाथसिंहश्च अद्य काश्मीरे।

श्रीनगरम्- जम्मू काश्मीरे राष्ट्रिय-अन्वेषण-निगमस्य द्वादशाङ्गसंघः अद्यअन्वेषणं विधास्यति। सूक्ष्मनिरीक्षणसन्नाहेन सह अगम्यमानः संघः भीकराक्रमणेन अभिभूते स्थले निरीक्षणम्  आयोजयिष्यति। ऐ.जी. पदवीस्थः अधिकारी एव संघं नयति।

केन्द्रीय गृहमन्त्री राजनाथसिंहश्च अद्य काश्मीरान् प्राप्स्यति। प्रातः प्रथानमन्त्रिणः नेतृत्वे आयोज्यमानस्य मन्त्रिसभासुरक्षासमित्यधिवेशनस्य अनन्तरं स काश्मीरान् गमिष्यति।

भीकराक्रमणेन अभिभूते पुल्वामा स्थले सन्दर्शनानन्तरं वरिष्ठैः सुरक्षाकर्मकरैः तथा रक्षिदलनेतृभिः सह सः आशयविनिमयं करिष्यति। एतस्मिन्नन्तरे जम्मूकाश्मीरे अन्तर्जालसेवानां नियन्त्रणं  समायोजयत्। सुरक्षाकारणेनैवेदं नियन्त्रणं भवति।

 

विश्व-केरलसभायाः प्रथमं पश्चिमेष्या अधिवेशनम् अद्य दुबै राष्ट्रे।

अबुदाबि- विश्वकेरलसभायाः प्रथमं पश्चिमेष्या मेखला अधिवेशनं दुबै राष्ट्रे   मुख्यमन्त्री पिणरायि विजयन् वर्यः उद्घाटयिष्यति। दुबै इत्तिसलात् अक्कादम्याम् शुक्रवासरे शनिवासरे च अदिवेशनं निश्चितमस्ति।

केरलाद् बहिः आयोज्यमाने अधिवेशने गल्फ् प्रविश्यायां प्रवासिभिः अनुभूयमानाः समस्याः चर्चिष्यन्ते। शताधिकाः प्रतिनिधयः अस्मिन् भागं भजिष्यन्ति।

प्रवासिनां कृते आविष्क्रियमाणाः परियोजनाः अधिकृत्य मुख्यमन्त्री विशदयिष्यति। विश्वकेरलसभायाः सप्त उपसमितयः सन्ति तासां निर्देशानुसारं चर्चा भविष्यति।

 

संस्कृतमाधुरी- समापनसमारोहः।

इरिङ्ङालक्कुटा- राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे माध्यमिकस्तरीयाणां छात्राणां कृते संस्कृतपठनपरिपोषणाय प्रवृत्तिपथमायोजयन्ती पद्धतिः भवति संस्कृतमाधुरी। राज्ये प्रथमं दशसु विद्यालयेषु आदर्शरूपेण अस्य निर्वहणं व्यदधात्।

          इरिङ्ङालक्कुटा नटवरम्प् उच्चतरविद्यालये अस्याः पद्धतेः समापनं जूबिली हाल् वेदिकायां सुसम्पन्नम्। तदनुबन्ध्य क्रीडाकक्ष्यायाः आरभ्य दशमकक्षंयापर्यन्तेभ्यः छात्रेभ्यः संस्कृतक्रीडानिर्देशः अदात्। संस्कृतक्रीडोत्सवस्य उद्घाटनं ग्रामपञ्चायत् अध्यक्षा इन्दिरा जयतिलकन् निरवहत्। जिल्ला पञ्चायत् सदस्यः टी.जी. शङ्करनारायणः समापनसमारोहम् उदघाटयत्। रक्षाकर्तृसमित्यध्यक्षः एं.के. मोहनन् वर्यः आध्यक्ष्यं व्यदधात्। प्रथमाध्यापिका लालीवर्या स्वागतं तथा संस्कृताध्यापकः सुरेष्बाबू कृतज्ञतां च अर्पयामासतुः। डो. महेष् बाबू, बाबू कोटश्शेरि प्रभृतयः आशंसां व्याहरन्।

ट्विट्टर् मध्ये व्याजानां निरोधः, प्रधानमन्त्रिणः ४ लक्षम् अनुगतिकाः बहिर्गताः। राहुल्गान्धिनः अनुगतिकानां संख्या अपि न्यूना जाता।

नवदिल्ली- व्याजादेशान् अवगत्य अनुप्रवर्तनम् आरब्धे सति प्रधानमन्त्रिणः नरेन्द्रमोदिनः काण्ग्रेस् दलनेतुः राहुल्गान्धिनः तथा असंख्यकाऩां राजनैतिकनेतृृृृणां च लक्षपरिमिताः ट्विट्टर् आदेशाः विनष्टाः।

व्याजादेशायुक्ताः अनुगतिकाः प्रधानमन्त्रिणमेव अधिकतया अनुगच्छन्ति। गतजूलैमासादारभ्य व्याजलेखायुक्तान् अनुगतिकान् अवगत्य तेषामादेशान् समापयत्। ततःपरं नरेन्द्रमोदिनः अनुगतिकेषु लक्षत्रयं व्याजलेखायुक्ताः बहिर्गताः।

दिल्लीस्था इन्द्रप्रस्था इन्स्टिट्ट्यूट् आफ् टेक्नोलजी संस्था एव व्याजलेखायुक्तानां प्रभावं बहिरानयत्।

सैव लोकेषु विश्रुता – 17-02-2019

 

नूतना समस्या –

“सैव लोकेषु विश्रुता”

ഒന്നാംസ്ഥാനം

യാ വാണീ സർവ്വമർത്യാണാം
ക്ഷേമായൈവപ്രവർത്തതേ
ആർഷസംസ്ക്കാരസമ്പന്നാ
സൈവലോകേഷുവിശ്രുതാ

NARAYANAN N

“അഭിനന്ദനങ്ങള്‍”