Monthly Archives: May 2025
अद्यतन वार्ताः – 30-05-2025
🔮🔮🔮🔮🔮🔮
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔮🔮🔮🔮🔮🔮
🔮 वी. शिवनकुट्टिना उक्तं यत्—”विद्यालयेषु बालकानां सुरक्षां सुनिश्चितव्यम्। अस्य मासस्य त्रिंशत्तमदिनाङ्कपर्यन्तं विद्यालयशौच्यकार्यं पूर्णं करणीयम्। अस्मिन् अध्ययनवर्षे शिक्षणपद्धत्याम् अपि परिवर्तनं कृतमस्ति। अयं वर्षः दाबरहितः शैक्षिकवर्षः भविष्यति।”
🔮 राज्ये प्लसवन् प्रवेशार्थं प्रथमः अलाट्मेण्ट् जूनमासस्य द्वितीय दिने भविष्यति। सायं पञ्चवादने प्रथमः अलाट्मेण्ट् प्रकाश्यते।
🔮अष्टादशवर्षाभ्यन्तरे द्वितीयपादे लाभं प्रदाय बी.एस्.एन्.एल् संस्थया उत्तमं वित्तीयपरिणामं प्राप्तम्।
🔮”केरळराज्यस्य सागरसीमायां एम्.एल्.सी एल्स्–३ इत्यस्य मालवाहिन्याः पलायनकारणम् यन्त्रदोषः इति प्रारम्भिकनिगमनम् अस्ति, इति नौवहनमहानिदेशालयस्य वरिष्ठाः अधिकाऱाः अवदन्।”
🔮”भारतं सहितानि अनेके राष्ट्राणि येन करारोपणेन पीडितानि, तस्य डोनाल्ड् ट्रम्पस्य निर्णयस्य विरुद्धं अमेरिकायाः व्यापारन्यायालयेन प्रतिक्रिया प्रदत्ता।”
🔮”राज्यस्य षडशीतिः मुनिसिपालिटीनां षट् निगमेषु च वार्ड्-विभाजनस्य अन्तिमः विज्ञापनः प्रकाशितः।”
🔮”परीक्षायाम् उत्तमं यशः प्राप्तवन्तः छात्राः ये विमानयात्रायाः आकाङ्क्षां कृतवन्तः, तेषां स्वप्नं पूर्णीकृतवती प्रमुखाध्यापिका। केरलस्य कण्णूर्-जिलायाः पानूर्-प्रदेशे तिरुवाल्-यु.पी. विद्यालयस्य प्रमुखाध्यापिका के.वी. रम्ला एषा।”
🔮बङ्गलादेशात् अनधिकृतः प्रवासजनः प्रत्याहर्तुं प्रयत्नः क्रियते, किन्तु बङ्गलादेशेन सहकार्यं न कृतम्।
🔮खत्तरे उष्णतायाः तीव्रत्वात्, उद्घाटितेषु स्थलेषु कर्म कुर्वतां जनानां कृते मर्यादा घोषिता खत्तरराज्यस्य श्रममन्त्रालयेन।
धन्यवादः
शुभदिनम्
जले मग्नं तु केरलम् (भागः ३९३) 31-05-2025
EPISODE – 393
नूतना समस्या –
“जले मग्नं तु केरलम्”
പ്രഥമസ്ഥാനം
“കൂപാദിഷു ജലാധിക്യം
ഗ്രാമേഷു നഗരേഷു ച
പ്രാവൃട്കാലപ്രഭാവേണ
ജലേ മഗ്നന്തു കേരളം”
Bhaskaran N K
“അഭിനന്ദനങ്ങൾ”
केरलेषु विद्यालयानां प्रवर्तनं जूण् – २ दिनाङ्के समारभते।

वारद्वयं यावत् समयसारिण्याम् एकघण्टात्मकः समयः गुणप्रकर्षशिक्षायै उपयुज्यते।
तिरुवनन्तपुरम्- निदाघकालविरामानन्तरं केरलेषु विद्यालयाः जूण् – २ दिनाङ्के प्रवर्तनसज्जाः भवितारः। द्वितीयकक्ष्यातः दशमकक्ष्यापर्यन्तं कक्ष्यासु प्रथमवारद्वयं यावत् उन्मादकवस्तूनि विरुध्य अवबोधार्थं तथा नियमबोधनार्थं च पृथक् कक्ष्यान्तरः भविता इति शिक्षामन्त्री प्रास्तौत्। अपि च समग्रहुणप्रकर्षशिक्षायै मार्गनिर्देशम् अन्तर्भावयितुं निरणयत् इति मन्त्री वार्ताहरसम्मेलने उक्तवान्। नियमबोधः, व्यक्तिशुचित्वम्, परिसरशुचित्वम्, उन्मादकवस्तूनां निरासाय अवबोधः इत्यादीनि मार्गनिर्देशे अन्तर्भवन्ति।
