Daily Archives: May 16, 2025
अद्यतन वार्ताः – 16-05-2017
☔☔☔☔☔☔
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य षोडश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्र वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।*
☔☔☔☔☔
☔राष्ट्रपतिः द्रौपदी मुर्मु सर्वोच्चन्यायालयेन राज्यविधानसभाभिः पारितेषु विधिषु निर्णयं कर्तुं राज्यपालानां राष्ट्रपतेः च समयसीमा निर्दिष्टा इति निर्णयं प्रति प्रश्नं कृतवती।
☔निपा संयोगसूच्यां स्थितैः जनैः पृथक्करणमार्गनिर्देशाः यथावत् पालनं करणीयमिति स्वास्थ्यमन्त्री वीणा जॉर्ज उक्तवती।
☔ विद्युत्विलेखलेखने सूच्यमानानि विवरणानि न लुप्येरन् इति मानवाधिकारायोगस्य सदस्यः वी. गीता उक्तवती।
☔अस्मिन्समये विद्यालयं प्रारभ्यमाणे प्रथमद्वयोः सप्ताहयोः बालकानां पुस्तकाध्ययनं न भविष्यति। तदस्थानि समाजविपत्तिषु मद्यपानं, सार्वजनिकसंपद्विनाशनं च प्रति जागरणकार्यक्रमाः आयोज्यन्ते इति शिक्षाविभागेन निर्दिष्टम्।
☔२०२५–२६ अध्ययनवर्षाय अभियांत्रिकी-औषधविज्ञानकोशेषु प्रवेशपरीक्षायाः परिणामः प्रकाशितः।
☔दशम -द्वादशकक्ष्यायाः परीक्षा परिणामानां सन्दर्भे छात्राणां समर्थनाय केन्द्रीयमाध्यमिकशिक्षापरिषद् (CBSE) द्वारा मानसिक-सामाजिक परामर्शसेवानां द्वितीयचरणः आरब्धः।
☔“ऑपरेशन् सिन्धूर्” मिशनस्य अधिकाः विवरणानि प्रकाशितानि; भारतदेशेन नियंत्रणरेखा, सीमां न लंघ्य प्रत्याक्रमणं कृतम् इति केन्द्रेण उद्घोषितम्।
☔केरलराज्ये पञ्चपञ्चाशत् सेतूनां सम्पूर्णनिर्माणव्ययं वहनं कर्तुं रेलवयः निर्णयं कृतम्।
☔भारतीयः अन्तरिक्षयात्री शुभांशुः शुक्लः आन्तरराष्ट्रीयवायुमण्डलकेन्द्रं प्रति स्वप्रथमयात्रां जूनमासस्य अष्टमे दिनाङ्के करिष्यति।
☔राज्ये निजीबस्सेवाः अनिश्चितकालीनं बस्समरं कर्तुम् निर्णयः। दीर्घयात्रा-सीमितविश्रामबसानां अनुमतिपत्राणि समये समये नूतनतया प्रदेयानीति, छात्राणां टिकट् निर्माणवृद्धिः करणीयेति च तैः आवेदितम्।
☔ अरुणाचलप्रदेशे बहूनां स्थलानां नामानि परिवर्तयितुं चैनायाः योजनां भारतदेशेन निरस्तम्।
धन्यवादः
शुभदिनम्
☔☔☔☔☔