Category Archives: News Updates
अद्यतन वार्ताःl
वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹
🌸 इराणदेशः स्वनेतृणां लक्ष्यं कृत्वा नूतनानां प्रहारानाम् अनन्तरं प्रतिकारात्मकाक्रमणानां नवीनीकरणं करोति
🌸पुरुषाणां अपि गौरवः अस्ति : केरल उच्चतमालयः विवाहात् बहिः जातस्य बालस्य जन्मप्रमाणपत्रे पितुः नाम परिवर्तनस्य अनुमतिं ददाति
🌸 पूर्व केन्द्रीयमन्त्री के पी उन्नीकृष्णनस्य ९० वर्षे निधनम्।
🌸निर्वाचनआयोगः पश्चिमबङ्गस्य, तमिलनाडुस्य, असमस्य, केरलस्य, पुडुचेरी-नगरस्य च निर्वाचनदिनानां घोषणां कर्तुं निश्चितः अस्ति
🌸 चीनदेशे विकसितस्य नूतनप्रकारस्य लिथियमबैटरी ईवी-परिधिं दुगुणं कर्तुं शक्नोति
🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹
शुभास्ते सन्तु पन्थानः।
इरिङ्गालक्कुटा – अस्मिन् वर्षे सेवनविरामंं प्राप्तानांं संस्कृताध्यापकानां कृते इरिङ्गालक्कुटा विद्याभ्यासजिल्लायाः संस्कृताक्कादमिककौण्सिल् द्वारा शुभयात्रामङ्गलं समायोजितम्। प्रातः ११ वादने समायोजिते समारोहे जिल्ला विद्याभ्यासाधिकारिणी श्रीमति षैला टि. अध्यक्ष पदमावहत्। श्री महेष्बाबू उद्घाटनमकरोत्। संस्कृताध्यापकाः श्री बिजु के.डि, श्री विवेकः, श्री विक्रमः, श्रीमति पार्वती, श्री रण्जित्, च भाषणमकुर्वन्। सभायां १०० मिताः अध्यापकाः भागभागितामभजन्।
नववाण्याः स्थापकः मुख्यसम्पादकश्च श्री जोस् सि.वि (होलिक्रोस् उच्चविद्यालयः माप्राणम्), श्री मनोज् कुमार् (नायर् समाजं उच्चविद्यालयः वालूर्), श्रीमति राजलक्ष्मी (नाषणल् उच्चतरविद्यालयः इरिङ्गालक्कुटा), श्रीमति बैजु (सर्वाकारीय उच्चतरविद्यालयः करूप्पटन्ना) इति जिल्लायां चत्वारः अध्यापकाः विरामं प्राप्ताः सन्ति ।
वयनाट् मण्डले भूस्खलनेन दुरितमनुभूतानां कृते पुनरधिवासपद्धतिः सफलतां याति
कल्पट्टा – वयनाट् मण्डले मुण्डक्कै-चूरल्मला प्रदेशयोः भूस्खलनेन बहवः जनाः मृताः आसन्। २०२४ जूलै मासस्य ३० तमे दिनाङ्के आसीदियं दुर्घटना। बहूनि गृहाणि वाणिज्यशालाः विद्यालयाश्च अस्यां दुर्घटनायां विनष्टानि अभवन्। तेषु प्राणमात्रावशिष्टानां कृते सर्वकारेण राजनैतिकदलैः सन्नद्धसङ्घटनाभिश्च वहुविधानि साहाय्यानि दत्तानि। मुख्यमन्त्रिणः दुरन्तनिवारणनिधौ सामान्यजनैः साहाय्यानि दत्तानि। प्रायः ७५० कोटि रूप्यकाणि एवं समाहृतानि।
दुरन्तबाधितानां पुनरधिवासाय केरलसर्वकारेण कल्पट्टानगरसमीपं लधुनगरपद्धतिः आयोजिता भवति।
४१० परिवाराणां कृते ४१० भवनानां निर्माणं २०२५ जूलै मासे समारब्धम्। तेषु प्रथमघट्टे १७८ गृहाणां निर्माणं प्रायः सम्पूर्णमभवत्।
