Daily Archives: May 2, 2025

अद्यतन वार्ताः -02-05-2025

**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वे मेइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌸🌸🌸🌸🌸🌸

🌸 क्रीडासमयं न प्रदत्तमिति बालानां नित्यं शिकायतिः समाः।
विद्यालयेषु क्रीडाविषयकपाठाय विशेषं समयं निर्दिष्टं स्यात्, तस्मिन् अन्यविषयाः न पाठनीयाः इति आदेशः दत्तः।

🌸 विऴिञ्ञं बंदरस्य औपचारिक उद्घाटनं प्रधानमंत्री नरेंद्रमोदी कर्तुं नियुक्तः।

🌸सरकारकर्मचारिणां निवृत्तजनानां च वैद्यसेवानिर्भरबीमा योजना ‘मेडिसेप्’ निरन्तरं स्थापनीया इति सिफारिशः।

🌸नियंत्रणरेखायाम् अकारणं निरन्तरं चालितव्या गोळीवृष्टिः इत्यस्मिन् विषये भारतदेशेन पाकिस्तानं प्रति चेतावनी प्रदत्ता।

🌸 ए.टी.एम् शुल्केषु मेई १ दिनाङ्कतः परिवर्तनम् । विनिमयसेवायै भारतीयरिजर्वबैंकस्य निर्देशानुसारं शुल्कवृद्धिः भवति।

🌸 नव-राष्ट्रीयशिक्षानीत्यनुसारं विश्वविद्यालयाधीनानि सर्वाणि महाविद्यालयानि तेषां शिक्षापाठ्यक्रमं परिवर्तयितुं यूजीसी आदेशं दत्तम्।

🌸प्रदूषणमुक्तं यानव्यवस्था सुनिश्चितुं केन्द्रसरकारेण विहितेषु उपायेषु एकं प्रमुखं उपायं भवति विद्युत्-यानानां प्रोत्साहनम्।

🌸सर्वदेशीयश्रमिकानां एकीकरणं प्रार्थयन् ह्यः ‘मेद्दिनम्’ उत्सवः आयोज्यते स्म।

🌸संयुक्तारबएमीरात्सेषु तापमानं तीव्रं जातम्। देशव्याप्तं उष्णता आर्द्रता च व्याप्ते।