Daily Archives: February 25, 2019

राज्य-परिवहणनिगमस्य वैद्युत-बस् यानानि अद्यःप्रभृति सेवां विधास्यन्ति।

तिरुवनन्तपुरम्- केरलराज्य-परिवहणनिगमस्य नूतनः संरम्भः भवति वैद्युतबस् यानसेवा। सेवेयम् अद्यःप्रभृति प्रवर्तते। शब्दरहित‌ः धूमरहितश्च बस् यानमिति सङ्कल्पः अनया सेवया साध्यो भवति।

     डीजल् उपयुज्य प्रवर्तमानस्य बस् यानस्य व्ययः प्रतिकिलोमीट्टर् ३१ रूप्यकाणि भवन्ति, परं वैद्युतयानार्थं व्ययः केवलं त्रीणि रूप्यकाण्येव इति विशेषः। एकस्मिन् समये वैद्युतविन्यासेन ३०० कि.मी.पर्यन्तं दूरं यातुं शक्यते।

     तिरुवनन्तपुरे एरणाकुले च प्रथमं सेवा भविष्यति। दश बस् यानानि अधुना सेवार्थं सज्जानि भवन्ति। एतानि कांचन समयामनुसृत्य सज्जीकृतानि। समयानुसारं निजीयनिगमस्य यानं चालकसहितं परिवहणनिगमाय दीयते। वैद्युतिः नियन्त्रकश्च परिवहणनिगमेन आयोज्येते।