प्रतिदिनम् एकहोरात्मकः कालः एतदर्थम् उपयोक्तव्यम्। प्रारम्भसमये छात्राः सङ्कोचं विना पठनप्रवर्तनेषु भागं ग्रहीतुं शक्नुयुः। तगर्थम् आत्मविश्वासः प्रवर्धयेत्। एकैकस्य दिनस्य सन्देशः कः इति विज्ञापितम्। समयः कदा भवेत् इति विद्यालयाधिकारिभिः निर्णेतुं शक्यते।
अद्यतन वार्ताः -23-05-2025
🌷🌷🌷🌷🌷
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌷🌷🌷🌷🌷
🌷राज्ये उन्नत माध्यमिक-वृत्तिपरमाध्यमिक परीक्षाफलस्य प्रकाशनं सम्पन्नम्।
🌷द्वितीय पिणरायिसरकारस्य चतुर्थवर्षपूर्तेः निमित्तेन कनककुन्न्यां आयोज्यमानस्य “मम केरलम्” इति प्रदर्शनीय विपणिमेलायाः उद्घाटनं मन्त्री वी.शिवनकुट्टिना कृतम्।
🌷केन्द्रस्य नीतिकारणात् आर्थिकस्वातन्त्र्यं विनष्टं सति अपि सर्वेषु क्षेत्रेषु सरकारेण लाभः प्राप्तः इति वित्तमन्त्री के.एन्. बालगोपालः उक्तवान्।
🌷तामरश्शेर्यां मुहम्मद्शहबास् इति छात्रस्य मरणप्रकरणे अपराधिनः छात्राः ये, तेषां एस्.एस्.एल्.सी. परीक्षाफलम् उच्चन्यायालयस्य निर्देशानुसारं प्रकाशितम् इति शिक्षामन्त्री वी. शिवनकुट्टिः अवदत्।
🌷 भारतदेशे महाभयङ्कराक्रमणस्य योजनां पाकचारसंस्थया रचिता आसीत्, तत् भारतीयगूढचारसङ्घेन विफलितम्।
🌷राजस्थानस्य आई पी एल् क्रीडासत्रं निराशाजनकं समाप्तं कृत्वा, तस्य कप्तानः सञ्जु साम्सन् क्रीडाशिबिरं परित्यक्तवान्।
🌷मल्लपुरं प्रदेशे राष्ट्रमार्गनिर्माणे सङ्घटिते ध्वंसघटनायाः सन्दर्भे, के.एन.आर्. कन्स्ट्रक्शन्स् इति कम्पनीं प्रति केन्द्रमार्ग मन्त्रालयेन प्रतिबन्धः आरोपितः।
🌷 भारतीयसेनायाम् प्लस्-टू तन्त्रज्ञानप्रवेशाय विज्ञापनं प्रकाशितम्। नवतिः रिक्तस्थानानि सन्ति। स्थायीअधिकारीपदाय नियुक्तिः भविष्यति। अविवाहितः पुरुषः आवेदनं कर्तुं शक्नोति।
🌷केरळ पब्लिक् सेवाकमिशनेन (PSC) विविधानां पदानां निमित्तम् आवेदनानि आमन्त्रितानि।
धन्यवादः
शुभदिनम्
🌷🌷🌷🌷🌷
अद्यतन वार्ताः – 22-05-2025
🧊🧊🧊🧊🧊
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वाविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🧊🧊🧊🧊🧊
🧊वेतनवृद्धिं विनियुज्य सचिवालयसमीपे आन्दोलनं कुर्वन्त्याः आशावल्लभानां सह चर्चानास्ति इति मुख्यमन्त्री पिणरायी विजयेन उक्तम्।
🧊राज्यस्य ९४१ ग्रामपञ्चायत्सु वार्डविभाजनं समापितम्।
🧊 राष्ट्रीयमार्गेषु भग्नानि सूक्ष्मतः निरीक्षितानि भविष्यन्ति इति मुख्यमन्त्रिणा निगदितम्।
🧊केरलसर्वकलाशालायां विविधाः अध्ययनविभागेषु चतुर्वर्षीयस्नातकप्रवेशपरीक्षा जूनमासस्य अष्टमे दिने भविष्यति।
🧊२०२५ तमे वर्षस्य NEET-MDS परीक्षाफलम् उद्घोषितम्।
🧊केरलराज्यस्य स्वकीयस्य इन्टरनेट्-सम्पर्कस्य (के-फोन) एकलक्षाधिकं उपभोक्तारः सन्ति।
