केरलेषु विद्यालयानां प्रवर्तनं जूण् – २ दिनाङ्के समारभते।

 वारद्वयं यावत् समयसारिण्याम् एकघण्टात्मकः समयः गुणप्रकर्षशिक्षायै उपयुज्यते।

तिरुवनन्तपुरम्- निदाघकालविरामानन्तरं केरलेषु विद्यालयाः जूण् – २ दिनाङ्के प्रवर्तनसज्जाः भवितारः। द्वितीयकक्ष्यातः दशमकक्ष्यापर्यन्तं कक्ष्यासु प्रथमवारद्वयं यावत् उन्मादकवस्तूनि विरुध्य अवबोधार्थं तथा नियमबोधनार्थं च पृथक् कक्ष्यान्तरः भविता इति शिक्षामन्त्री प्रास्तौत्। अपि च समग्रहुणप्रकर्षशिक्षायै मार्गनिर्देशम् अन्तर्भावयितुं निरणयत् इति मन्त्री वार्ताहरसम्मेलने उक्तवान्। नियमबोधः, व्यक्तिशुचित्वम्, परिसरशुचित्वम्, उन्मादकवस्तूनां निरासाय अवबोधः इत्यादीनि मार्गनिर्देशे अन्तर्भवन्ति।
प्रतिदिनम् एकहोरात्मकः कालः एतदर्थम् उपयोक्तव्यम्। प्रारम्भसमये छात्राः सङ्कोचं विना पठनप्रवर्तनेषु भागं ग्रहीतुं शक्नुयुः। तगर्थम् आत्मविश्वासः प्रवर्धयेत्। एकैकस्य दिनस्य सन्देशः कः इति विज्ञापितम्। समयः कदा भवेत् इति विद्यालयाधिकारिभिः निर्णेतुं शक्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *