Daily Archives: February 28, 2019

भारतस्य वीरपुत्रः अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति।

इस्लामाबाद्- पाकिस्तानेन बन्दिरुपेण गृहीतः भरतस्य वायुसेना विंग् कमान्टर् अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति। पाक् प्रधानमन्त्रिणा इम्रान् खान् वर्येण इस्लामाबादे इदम् उद्घोषितम्। अभिनन्द् वर्धमान् वर्यस्य ग्रहणे अन्ताराष्ट्ररंगे महान् विमर्शः पाकिस्तानं विरुध्य प्रचरति इत्यतः पाकिस्तानस्य अयं निर्णयः। समाधानसन्देश इति रुपेणैव अभिनन्द् वर्यं मोचयतीति इम्रान् खान् अवदत्।

     ह्यस्तने सीमामुल्लङ्ख्य आगतानि पाक् विमानानि सीमातः दूरीकर्तुं यतमान आसीत् अभिनन्द् वर्यः। तदन्तरे मिग् 21 इति विमानं भञ्जयन् पाक् सैन्यं अभिनन्द् वर्धमानम् अग्रहीत्। सः झटित्येव मोचनीय इति भारतेन सूचित आसीत्।