🧊विधिनियमानुसारं पुनःपरीक्षणं यावत् न सम्पूर्णं भवति तावत् वक़्फ्-भूमितः कोऽपि अपसारितः न भविष्यति इति केन्द्रसरकारः सर्वोच्चन्यायालये निवेदितम्।
🧊 विद्यालयानां समीपे मादकद्रव्यविक्रयिणः व्यापारस्थानानां अनुज्ञापत्रं निरस्तुं मद्यनियन्त्रणविभागः प्रक्रिया आरब्धवान्।
🧊यू.एस्. राष्ट्रपतिना डोनाल्ड् ट्रम्पेन भारतदेशे अप्पिल्-फोनानां निर्माणं न करणीयम् इत्युक्ते अपि, राष्ट्रे अप्पिल्-निवेशाः वृद्धिम् आगताः।
🧊ब्रॉड्बैण्ड्-लैण्ड्लाइन् सम्पर्के विघ्ने कारणीकृते एव बी.एस्.एन्.एल्. संस्थया राजस्वसंग्रहणप्रक्रिया आरब्धा।
🧊 केरलराज्यस्य उच्चशिक्षाविभागस्य अधीनं कार्यरतस्य ASAP-Kerala इत्यस्मिन् जर्मन- ए ऐ कौर्साय ऑनलाइन-आवेदनपद्धतिः उद्घोषिता। आवेदनस्य अन्तिमतिथिः — मेय् मासस्य पञ्चविंशतिः दिने।
🧊रोहित् शर्म-विराट् कोहिली इत्ययोः निवृत्तिसम्बद्धनिर्णयं परित्यज्य पुनः क्रीडायां प्रवृत्तिं स्वीकर्तव्यमिति युक्तम् — इत्युक्तवान् भूतपूर्वभारतीयक्रीडकः युवराज्-सिंहस्य पिता योगराज्-सिंहः।
धन्यवादः
शुभदिनम्
प्रवृत्तं लघुवर्षणम् (भागः ३९२) – 24-05-2025
EPISODE – 392
नूतना समस्या –
“प्रवृत्तं लघुवर्षणम्”
प्रथमस्थानम्
“പ്രചണ്ഡശ്ചണ്ഡഭാനുശ്ച
പ്രാപ്നോതി മന്ദതാം ഗതിം
പ്രഹൃഷ്ടന്തു ജഗത്സർവം
പ്രവൃത്തം ലഘുവർഷണം”
Radhakrishnan
“अभिनन्दनानि”
अद्यतन वार्ताः -20-05-2025
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य विंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
भारत-पाकिस्तानयोः संघर्षः यावत् प्रवर्तते, राष्ट्रसुरक्षार्थं दश उपग्रहाः चतुर्विंशतिघण्टं कार्यशीलाः सन्तीति इस्रो-संस्थायाः अध्यक्षः वी. नारायणः उक्तवान्।
अयुक्ताङ्गचिकित्सायाः विरोधेन सह मुख्यमंत्री पिणरायिविजयः आलोचनां कृतवान्। एषा अशास्त्रीयता प्रचारयन्तः जनाः समाजद्रोहिनः सन्ति।
राज्ये आपत्तिस्थितौ स्थितानि सर्वाणि विद्यालयभवनभागानि विद्यालयद्वारस्य उद्घाट्यात् पूर्वं अपसारितानि भविष्यन्तीति मन्त्री वी. शिवन्कुट्टिः उक्तवान्।
प्लस्-टु परीक्षाफलम् मेय्-मासस्य द्वाविंशे दिने प्रकाश्यते इति शिक्षामन्त्री वी. शिवन्कुट्टिः उक्तवान्।
राष्ट्रे प्रथमं केरल-राज्ये दशमकक्षायाः छात्रेभ्यः रोबोटिक्स-तन्त्रज्ञानं अध्ययनाय अवसरः प्रदत्तः इति।
हाँग्कॉङ्-सिंगापुरयोः कोविड्-नूतनतरङ्गस्य प्रसारः दृश्यते इति वार्ता।
मुल्लपेरियार्-नदीसंबन्धे केरलराज्याय धक्का प्राप्तः। मुल्लपेरियारे वृक्षच्छेदनाय तामिळ्नाडु-राज्याय सुप्रीम्-न्यायालयेन अनुमतिः दत्ता।
भारतीयसेनायै चत्वारिंशत् सहस्र-कोटि-रूप्यकाणां आयुधानि च प्रतिरक्षासंरचनानि च क्रेतुं केन्द्रसरकारेण अनुमतिः दत्ता।
