चातकेन समो जनः (भागः ४३२) 28-02-2026

EPISODE – 432

नूतना समस्या –

“चातकेन समो जनः”

प्रथमस्थानम्

“അപേക്ഷാം ബഹു ദത്വാപി
മൗനം ഭജതി ഹാ! നൃപഃ
തിഷ്ഠത്യേവ പുരസ്തസ്യ
ചാതകേന സമോ ജനഃ

Bhaskaran N K

“अभिनन्दनानि”

 

10 Responses to चातकेन समो जनः (भागः ४३२) 28-02-2026

  1. Narayanan Namboothiri says:

    उद्यमः सर्व जन्तूना –
    माहाराय सहायकः ।
    विना यत्नं विनायासं
    चातकेन समो जनः ॥

  2. Bhaskaran N K says:

    प्रथमस्थानम्

    അപേക്ഷാം ബഹു ദത്വാപി
    മൗനം ഭജതി ഹാ! നൃപഃ
    തിഷ്ഠത്യേവ പുരസ്തസ്യ
    ചാതകേന സമോ ജനഃ

  3. Vidya K V says:

    तृतीयस्थानम्

    शीतं गतं तु सर्वस्मात्
    पृथ्वी शुष्का तथोषरा ।
    जलमन्विष्य चान्विष्य
    चातकेन समो जनः ॥

  4. Sridevi says:

    द्वितीयस्थानम्

    द्वारि निर्वाचने प्राप्ते
    नेतृणां भाषणं श्रुतम् ।
    सत्यमन्विष्यमाणस्तु
    चातकेन समो जनः ॥

  5. Radhakrishnan says:

    അഭീഷ്ടസിദ്ധിലാഭായ
    കിം കിം ന കുരുതേ നരാഃ
    അർഥീ ജ്ഞാനപിപാസുസ്തു
    ചാതകേന സമോ ജനഃ

  6. Vijayan V Pattambi says:

    चातको जललाभाय
    तिष्ठति विवृताननः ।
    प्राप्य तु धनिकं जातः
    चातकेन समो जनः ॥

  7. Ramachandran says:

    आतपेषु च तीव्रेषु
    जलमिच्छन्ति केचन ।
    अतपे सञ्चरन् जातः
    चातकेन समो जनः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *