Daily Archives: February 2, 2019
केन्द्रिय समाचारविभागस्य (सी.बी.ऐ.) मेधावित्वेन ऋषिकुमारशुक्लावर्यः नियुक्तः।
नवदिल्ली- अनिश्चितत्वस्यान्ते नूतनः सी.बी.ए. निदेशकत्वेन ऋषिकुमारशुक्लावर्यः केन्द्रसर्वकारेण नियुक्तः सः मध्यप्रदेशे अरक्षिदलस्य परमनिदेशकः आसीत्। प्रधानमन्त्रिणः आध्यक्ष्ये उन्नताधिकारसमितिरेव बहुदिवसस्य अधिवेशन्नन्तरं एनं न्ययुञ्जत। 30 प्रत्याशिनां पट्टिकातः इयं नियुक्तिः जाता। प्रधानमन्त्री नरेन्द्रमोदीवर्यः, विपक्षदलनेता मल्लिकार्जुन खार्गे, मुख्यन्यायाधीशः रञ्जन् गोगोय् च समित्याम् अङ्गानि सन्ति।
सि.बि.ए. निदेशकनियुक्तिः अनिश्चिततया विलम्बते इति कारणेन सर्वोच्चन्यायालयस्य विमर्शः सञ्जातः आसीत्। एतादृशी संस्था तात्कालिकनिदेशकेन प्रवर्तते इत्येतत् नाङ्गीकर्तुं शक्यते इत्यासीत् न्यायालयविमर्शः।
छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।
स्वस्थाः जनाः राष्ट्रस्य सम्पदः।
तृशूर्- प्रधानमन्त्रिणः स्वच्छभारत अभियानमनुसृत्य स्वच्छताविषये तृशुर् मट्टत्तूर् माध्यमिकविद्यालयीयैः छात्रैः निर्मितं ह्रस्वचलच्चित्रं प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य प्रशंसामवाप।
पूर्वं राज्य-संस्कृतं कौण्सिल् विद्यालयीयछात्राणां कृते ह्रस्वचलचित्रप्रतियोगितां समायोजयदासीत्। तदात्वे रचितमिदं चलच्चित्रम्। तत्रापि पुरस्कृतमासीदितम्।
विद्यालयप्रथमाध्यापिकायाः कृते लिखिते पत्रके छात्राणाम् इदम् उद्यमं प्रधानमन्त्री मुक्तकण्ठं प्रशशंस। पत्रके श्रीमता नरेन्द्रमोदिना सूचितं यत् महात्मगान्धिनः १५० तमे जन्मदिनसमारोहं प्रवर्तमाने अस्मिन् काले स्वच्छता तथा स्वास्थ्यं च कथं परस्परपूरकं भवतीति छात्राः सम्यक् ज्ञातवन्तः। एतत् अन्येषां छात्राणां मार्गदर्शकमपि भूयात् इति।












