Daily Archives: May 9, 2025

अद्यतन वार्ताः – 09-05-2025

🌷🌷🌷🌷🌷
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य मेय् नव २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर् अरूक्कुट्टी।
🌷🌷🌷🌷🌷

🌷पाकिस्थानदेशं प्रति दृढं प्रत्याक्रम्य भारतीयसेनया कृतं साहसं प्रशस्य प्रतिरक्षामन्त्री राजनाथसिंहः अभिनन्दनं कृतवान्।

🌷आतङ्कवादस्य विरोधे केन्द्रसर्वकारेण अस्माकं प्रतिरक्षासेनाभिः च याः क्रियाः स्वीकृताः, तासु पूर्णं समर्थनं दत्तमिति च, भारतस्य नागरिकत्वेन अस्माभिः राष्ट्रस्य ऐक्यं अखण्डता च रक्षितुं सर्वे मिलित्वा स्थितुं शक्यते इत्यपि मुख्यमन्त्री पिणरायिविजयेन उक्तम्।

🌷२०२५-२६ अध्ययनवर्षस्य प्लसवन् वर्गाः जून् १८ दिनाङ्के आरभ्यन्ते। एकसङ्गणकसुविधायाः माध्यमेन प्रवेशः भविष्यति। परीक्षणात्मकम् अलाट्मेण्ट् दिनाङ्कः मेय् २४ इति , शिक्षामन्त्री वि. शिवनकुट्टिना सूचितम्।

🌷एस्.एस्.एल्.सी. परीक्षाफलम् अद्य घोषितं भविष्यति। सायं तृतीयप्रहरसमये पी.आर्.चेम्बरीस्थे सार्वजनिकशिक्षामन्त्रिणा वि. शिवनकुट्टिना फलप्रकाशनं करिष्यति।

🌷पाकिस्तानदेशीयानि आतङ्ककेन्द्राणि विध्वंस्य “ऑपरेशन् सिन्दूर” इत्यस्य अनन्तरं राष्ट्रं अतिजागरूकतां प्रविष्टम्। सीमाक्षेत्रेषु परीक्षायाः नियमाः कठिना कृताः। जम्मू-काश्मीरं अनन्तरं पंजाबे, राजस्थानप्रदेशे च विद्यालयाः अपि बन्दाः।

🌷ऑपरेशन् सिन्दूर इत्यस्य पृष्ठभूमौ राज्ये अतीव जाग्रता भवति। प्राक् प्रत्याक्रमणस्य साध्यताम् अनुसृत्य श्रीनगरं आरभ्य अष्टादश विमानपत्तनानि बन्दानि सन्ति।

🌷अरबराष्ट्राणि अपि भारत-पाकिस्तानयोः मध्ये संघर्षः न भविष्यति इति प्रार्थयन्ते।

🌷ऑपरेशन् सिन्दूर सम्बन्धिन्या रेल्यानयात्रायाम् आरक्षितं टिकटं गृहीत्वा यत्र यात्रां कुर्वन्ति तत्र तेषां परिचयपत्राणां परीक्षां करणीयमिति रेल्वे सूचितम्।

🌷प्रवासीश्रमिकाणां पुत्रेभ्यः शिक्षायाः सुनिश्चित्यर्थं “ज्योति” नाम्ना योजनेन सह केरळसर्वकारः कार्यं आरब्धम्।

🌷पूर्वराजानां कुलवृत्तेभ्यः लभ्यमानं “फैमिली एण्ड पॉलिटिकल् पेन्शन्” इति धनराशिः ३००० रूप्यकं शेषधनसहितेन सह दातव्यमिति मन्त्रिमण्डलेन अङ्गीकृतम्।

🌷द्वे नवीनप्रकारे अतीव उत्पादनशक्तियुक्ते नवधान्यबीजे विकसिते – “पुण्या” , “आद्या” च इति नाम्ना – आलप्पुषा मङ्कोम्पिस्थे डॉ. एम्. एस्. स्वामिनाथन् धान्यबीजगवेषणकेन्द्रे।

🌷टेस्ट् क्रिकेट् इत्यस्मात् निवृत्तिं घोष्य भारतकप्तानः रोहित् शर्मा ।

धन्यवादः
शुभदिनम्
🌷🌷🌷🌷🌷