अस्याः पद्धतेः भागत्वेन पूर्तीकृतानां भवनानां प्रदानं मार्च् मासस्य प्रखमे दिनाङ्के अस्मिन् लघुनगरे सम्पन्नम्। केरलस्य मुख्यमन्त्री श्री पिणरायि विजयः समारोहस्य उद्घाटनं कृतवान्। राजस्वमन्त्री श्री के राजन् आध्यक्ष्यमावहत्। विधानसभासदस्याः अन्ये मन्त्रिणः तद्देशप्रशासकाः विवधविभागानां सचिवाः मण्डलप्रशासिका राजनैतिकदलनेतारश्च सन्निहिताः आसन्। दशसहस्राधिकं जनाः कार्यक्रमेस्मिन् भागं गृहीताः।
अस्मिन् लघुनगरे गृहाणि विद्यालयः बालवाटिका क्रीडाक्षेत्रम् आतुरालयः व्यायामशाला ग्रन्थालयः वाणिज्यशाला च क्रमीकरिष्यति।
शिष्टानां गृहाणां निर्णाणं झटित्येव पूर्तीकृत्य मासत्रयाभ्यन्तरे वासाय दास्यतीति अधिकारिणः प्रास्तुवन्।
सी वी जोस् वर्यस्य” डोपमैन्” प्रकाशितम् ।
इरिङ्ङालक्कुटा: माप्राणं होलिक्रोस् विद्यालयस्य अध्यापकेन श्रीमता सी वी जोस् वर्येण रचितं कथासमाहरं डोपमैन् प्रकाशितम्।विद्यालयस्य वार्षिकदिने समायोजिते सम्मेलने प्रशस्तः साहित्यकारः श्री के वी मणिकण्ठः कथासमाहारं प्राकाशयत्। डोपमैन् त्रयोदश कथानां समाहारं भवति । तृश्शूर् साहिती बुक्स् एव पुस्तकस्य प्रसाधकः भवति ।
इरिङ्ङालकुटा रूपतायाः बिषप् पोली कण्णूक्काटन् सम्मेलनस्य उद्घाटनमकरोत् । विद्यालयस्य प्रबन्धकः जोणी मेनाच्चेरी आध्यक्ष्यमावहत् ।
संस्कृतक्षेत्रे सङ्कणकस्य स्थानसंस्थापने यतमानेषु अन्यतमो भवति सी वी जोस् वर्यः। नववाणी इति संस्कृत वेब् पोर्डल् संस्थापयन् सः संस्कृताघ्यापकानां तथा छात्राणां सहायकः प्रियङ्करः च अभवत् । विश्वे सप्तलक्षमितो जनाः नववाणी सन्दर्शकाः विद्यन्ते । विद्यालये साङ्केतिकविद्यायाः साहाय्येन ग्रन्थालयस्य परिष्कारः तेन कृत : ।
इरिङ्ङालक्कुटा जिल्लाया :”गुरुप्रिय “पुरस्कारेण अयं आदृतश्च । 2025 तमे वर्षे के२ल सर्वकारस्य शिक्षाविभागेनापि महानुभावोयं समादृतः आसीत् ।
संस्कृत भाषापाठने प्रचारणे च संलग्नः श्री सी वी जोस् 2026 मार्च् मासे अध्यापकवृत्तितः विरतो भविष्यति । वृत्तिविरोतोपि स संस्कृतमण्डले सदा यतमान : स्यादिति चिन्तयति ।
विद्यालयीय संस्कृतोत्सवः सम्पन्नः।
केरले राज्यस्तरीयः विद्यालयीयसंस्कृतोत्सवः तृश्शूर् नगरे सम्पन्नः। 2026 जनुवरि मासस्य 14 दिनाङकात् आरभ्य 18 पर्यन्तं नगर हृदयस्थेषु विविध सभामण्डपेषु उत्सवोयं प्रचालितः । संस्कृतोत्सवे संस्कृतं पठतां छात्राणां विविधाः कलास्पर्धाः समायोजिताश्च । विजयिभ्यः पतकानि धनपुरस्काराश्च दीयन्ते।
केरलसर्वकारस्य शिक्षा विभागःएव उत्सवस्यस्य सङ्घाटकः । तदनुबन्धत्वेन संस्कृतसङ्गोष्ठी पण्डितसमादरणं च प्रचालितम्। कार्यक्रमस्यास्य उद्घाटनं केरलीय विद्याभ्यासमन्त्रिणा . श्रीमता वि . शिवन् कुट्टीवर्येण कृतम्।राजस्व- भवननिर्माण मन्त्री श्री के राजन् आध्यक्ष्यमावहत् । श्री . टि आर् .हिरण् मुख्याथिति रूपेण सन्निहित : आसीत् । श्री आर .एस् षिबु(अतिरिक्तशिक्षानिदेशकः) हारिस् टि पीश्री सनल् चन्द्रः च भाषणमकुर्वन्।
