Category Archives: News Updates
गुरु वन्दनम् पट्टाम्पि सम्पन्नम्l

पट्टाम्पि – श्री नीलकण्ठ संस्कृत महाविद्यालये दशमितवर्षाणि संस्कृतविभागस्य अध्यक्ष पदमलङ्कुर्वतः डा के जी पौलोस् वर्यस्य श्रीमती टी के सरलायाश्च अशीति जन्मदिनाघोषः- “गुरु वन्दनं पट्टाम्पि ” इति नामकः सम्पन्न :। पट्टाम्पि महाविद्यालये मार्च् मासस्य सप्तविंशतितमे आसीत् अयम् आघोषः । महाविद्यालयस्य सुसज्जीकृते सभामण्डपे पट्टाम्पी संसदीयः श्री मुहम्मद् मुहसिन् आघोषस्य औपचारिकम् उद्घाटनं निरवहत् । मानवानां एकीकरणे भाषायाः महत्स्थानमस्तीति तेनानुस्मारितम् । संस्कृतं मानवानाम् एकीकरणाय तथा समाजस्य परिष्कराणाय सप्रयोजकं करणीयमिति स उक्तवान् ।
उद्घाटनसभायां महाविद्यालयस्य प्राचार्यः ङा दिलीप् सी डी आध्यक्षपदम् अलङ्कृतवान् । सङ्घाटकसमित्या : कार्यदशी श्री उण्णिकृष्णन् चाषियाट् आमुख भाषणम् अकरोत् । मलयाल सर्वकलाशालायाः उपकुलपति : डा एल् . सुषमा मुख्यं भाषणं कृतवती । श्री मुहम्मद् मोहसिन् आदर फलकं दम्पत्योः अदात् । डा राजेष् कुमार् . ( कुलसचिवःकेरल कलामण्डलम् , ) डा पि एम् वारियर् (कोट्टककल् आर्यवैद्य शालायाः मुख्यवैद्यः) डो सी पी चित्रभानु ( प्रोफ्सर पट्टाम्पी महाविद्यालय : ) डा षर्मिला के तङ्कप्पन् ‘ ( कार्यदर्शी AKGCT महाविद्यालयः) च आशंसाभाषणानि अकुर्वन् । डा के जी पौलोस् टी के सरला च प्रतिवचनभाषणं चाकुरुताम् । सभायां विविधानां ग्रन्थानां प्रकाशनमपि सम्पन्नम् । संस्कृत विभागस्य अध्यक्ष : डा वासु महोदयः सभायै स्वागतमाशशंस । सङ्घाटकसमित्या : उपाध्यक्षः श्री एम् एस् शर्मा कृतज्ञताभाषणं च अवदत् ।
ङा पी वी रामन् कुट्टी, डा के एच् सुब्रह्मण्यः, डो सी एम् नील कण्ठ: , श्री जीव ( विद्यार्थी )डा.पी के मुहम्मद् कुट्टी ,पी एम् वासुदेवन्, श्री के एम् परमेश्वरन् च गुरुवन्दनस्य सङ्घाटने प्रचालने च प्रयतितवन्तः आसन् । अशीति आघोषवस्य भागत्वेन विशिष्टा सग्धिः च सम्पन्ना । शिष्याः छात्राः पौरमुख्याश्च त्रिशतमिताः भागभाज : आसन् ।
डो के जी पौलस् तृप्पूणितुरा संस्कृत महाविद्यालयस्य प्राचार्य : श्रीशडकर संस्कृत सर्वकलाशालायाः प्रथमः कुलसचिवः ‘केरल कलामण्डलं कल्पित सर्वकलाशालायाः उपकुलपति : कोटककल् आयुर्वेद वैद्यशालायाः ग्रन्थ प्रकाशनाध्यक्ष : इत्यादिषु पदेषु अपि विराजमानः आसीत् । आङगले तथा कैरल्यां च अनेन पञ्चाशदधिका ग्रन्था : रचिताः सन्ति । नटाङ्कुश कूटियाट्टम् कैरली परिभाषा कूटियाट्टत्तिनु ओरामुखम्, बालबोधनम् लघुसंस्कृतम् इत्याद्याः तेषु प्रमुखाः सन्ति । 2023 तमे वर्ष केन्द्र साहित्य अक्कादमी संस्थायाः भाषा संस्थान् पुरस्कारेणापि आदृत: अयं महानुभावः ।
विनोद् कुमार् शुक्लवर्यः ज्ञानपीठेन पुरस्कृतः।

