Daily Archives: February 7, 2019

दशरूप्यकशुल्केन त्रिचक्रिकायां यात्रा, कोच्ची मेट्रो रयिल् निगमस्य नूतना पद्धतिः।

कोच्ची- कोच्ची नगरे अवरतः दशरूप्यकाणां शुल्केन त्रिचक्रिकायात्रासेवा समारब्धा। त्रिचक्रिकाकर्मकराणां संयुक्तसंघस्य नेतृत्वे कोच्ची मेट्रो निगमस्य अनुबन्धसेवारूपेण प्रवर्तमानायाः त्रिचक्रिकासेवायाः कृते वैद्युतिमुपयुज्य प्रवर्तमानाः त्रिचक्रिकाः सज्जाः भवन्ति।

पद्धतेः सूत्रधारत्वं कोच्ची मेट्रोरयिल् निगमस्यास्ति। प्रथमं किलोमीट्टर् द्वयपर्यन्तं दशरूप्यकाणि, अतिरिक्तैकैक कि.मी. कृते पञ्चरूप्यकाणि इति क्रमः। वैद्युतत्रिचक्रिकायां चत्वारो जनाः प्रयाणाय प्रभवन्ति। एकैकः दशरूप्यकाणि दद्यात्। षेयर् ओट्टो इत्यस्य नामास्ति।

परिस्थितिमलिनीकरणात् विमुक्ता भवति इत्यस्याः विशेषता। अपि च जी.पी. एस्. सुविधा अस्तीत्यतः सुरक्षा अपि भवति।