तदनुबन्धत्वेन कृतं संस्कृत पण्डितसमादरणं सन्तोषप्रदमेव । संस्कृतमण्डले कृतश्रमाः अध्यापकाः डाः एम् वी नटेशः डो .के के षैन श्रीमती शैलजा श्री पी वि सन्तोष् कुमार् श्री पि एन् मधुसूदनन् श्री प्रदीप् कुमार् रसना पत्रिकायाः मुख्य प्रसाधकः श्री के एम् जनादन : च आदृताः ।
संस्कृतभाषायाः अक्षर शास्त्रम् इत्यासीत् सङ्गोष्ठी विषयः। श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः पय्यन्नूर् परिसरे निदेशकचरः डो ई श्रीधरन् विषयस्य अवतारणं कृतवान् । श्री सुरेष्कुमार् सङ्गोष्ठ्याः क्रमीकारकः आसीत्। सङ्गोष्ठी दिनस्य आरम्भे सङ्गमग्राममाधवस्य जन्मगृहात् समारब्धं दीपशिखाप्रयाणम् नगरं प्राप्तम् । ततः चतुषष्षष्टिः संख्याकैः अध्यापकैः आलपितं स्वागतगानं असुलभसङ्गीतसुधाभ रञ्चासीत्।
श्रीमती सिन्धू वार्यर् वर्यया प्रार्थना कृता । संस्कृतोत्सवस्य समायोजकः डो विवेक् एम वी स्वागतम् तथा श्रीमती प्रभा वी कृतज्ञतां च व्याहृतौ । राज्यस्तरीयसङ्गोष्ठी सभायां राज्यस्य नानाप्रान्तेभ्यः सहस्र परिमिताः संस्कृताध्यापकाः संस्कृतानुरागिणश्च सन्निहिताः आसन् ।
ओक्स्फोर्ड् विश्वविद्यालये संस्कृताध्ययनाय कृतहस्ता मोक्षा।
कोच्ची- संस्कृताध्ययनेन किं प्रयोजनं, तदधीते कियत्पर्यन्तं प्राप्तुं शक्यते इत्यादीनां प्रश्नानाम् उत्तरं भवति अष्टादश वयस्का मोक्षा आर् रावु। ब्रिट्टनस्थे ओक्फोर्ड् नामके विश्वविद्यालये संस्कृताध्ययनार्थं प्रविशति मोक्षा। तत्र पौरस्त्य-मध्यपौरस्त्य अधीतिविभागे संस्कृतभाषायां बिरुदार्थमेव प्रवेशः। सार्धद्विकोटि रूप्यकाणां छात्रवृत्तिराशिः तदर्थं सा प्राप्तवती।
कोच्ची अमृता दान्तिककलाशालायाः उपप्रांशुपालः डा- राकेश् सुरेशः तथा कोच्ची अन्ताराष्ट्रविद्यालये अध्यापिका लक्ष्मी च माक्षायाः पितरौ। उच्चतरविद्यालयं यावत् सा एलमक्करा भावन्स् विद्यामन्दिरे छात्रा आसीत्।
संस्कृतभाषां प्रति आभिमुख्यमासीत् इत्यतः विद्यालयीयाध्ययनादूर्ध्वं वाचनं तया स्वीकृतम्। नवमवर्गादारभ्य ओक्स्फोर्ड् विश्वविद्यालये पिपठिषा तस्याम् अङ्कुरिता। अतः विद्यालये एकादश द्वादशवर्गयोःअध्ययनावसरे विशेषानुमत्या षष्ठविषयत्वेन संस्कृतमपि अध्यैष्ठ।
पाठ्यसरण्याः आरम्भस्य एकवर्षात् पूर्वं तत्र बिरुदप्रवेशनाय प्रक्रमः प्रारभ्यते। प्रतिवर्षं ओक्टोबर् १५ पर्यन्तमेव अपेक्षासमयः। अपेक्षया साकं तत्तद्विषये तात्पर्यं मापयितुं ४००० पदपरिमितं लेखमपि प्रेषणीयं वर्तते। विद्यालयाधिकारिणां साक्ष्यपत्रमपि आवश्यकम्।