नवदिल्ली- एकोनषष्टितमः ज्ञानपीठपुरस्कारः घोषितः। हिन्दी साहित्यकारः विनोद् कुमार् शुक्लवर्यः पुरस्काराय चितः। छत्तीस्गढ् राज्यात् ज्ञानपीठेन पुरस्कृता प्रथमा व्यक्तिः भवति विनोद् कुमार् शुक्ला। समकालिक हिन्दीसाहित्ये विख्यातो भवत्ययम्। हिन्दीसाहित्यात् ज्ञानपीठेनपुरस्कृतः द्वादशतमश्च भवत्ययं महानुभावः। ज्ञानपीठजेत्र्या प्रतिभा राय् वर्यया नेतृत्वमापन्ना समितिरेव पुरस्कारनिर्णयमकरोत्। एकादशलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति।
सुनिता विल्यम्स् प्रतिनिवृत्ता।

फ्लोरिडा- प्रतिपालनस्य विरामं संसूच्य सुनिता विल्यम्स् तस्याः सङ्गश्च सञ्चार्यमाणं क्रू-९ इति बहिराकाशपेटकं मेक्सिक्का अन्तस्समुद्रे फ्लोरिडा तीरसमीपे समुद्रे अवततार। स्पेस् एक्स्प्रस् संस्थानस्य एं वि मेगन् इति महानैका पेटकं यात्रिकान् च समुद्रात् स्वीकृत्य तीरं नेतुं यतते। एवं मासेभ्यः पूर्वम् आरब्धं दौत्यं ,फलं याति।
कुजवासरे भारतीयसमयः प्रातः १०-३५ वादने एव फ्रीडं ड्रागन् इति पेटकं अन्ताराष्ट्र बहिराकाशनिलयात् प्रस्थितमासीत्। निक् हेग्, सुनिता विल्यम्स्, बुच् विल्मोर् तथा रूस् राष्ट्रीय बहिराकाशसञ्चारी अलक्साण्डर् गोर्बुनोव् इत्येते आसीत् पेटकस्थाः यात्रिकाः। सुनिता विल्यम्स्, बुच् विल्मोर् च नवमासीयं दौत्यं सावेशं सम्पूर्यैव भूमिं प्रतिनिवृत्तौ।
अशीति आघोषः गुरु वन्दनञ्चl

पट्टाम्पि महाविद्यालये दशवर्षादधिकं वृत्तिमावहन्नासीत् डो . के जी पौलोस् वर्य : तथा तस्य पत्नी सरला च । दम्पत्योः अशीति जन्मदिनाघोषः तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कोलेज् सभासदने संयोज्यते । अस्य मासस्य सप्तविंशत्यां दिने आघोष : आयोजितो वर्तते । गुरुवन्दनम् पट्टाम्पि इति नाम्ना उत्सवः समायोजितः अस्ति । तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य सचिव : यम् बी राजेष् वर्यः गुरुवन्दनम् उद्धाटयिष्यति।
केरल संसद् सदस्यः मुहम्मदु मुहसिन् अध्यक्षः भवेत् । मलयालं सर्वकलाशालायाः वैस् चान्सलर् डो . एल्. सुषुमावर्या मुख्यं भाषणं करिष्यति । दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घटकाः भवन्ति । पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटी बद्धाश्च वर्तन्ते ।
स्वकीयान् अर्भकान् स्वाश्रय-निजीयविद्यालये पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं प्रकाशयिष्यति- वि शिवन् कुट्टि रlज्यशिक्षामन्त्री।