ऐपीएल्-क्रीडायाः ह्यः आयोजिते द्वितीये प्रतिस्पर्धायाम् दिल्ली-कॅपिटल्स्-पक्षेण गुझरात्-टाइटन्स्-पक्षः दश-विकेट्-विजयः प्राप्तः।
धन्यवादः
शुभदिनम्
अद्यतन वार्ताः – 19-05-2025
🐋🐋🐋🐋🐋🐋
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवदश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) सोमवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🐋🐋🐋🐋🐋🐋
🐋पहल्गाम्स्थे आतंकदुष्कृत्यः ,”ऑपरेशन् सिन्दूर” इत्ययोः अनन्तरं कूटनीतिनैयोजने भारतदेशस्य स्थितिम् अन्यदेशेभ्यः विज्ञापयितुं केन्द्रसर्वकारः सर्वपक्षीयदलम् प्रेषयति।
🐋बहिराकाशे कस्यचित् ग्रहस्य स्थले जलस्य सन्निधिः अस्ति वा इति विषये वैज्ञानिकसमाजः अनुसन्धानम् आरभते।
🐋”अमृत्” योजने अधःसंरचनाविकासः च समाप्य यानपथकक्ष्यायाः प्रथमरूपे उद्घाटनम् अस्मिन् मासे द्वाविंशतितमे दिने प्रधानमन्त्रिणा करिष्यते इति वार्ता।
🐋नवीनपठनवर्षस्य आरम्भे बालकानां क्रीडायाः महत्त्वं विशेषेण दीयते इति अध्ययनानि सूचयन्ति। डिजिटल्-नियन्त्रणम् अपि लहरि-सामग्रीप्रयोगः च क्रीडाद्वारा निग्रहीतुं शक्यते इति अध्ययनम् दर्शयति।
🐋 भारतीय-अन्तरिक्ष-संशोधन-संस्था(इस्रो) इत्यस्य “पी.एस.एल.वी–सी६१” नामकं प्रक्षेपणम् असफलम् अभवत्। एषः अभियोगः विफलः अभवत् इति अधिकारिकरूपेणैव इस्रो संस्थया उद्घोषितम्।
🐋केरलराज्ये १९५९ रेशन् विक्रयकेन्द्राणि के-स्टोर् रूपेण परिवर्तितानि सन्ति इति राज्यसर्वकारेण कथितम्।
🐋मुख्यमन्त्रिणः अध्यक्षतायां सम्पन्ने उच्चस्तरीये समावेशे वर्षाकालं प्रति कृतकार्याणां समिक्षा कृता।
🐋हज्यात्रां पूर्वं सौदीअरब देशगमनाय पारिवारिक विसायाः विषये नियमनं कृतम्।
🐋”मरीन ड्राइव्” इत्यस्मिन् प्रदेशे आयोज्यमाने “मम केरलम्” इत्यस्मिन् प्रदर्शने जलशुद्धिकरणयन्त्रं विशेषं आकर्षणम् अभवत्।
🐋”नीट्” नामकं वैद्यकीय प्रवेशपरीक्षाफलम् प्रकाशितुं मद्रास् उच्चन्यायालयेन प्रतिबन्धः आरोपितः।
धन्यवादः
शुभदिनम्
🐋🐋🐋🐋🐋🐋
अद्यतन वार्ताः – 16-05-2017
☔☔☔☔☔☔
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य षोडश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्र वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।*
☔☔☔☔☔
☔राष्ट्रपतिः द्रौपदी मुर्मु सर्वोच्चन्यायालयेन राज्यविधानसभाभिः पारितेषु विधिषु निर्णयं कर्तुं राज्यपालानां राष्ट्रपतेः च समयसीमा निर्दिष्टा इति निर्णयं प्रति प्रश्नं कृतवती।
☔निपा संयोगसूच्यां स्थितैः जनैः पृथक्करणमार्गनिर्देशाः यथावत् पालनं करणीयमिति स्वास्थ्यमन्त्री वीणा जॉर्ज उक्तवती।
☔ विद्युत्विलेखलेखने सूच्यमानानि विवरणानि न लुप्येरन् इति मानवाधिकारायोगस्य सदस्यः वी. गीता उक्तवती।
