Daily Archives: May 23, 2025

केरलेषु विद्यालयानां प्रवर्तनं जूण् – २ दिनाङ्के समारभते।

 वारद्वयं यावत् समयसारिण्याम् एकघण्टात्मकः समयः गुणप्रकर्षशिक्षायै उपयुज्यते।

तिरुवनन्तपुरम्- निदाघकालविरामानन्तरं केरलेषु विद्यालयाः जूण् – २ दिनाङ्के प्रवर्तनसज्जाः भवितारः। द्वितीयकक्ष्यातः दशमकक्ष्यापर्यन्तं कक्ष्यासु प्रथमवारद्वयं यावत् उन्मादकवस्तूनि विरुध्य अवबोधार्थं तथा नियमबोधनार्थं च पृथक् कक्ष्यान्तरः भविता इति शिक्षामन्त्री प्रास्तौत्। अपि च समग्रहुणप्रकर्षशिक्षायै मार्गनिर्देशम् अन्तर्भावयितुं निरणयत् इति मन्त्री वार्ताहरसम्मेलने उक्तवान्। नियमबोधः, व्यक्तिशुचित्वम्, परिसरशुचित्वम्, उन्मादकवस्तूनां निरासाय अवबोधः इत्यादीनि मार्गनिर्देशे अन्तर्भवन्ति।
प्रतिदिनम् एकहोरात्मकः कालः एतदर्थम् उपयोक्तव्यम्। प्रारम्भसमये छात्राः सङ्कोचं विना पठनप्रवर्तनेषु भागं ग्रहीतुं शक्नुयुः। तगर्थम् आत्मविश्वासः प्रवर्धयेत्। एकैकस्य दिनस्य सन्देशः कः इति विज्ञापितम्। समयः कदा भवेत् इति विद्यालयाधिकारिभिः निर्णेतुं शक्यते।

अद्यतन वार्ताः -23-05-2025

🌷🌷🌷🌷🌷
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌷🌷🌷🌷🌷

🌷राज्ये उन्नत माध्यमिक-वृत्तिपरमाध्यमिक परीक्षाफलस्य प्रकाशनं सम्पन्नम्।

🌷द्वितीय पिणरायिसरकारस्य चतुर्थवर्षपूर्तेः निमित्तेन कनककुन्न्यां आयोज्यमानस्य “मम केरलम्” इति प्रदर्शनीय विपणिमेलायाः उद्घाटनं मन्त्री वी.शिवनकुट्टिना कृतम्।

🌷केन्द्रस्य नीतिकारणात् आर्थिकस्वातन्त्र्यं विनष्टं सति अपि सर्वेषु क्षेत्रेषु सरकारेण लाभः प्राप्तः इति वित्तमन्त्री के.एन्. बालगोपालः उक्तवान्।

🌷तामरश्शेर्यां मुहम्मद्शहबास् इति छात्रस्य मरणप्रकरणे अपराधिनः छात्राः ये, तेषां एस्.एस्.एल्.सी. परीक्षाफलम् उच्चन्यायालयस्य निर्देशानुसारं प्रकाशितम् इति शिक्षामन्त्री वी. शिवनकुट्टिः अवदत्।

🌷 भारतदेशे महाभयङ्कराक्रमणस्य योजनां पाकचारसंस्थया रचिता आसीत्, तत् भारतीयगूढचारसङ्घेन विफलितम्।

🌷राजस्थानस्य आई पी एल् क्रीडासत्रं निराशाजनकं समाप्तं कृत्वा, तस्य कप्तानः सञ्जु साम्सन् क्रीडाशिबिरं परित्यक्तवान्।

🌷मल्लपुरं प्रदेशे राष्ट्रमार्गनिर्माणे सङ्घटिते ध्वंसघटनायाः सन्दर्भे, के.एन.आर्. कन्स्ट्रक्शन्स् इति कम्पनीं प्रति केन्द्रमार्ग मन्त्रालयेन प्रतिबन्धः आरोपितः।

🌷 भारतीयसेनायाम् प्लस्-टू तन्त्रज्ञानप्रवेशाय विज्ञापनं प्रकाशितम्। नवतिः रिक्तस्थानानि सन्ति। स्थायीअधिकारीपदाय नियुक्तिः भविष्यति। अविवाहितः पुरुषः आवेदनं कर्तुं शक्नोति।

🌷केरळ पब्लिक् सेवाकमिशनेन (PSC) विविधानां पदानां निमित्तम् आवेदनानि आमन्त्रितानि।

धन्यवादः
शुभदिनम्
🌷🌷🌷🌷🌷