काञ्ञङ्ङाट्- सार्वजनीनविद्यालयं विहाय आङ्गलमाध्यमस्वाश्रय-निजीयविद्यालये स्वकीयान् अर्भकान् पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं कृत्वा प्रकाशयिष्यति इति केरलीय-शिक्षामन्त्री वि शिवन् कुट्टिवर्यः प्रास्तौत्। ए-के-एस-टि-यु इति शिक्षकसंघस्य राज्यस्तरीये अधिवेशने विद्याभ्यासविचारसत्रम् उद्घाटयन् भाषमाणः आसीत् मन्त्रिवर्यः।
सार्वजनीनविद्यालयाः राज्यस्य सम्पदः भवन्ति। तेषां संरक्षणं समाजस्येव सर्वकारीणकर्मकराणां विशिष्य सार्वजनीनविद्यालयीयशिक्षकाणां दायित्वमस्ति। ते एव सार्वजनीनविद्यालयानां संरक्षकभटाः। केरलेषु बहवः अध्यापकाः स्वकीयान् अर्भकान् निजीयविद्यालयं नीत्वा पाठयन्ति। एषा प्रवृत्तिः सार्वजनीनविद्यालयान् प्रति समाजस्य विश्वासं शोषयति। एतादृशाः शिक्षकाः स्वयं विमृश्य तेषां पूर्वनिर्णयः परिवर्तयितुं यत्नं कुर्युः इत्यपि मन्त्री अवदत्।
कौमारोत्सवः कलाकिरीटं तृशूर् मण्डलेन अवाप्तम्।

तिरुवनन्तपुरम् – पञ्चदिवसपर्यन्तम् अनन्तपुरीनगरं कलाप्रकटनैः सन्दीप्य कौमारकलायाः यवनिका पतिता। अन्तिमनिमेषं यावत् आकाङ्क्षया पूरयन् तृशूर् मण्डलेन कलाकिरीटम् स्वायत्तीकृतम्।
पालक्काट् मण्डलेन सह अनुनिमिषं प्रतियोध्य एकमङ्कम् अधिकमवाप्य तृशूर् मण्डलं विजयकिरीटम् अधारयत्। २००८ अङ्कमवाप्यैव तृशूर् प्रथमस्थानं प्राप। २००७ अङ्केन पालक्काट् मण्डलं द्वितीयस्थाने वर्तते।
२३ संवत्सरानन्तरमेव तृशूर् पुनः विजयकिरीटमवाप। पूर्वं १९९४, १९९९ वत्सरेषु मण्डलेनानेन प्रथमस्थानमवाप्तमासीत्।
मन् मोहन् सिंङ् वर्यः दिवङ्गतः।

नवदिल्ली- भूतपूर्वः प्रधानमन्त्री तथा प्रसिद्धः अर्थशास्त्रपारङ्गतः डा-मन् मोहन् सिंङ् वर्यः(92) कालयवनिकायाम् अन्तरितः। नवदिल्ल्यां AIIMS चिकित्सालये गुरुवासरे रात्रावासीत् मृत्युः। वर्षद्वयपर्यन्तं स चिकित्सायामासीत्।
१९९१-९६ वर्षेषु नरसिंहरावु मन्त्रिमण्डले आर्थिककार्यमन्त्री आसीदयम्। आर्थिक उदारीकरणादि परिष्कारद्वारा राष्ट्रस्य आर्थिकव्यवस्थां परम्परागतमार्गात् परिवर्तितवान् डो मन् मोहन् सिंङ् वर्यः। २००४ तः २०१४ पर्यन्तं द्विवारं स भारतस्य प्रधानमन्त्रिपदम् अलञ्चकार।
अमृतसर् हिन्दू कलालयात् आर्थिकशास्त्रे बिरुदं, पञ्चाब् विश्वविद्यालयात् बिरुदानन्तरबिरुदं च सम्पाद्य केम्ब्रिड्ज् विश्वविद्यालयात् उन्नतबिरुदं, ओक्स्फोड् विश्वविद्यालयात् अर्थशास्त्रे विद्यावारिथि बिरुदं च अवाप्तवान्।
१९७२ तः ७६ पर्यन्तं प्रधानमन्त्रिणः मुख्यार्थिकोपदेष्टा, १९८२ तः ८५ पर्यन्तं रिजर्व् बैङ्क् गवर्णर्, १९८५ तः १९८७ पर्यन्तं आसूत्रणायोगस्य उपाध्यक्षश्चासीत्। मन् मोहन् सिङ् वर्यस्य वियोगमभिलक्ष्य राष्टे एकसप्ताहपर्यन्तं दुःखाचरणं घोषितम्।
एं टि वासुदेवन् नायर् महोदयः दिवङ्गतः।

