Daily Archives: May 20, 2025
अद्यतन वार्ताः -20-05-2025
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य विंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
भारत-पाकिस्तानयोः संघर्षः यावत् प्रवर्तते, राष्ट्रसुरक्षार्थं दश उपग्रहाः चतुर्विंशतिघण्टं कार्यशीलाः सन्तीति इस्रो-संस्थायाः अध्यक्षः वी. नारायणः उक्तवान्।
अयुक्ताङ्गचिकित्सायाः विरोधेन सह मुख्यमंत्री पिणरायिविजयः आलोचनां कृतवान्। एषा अशास्त्रीयता प्रचारयन्तः जनाः समाजद्रोहिनः सन्ति।
राज्ये आपत्तिस्थितौ स्थितानि सर्वाणि विद्यालयभवनभागानि विद्यालयद्वारस्य उद्घाट्यात् पूर्वं अपसारितानि भविष्यन्तीति मन्त्री वी. शिवन्कुट्टिः उक्तवान्।
प्लस्-टु परीक्षाफलम् मेय्-मासस्य द्वाविंशे दिने प्रकाश्यते इति शिक्षामन्त्री वी. शिवन्कुट्टिः उक्तवान्।
राष्ट्रे प्रथमं केरल-राज्ये दशमकक्षायाः छात्रेभ्यः रोबोटिक्स-तन्त्रज्ञानं अध्ययनाय अवसरः प्रदत्तः इति।
हाँग्कॉङ्-सिंगापुरयोः कोविड्-नूतनतरङ्गस्य प्रसारः दृश्यते इति वार्ता।
मुल्लपेरियार्-नदीसंबन्धे केरलराज्याय धक्का प्राप्तः। मुल्लपेरियारे वृक्षच्छेदनाय तामिळ्नाडु-राज्याय सुप्रीम्-न्यायालयेन अनुमतिः दत्ता।
भारतीयसेनायै चत्वारिंशत् सहस्र-कोटि-रूप्यकाणां आयुधानि च प्रतिरक्षासंरचनानि च क्रेतुं केन्द्रसरकारेण अनुमतिः दत्ता।
ऐपीएल्-क्रीडायाः ह्यः आयोजिते द्वितीये प्रतिस्पर्धायाम् दिल्ली-कॅपिटल्स्-पक्षेण गुझरात्-टाइटन्स्-पक्षः दश-विकेट्-विजयः प्राप्तः।
धन्यवादः
शुभदिनम्