एतत् सर्वं स्वायत्तीकृत्यैव मोक्षा ओक्स्फोर्ड् विश्वविद्यालये अध्ययनार्थं सज्जा अभवत्।
संस्कृतदिनाघोषः पण्डितसमादरणञ्च ।
केरलराज्यस्तरीय संस्कृतदिनाघोषः पण्डितानां समादरणं च 2025 दिसम्बर् मासस्य पञ्चमे दिनाङ्के श्रीशङ्कर संस्कृत सर्वकलाशालायां सम्पन्नः । प्रौढमनोहरां सभां साक्षिणीं कृत्वा पण्डितसमादरणकार्यक्रमान् कलाशाला उपकुलपति प्रोः के के गीताकुमारी उदघाटयत् । शिक्षा विभागस्य मुख्यासूत्रण निदेशकः श्री षिबु आर् एस् आध्यक्ष्यपदमावहत् । संस्कृतकौन्सिल् राज्यस्तरीय कार्यदर्शी श्री अब्दुल् लत्तीफ् प्रवर्तनवृत्तम् अवतारयत् ।
डा टि डी सुनीती देवी ( भूतपूर्व संस्कृतस्य विशिष्टा धिकारिणी ) श्री के आर् विजयन् ( भूतपूर्व संस्कृताध्यापक : श्रीरामकृष्ण विद्यालयः कालटि:), श्रीमती एलिकुट्टी (भूतपूर्व संस्कृताध्यापिका, एन् एस् एस् उच्चविद्यालयः पारक्कटव्) श्री सी वी जोस् ( नववाणी प्रचालकः तथा अध्यापकः HCHS उच्चतर विद्यालयः माप्राणम् ) च समादृताः ।
डा मोत्ती जोर्ज (कलाशाला कुलसचिवः ) श्रीमती सिल्वी कोक्काट् (कलाशालायाः सम्पत्ति काधिकारिणी ) डा अजित्त् कुमार् के वी (संस्कृतप्रचारण विभागाध्यक्षः ) श्री हारिस् टी पी (विशिष्टाधिकारी अरबिक् ) श्रीमती दीपा मार्टिन् च भाषणमकुर्वन्।
ततः प्रवृत्तायां चर्चायां डाः सङ्गमेशः ( प्राचार्यः संस्कृत सर्वकलाशाला ) विषयावतरणम् अकरोत् । डा एम् सत्यन् (प्राचार्य:) चर्चायाः नियन्त्रकश्रासीत्। श्री एम् टी दिलीप् (दिनाघोषस्य सङ्घटक:) स्वागतभाषणं तथा श्री वी रामकृष्णः कृतज्ञताभाषणं च कृतवन्तौ ।
श्री हरिप्रसाद् कटम्बूर् महाशयेन विरचितेन स्वागतगानेन प्रारब्धायां सभायां संस्कृत छात्राणां कलाविष्कारः चाभवत् । राज्यस्य विविधप्रान्तेभ्यः शताधिकाः संस्कृताध्यापकाः कलाशालायाः छात्राः संस्कृतप्रणयिनश्च सदसि सन्निहिताः आसन्।
अद्यतन वार्ताः
भारतेन विगतवर्षद्वये ११८ नूतनानां चिकित्सामहाविद्यालयानाम् अनुमोदनं कृतम् ।
तिरुवनन्तपुरे राष्ट्रपत्याः विमानं मलयाली-विमानचालकः उड्डीयत ।
सर्वोच्चन्यायालयेन उक्तं यत्, दिल्लीनगरस्य तीव्रवायुप्रदूषणं शीघ्रं निवारयितुं न शक्नोति।
खाड़ीदेशाः क्षेपणास्त्ररक्षणार्थं लोहगुम्बजव्यवस्थायाः उपयोगं कर्तुं योजनां कुर्वन्ति ।
भारतस्य नूतनं परमाणुपनडुब्बी INS अरिधमन् शीघ्रमेव नाविकसेनायाः सदस्यतां प्राप्स्यति।
अमेरिके एच्-१ बी वीजा-आवेदकानां तेषां परिवाराणां च चेकः वर्धितः अस्ति ।
सैयद मुश्ताक अली टी-२०-क्रीडायां केरल-देशः मुम्बई-नगरं १५ भावनेने पराजितवान् ।
दित्वा-चक्रवातस्य अनन्तरं भारतीयनौसेना श्रीलङ्कादेशं प्रति साहाय्यं प्रेषितम्।