कोषिक्कोट्- वरिष्ठः कैरलीसाहित्यकारः एं टि वासुदेवन् नायर् वर्यः कालकबलितोsभूत्। कोषिक्कोट् नगरे निजीयातुरालये ह्यस्तनरात्रावेवास्य अन्त्यमभूत्। दशदिनानि यावत् तत्र चिकित्सायामासीत्।
वरिष्ठः कथाकारः तथा अतुल्यः आख्यायिकाकारः नैकेषां चलच्चित्राणां पटकथाकारः चलचित्रनिदेशकश्चासीत् अतुल्यप्रतिभः एष महाशयः। मञ्ञ्, रण्टामूषम् इत्याद्याः अस्य आख्यायिकाः बहुधा प्रशस्तिमवापुः। भारतसर्वकारस्य केरलसर्वकारस्य च साहित्यपुरस्काराः अनेनावाप्ताः। ज्ञानपीठम्, पद्मश्री, साहित्य अक्कादमी पुरस्कारः, केरलश्री, जे सि डानियेल् पुरस्काराश्च तेष्वन्तर्भवन्ति। चलच्चित्र-साहित्यमण्डलस्थाः बहवः तथा प्रशासकाश्च अस्य वियोगे अनुशोचनं प्रकटयन्तः सन्ति।
दिवङ्गतस्यास्य भौतिकदेहसंस्कारः अन्त्येष्टिक्रियाश्च अद्य राजकीयबहुमत्या सह कोषिक्कोट् नगरे सम्पत्स्यते।
हरिप्रसाद् कटम्पूर् वर्यः नारायणीयपुरस्कारजेता।

गुरुवायूर्- २०२४-२५ वर्षस्य नारायणीयपुरस्काराय हरिप्रसाद् कटम्पूर् वर्यः अर्होsभवत्। नारायणीये दर्शनानां प्रभावः इति विषये अनेन कृतः प्रबन्ध एव पुरस्काराय परिगणितः। गुरुपवनपुरेशोपासकः अयं तलश्शेरि तिरुवङ्ङाट् सर्वकारीयविद्यालये संस्कृताध्यापकः भवति। नारायणीयमधिकृत्य नैके प्रबन्धाः अनेन विरचिताः। निमिषकविरयं नैकानि मुक्तकानि व्यरचयत्।
अर्णोस् पातिरि प्रतिभापुरस्कार : समर्पितः।

तृश्शिवपेरूर् – सहृदयवेदिकायाः अर्णोस् पातिरिप्रतिभापुरस्कारः सर्वकारीय पूर्वतनकार्यदर्शिना इ के भरत् भूषण् महाशेन डा सी टि फ्रान्सीस् वर्याय समर्पितः दश सहस्रमितरुप्यकाणि प्रशस्ति फलकञ्च पुरस्कारस्य स्वरूपम् । महानुभावस्य संस्कृतभाषायां अनन्यदृशपाण्डित्यं ‘ संस्कृत भाषायै तेन कृतं समग्रं योगदान ञ्च पुरस्कारसमर्पणाय हेतुभूतं मन्यते । तृश्शिवपुरस्थायां केरल साहित्य अक्कादमि सभामन्दिरे पुरस्कारसमर्पण सभा प्रचालिता आसीत् ।