☔अस्मिन्समये विद्यालयं प्रारभ्यमाणे प्रथमद्वयोः सप्ताहयोः बालकानां पुस्तकाध्ययनं न भविष्यति। तदस्थानि समाजविपत्तिषु मद्यपानं, सार्वजनिकसंपद्विनाशनं च प्रति जागरणकार्यक्रमाः आयोज्यन्ते इति शिक्षाविभागेन निर्दिष्टम्।
☔२०२५–२६ अध्ययनवर्षाय अभियांत्रिकी-औषधविज्ञानकोशेषु प्रवेशपरीक्षायाः परिणामः प्रकाशितः।
☔दशम -द्वादशकक्ष्यायाः परीक्षा परिणामानां सन्दर्भे छात्राणां समर्थनाय केन्द्रीयमाध्यमिकशिक्षापरिषद् (CBSE) द्वारा मानसिक-सामाजिक परामर्शसेवानां द्वितीयचरणः आरब्धः।
☔“ऑपरेशन् सिन्धूर्” मिशनस्य अधिकाः विवरणानि प्रकाशितानि; भारतदेशेन नियंत्रणरेखा, सीमां न लंघ्य प्रत्याक्रमणं कृतम् इति केन्द्रेण उद्घोषितम्।
☔केरलराज्ये पञ्चपञ्चाशत् सेतूनां सम्पूर्णनिर्माणव्ययं वहनं कर्तुं रेलवयः निर्णयं कृतम्।
☔भारतीयः अन्तरिक्षयात्री शुभांशुः शुक्लः आन्तरराष्ट्रीयवायुमण्डलकेन्द्रं प्रति स्वप्रथमयात्रां जूनमासस्य अष्टमे दिनाङ्के करिष्यति।
☔राज्ये निजीबस्सेवाः अनिश्चितकालीनं बस्समरं कर्तुम् निर्णयः। दीर्घयात्रा-सीमितविश्रामबसानां अनुमतिपत्राणि समये समये नूतनतया प्रदेयानीति, छात्राणां टिकट् निर्माणवृद्धिः करणीयेति च तैः आवेदितम्।
☔ अरुणाचलप्रदेशे बहूनां स्थलानां नामानि परिवर्तयितुं चैनायाः योजनां भारतदेशेन निरस्तम्।
धन्यवादः
शुभदिनम्
☔☔☔☔☔
अद्यतन वार्ताः – 14-05-2025
🪼🪼🪼🪼🪼
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य पञ्चदश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्)** **गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।**
🪼🪼🪼🪼🪼
🪼एतस्मिन् वर्षे एस्.एस्.एल्.सी. परीक्षायाम् प्रतिशतं न्यूनं सफलतां दृष्ट्वा, शिक्षामन्त्रिणा वि. शिवनकुट्टिना अनुसन्धानं करणीयमिति निर्णयः कृतः।
🪼प्रथमकक्ष्यायां बालानां प्रवेशार्थं परीक्षां कुर्वन्ति ये विद्यालयाः, तेषां अङ्गीकारः, शिक्षणमन्त्रिणा वि. शिवनकुट्टिना रद्दं करणीयमिति उक्तम्।
🪼सर्वोच्चन्यायालयस्य नवः मुख्यन्यायाधीशः बी. आर्. गवाय् पदवृद्धिं कृतवान्।
🪼केरले शिक्षायाः निमित्तं आगतछात्राणां संख्याः वर्धन्ते।
🪼देशे वर्धमानानि वाहनदुर्घटनानि, यातायात सम्बन्धीनि नियमभङ्गनानि च न्यूनीकर्तुं केन्द्र-यातायात – मन्त्रालयेन नवीनं योजनां आरब्धम्।
🪼सरकारीसेवायां नियुक्ताः पी.एस्.सी. अध्यक्षः सदस्याश्च सेवानिवृत्तिसम्बन्धानि लाभानि प्राप्नुयुः इति विषये, तेषां सेवाकालः अपि गणनीयः इति सामान्यप्रशासनविभागेन निर्दिष्टम्।
🪼कोच्चीन् शिप्-यार्डे पुनःस्थापनं समाप्य, भारतस्य विमानवाहिनी नौका आई.एन.एस्. विक्रमादित्या।
🪼”ऑपरेशन् सिन्दूर” अनन्तरं ब्रह्मोस् क्रूज्-मिसाइल् विषये अधिकानि राष्ट्राणि भारतं सम्पृच्छन्ति इत्यस्ति वार्ता।
धन्यवादः
शुभदिनम्
🪼🪼🪼🪼🪼