संस्कृतं मम वाणी ।
जननी सर्व भाषाणां
संस्कृतं विश्ववन्दितम् ।
येन वागुच्यते शुद्धं
तं नित्यं प्रणमाम्यहम् ॥
आर्षसंस्कृतिसम्पन्ना
देववाणीति कीर्तिता ।
सा भाषा सर्वतोभद्रा
वेद वेदाङ्गसंयुता ॥
अनृता सरला भद्रा
विमला सर्वमङ्गला ।
ज्ञानविज्ञानसम्पन्ना
देवभाषा हि संस्कृतम् ॥
सर्वशास्त्रार्थसम्पन्ना
विशालकुलसम्भवा ।
पुराणापि नवा हृद्या
सर्वचित्तनिवासिनी ॥
विबुधैराश्रिता वाणी
शास्त्रभाषैव संस्कृतम् ।
कालिदासकवीन्द्रेण
पूजिता नाकसम्मिता ॥
नानार्थपदसम्पन्ना
काव्यालङ्कारसंयुता ।
इतिहासपुराणैश्च
दीव्यमाना सुराङ्गना ॥
यो पठति तां नित्यं
सादरं च सभक्तिकम् ।
तस्मिन् हि जायते शुद्ध –
भाषाज्ञानं सुमङ्गलम् ॥
भाषया भाषते नित्यं
यः पुमान् लिखति तथा ।
तस्मिन् हि जायते स्पष्ट –
सुवागर्थस्य सन्निधिः ॥
साहितीकोमलं शुद्ध –
ज्ञानस्यापि प्रदीपकम् ।
तं वन्दे संस्कृतं सर्व –
विज्ञानस्य पयोनिधिम् ॥
जयतात् देववाणी सा
जयतात् चामरा नवा ।
जयतात् धन्यधन्येयं
देववाणी चिरं भुवि ॥
Vijayan V Pattambi













Leave a Reply