अद्यतन वार्ताःl
🪴🪴🪴🪴🪴🪴
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य दश ओक्टोबर् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪴🪴🪴🪴🪴🪴
🪴रेल्वेस्थानकातः मेट्रोस्थानकपर्यन्तं आकाशसेतोः निर्माणकार्यं प्रवृत्तम्।
🪴अर्बुदरोगिणः चिकित्सार्थं सुपरफास्ट्-यानेषु अपि निःशुल्कयात्रा इति मन्त्री के. बी. गणेशकुमारः उक्तवान्।
🪴एल्.पी., यू.पी. प्रमुखशिक्षकपदेषु अध्यापकाः अनासक्ताः भवन्ति।
🪴केरलविद्यालय-ओलिम्पिक्-
प्रतियोगितायाम् अधिकतम-अङ्कान् प्राप्तं जनपदं मुख्यमन्त्रिणः सुवर्णट्रोफी प्राप्स्यति।
🪴भारतीयसंपन्नानां अधिकृतसूचिं “फोब्स्” प्रकाशितवान्।
अत्यन्तं संपन्नः मलयाली भूत्वा मूकॆश् अम्बानी नामकः सूचीमध्ये प्रथमे स्थाने अस्ति।
🪴कोंकणमार्गेण गच्छतां रेलयानानां नवः समयसारिणी प्रकाशिता।
🪴सेर्जियो गोरी नामकस्य अमेरिकायाः भारतराज्यदूतपदे नियुक्तिः सेनट्-सदस्यैः अनुमोदिता।
🪴अन्तर्राष्ट्रीय-अन्तरिक्ष स्थानकस्य कक्षात् अधः एकः विशालः क्षुद्रग्रहः अतिवर्तमान इति वार्ता।
🪴राज्यस्थेषु विविधेषु सार्वजनिक संस्थासु पदानां कृते भर्तीबोर्डेन विज्ञापनं प्रकाशितम्।
🪴राज्ये आगामिपञ्चदिनेषु अतिवृष्टेः सम्भावना अस्ति।
धन्यवादःk
शुभदिनम्
अद्यतन वार्ताः
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य विंशतिः आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
* प्रधानमन्त्रिणा नरेन्द्रेण मोदिना देशे ५७ नूतनानि केन्द्रीयविद्यालयानि स्थापयितुं निर्णयः कृतः।
* केरले चलचित्रपुरस्काराः २०२४ इत्यस्य प्रदर्शनाः सोमवासरे आरम्भः भविष्यति।
* दार्जिलिङ्गप्रदेशे भू–स्खलनकारणात् मुख्यमन्त्रिणी ममता बनर्जी उत्तरबङ्गं सन्दर्शयिष्यति।
* शिक्षायाः, कौशलविकासस्य, उद्यमित्वस्य च प्रोत्साहनार्थं प्रधानमन्त्रिणा विविधानि योजनानि आरब्धानि।
* हिमवृष्ट्याः कारणेन एवरेस्टपर्वते उद्धारकार्यं प्रवृत्तम् अस्ति।
* २०२५–२६ अध्ययनवर्षे महाराष्ट्रराज्यस्य ३९४ विद्यालयेषु छात्राः न सन्तीति प्रतिवेदनम्।
* क्षेत्रीय रेलविभागेषु तथा उत्पादन एककेषु रेलनियुक्तिबोर्डेन नियुक्तिप्रक्रिया प्रवर्त्यते।
* जेईई, नीट इत्यादि प्रवेशनपरीक्षाणां कठिनतामानं केन्द्रसत्ता परीक्षिष्यते।
* भारतस्य सूचना तन्त्रक्षेत्रे रोजगारकर्षणं दृश्यते।
* २०२६ विश्वक्रीडायाः स्थानं सुरक्षा–संकटयुक्तनगरेभ्यः परिवर्त्येत” इति ग्रन्थस्य वक्तव्यं फिफा संस्थया निरस्तम्।
* नारी क्रिकेट् विश्वक्रीडायां भारतदेशः पाकिस्तानं पराजितवान्।
* औद्योगिकप्रशिक्षणविभागस्य आईटी–कोष्ठके डाटा–प्रवेशक–सञ्चालकः भवितुम् शक्यते।
धन्यवादः
शुभदिनम्














