Monthly Archives: September 2020
PRASNOTHARAM (भागः १४९) – 19-09-2020
EPISODE – 149
प्रस्नोत्तरम्।
- सा —–आलपति। (क) कविता (ख) कविताम् (ग) कवितायाम्
- बालकः——पश्यति । (क) नदीम् (ख) नद्याम् (ग) नद्यः
- ते मयूरीः —–। (क) पश्यामः (ख) पश्यतः (ग) पश्यन्ति
- त्वं सखीम् ——-। (क) आह्वयति (ख) आह्वयसि (ग) आह्वयामि
- युवां ——आह्वयथः। (क) पुत्रीः (ख) पुत्र्यः (ग) पुत्री
- यूयं लेखनीः ——। (क) क्रीणीमः (ख) क्रीणीथ (ग) क्रीणन्ति
- अहं ——–पठामि। (क) व्याकरणं (ख) व्याकरणस्य (ग) व्याकरणेषु
- आवाम् आरक्षकं——-। (क) पृच्छामः (ख) पृच्छावः (ग) पृच्छथः
- ——–लेखनीम् आनयामः। (क) यूयम् (ख) ते (ग) वयम्
- ते (बालिके) पुष्पं —–। (क) धरतः (ख) धरावः (ग) धरथः
ഈയാഴ്ചയിലെ വിജയി
INDULEKHA
“അഭിനന്ദനങ്ങൾ”
स्वामी अग्निवेश् दिवंगतः।
नवदिल्ली- भूतपूर्वः विधानसभासामाजिकः तथा आर्यसमाजपण्डितः स्वामी अग्निवेश् दिवंगतः। स ८० वयस्कः आसीत्। तीव्रेण यकृत् रोगेण चिकित्सायाम् आसीत्। नवदिल्यां चिकित्सालये आसीदन्त्यम्।
विविधानाम् अवयवानां प्रवर्तनमान्द्येन कुजवासरादारभ्य स्वामी कृत्रिमश्वासवातायने आसीत्। विविधानां धर्माणाम् आन्तरिकं संवादमावश्यकमिति स्वामी अचिन्तयत्।
सेप्तम्बर् 21 तः विद्यालयानां पुनरुद्घाटनाय केन्द्रसर्वकारस्य निर्णयः. स्वास्थ्यमन्त्रालयस्य नूतना मार्गरेखा।
नवदिल्ली- राष्ट्रे विद्यालयानां प्रवर्तनं सप्तम्बर् 21 तः पुनरारब्धुं केन्द्रसर्वकारः निरणयत्। केन्द्रीय स्वास्थ्य-परिवारक्षेममन्त्रालयः एतत्सम्बन्धिनीं मार्गरेखां प्रादर्शयत्। पुनरुद्घाटनस्य चतुर्थसोपाने एव विद्यालयानां प्रवर्तनाय अनुमतिः।
नियन्त्रितमेखलायाः बहिः प्रदेशस्थाेषु विद्यालयेषु नवमतः दावादशपर्यन्तं वर्गाः एव प्रवर्तनम् आरभन्ते। मुखावरणस्य उपयोगः, छात्राणां मिथः षट्पादपरिमितम् अन्तरः, अणुनाशकद्रावकाणामुपयोगः, आरोग्यसेतुः इति मोबैल् आप् इत्यादिकं अवश्यंभावि। सार्वजनीनस्थलेषु निष्ठीवनं निषिद्धं कल्पितम्।
अस्मिन्नन्तरे कोविड् महामारिमभिलक्ष्य समारब्धाः अधिजालिकशिक्षाः अनुवर्तन्ते, सर्वे एतदर्थं प्रोत्साहनं दद्युः इत्यपि मार्गरेखायामस्ति।
संस्कृतपाठसमीक्षा – Online classes
कष्टं मानवजीवनम् (भागः १४८) 12-09-2020
EPISODE – 148
नूतना समस्या-
“कष्टं मानवजीवनम्”
ഒന്നാംസ്ഥാനം
“ഉത്ക്കോചമക്രമം ക്രൗര്യം
സ്വർണാപഹരണം തഥാ
വധ മോഷണമാത്സര്യൈ:
കഷ്ടം മാനവജീവനം”
Narayanan N
“അഭിനന്ദനങ്ങള്”
अन्ताराष्ट्रविपणिमनुसृत्य तैलेन्धनमूल्ये परिवर्तनमावश्यकमिति सर्वोच्चन्यायालये आवेदनम्।
नवदिल्ली- पेट्रोल् डीजल् प्रभृतीनां तैलेन्धनानां मूल्यनियन्त्रणात् सर्वकाराणां प्रतिनिवर्तनं पुनःशोधनीयम् इति सूचयन् सर्वोच्चन्यायालये सार्वजनीनहितावेदनं समर्पितम्।अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्ये अपचये अत्र उपभोक्तृभ्यः तस्यानुकूल्यं न दीयते। तेभ्योपि आनुकूल्यम् आवश्यकमिति सूचयन् तृशूर् देशीयः षाजी. के. कोडङ्कत् वर्यः एव सर्वोच्चन्यायालयम् अभ्युपगतः। न्यायाधीशः आर्. एफ् नरिमान् वर्यस्य आध्यक्ष्ये आयोजितं संवेशनं कुजवासरे अस्मिन् व्यवहारे वादं श्रोष्यति।
तैलेन्धनानां करनिश्चयः असंस्कृततैलानां मूल्यमनुसृत्य न भवेत्। करनिर्णये सर्वकार एव अधिकारी। पेट्रोल् डाजल् इत्यादीनां मूल्यवर्धितकरः (वाट्) न्यूनीकरणीयः इत्यपि निषे राजन् इत्यभिभाषकद्वारा समर्पिते आवेदने सूचयति। अधुना मूल्यस्य 25 प्रतिशतमेव तैलेन्धनानां मूल्यवर्धितकरः।
सर्वकारस्वामिता अधिकतयास्थिताः तैलसंघाः प्रतिदिनं तेलमूल्यं वर्धापयन्ति। अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यं सार्वकालिकापचये तिष्ठति। तथापि अत्र इन्धनमूल्ये वर्धनमस्ति।
PRASNOTHARAM (भागः १४८) – 12-09-2020
EPISODE – 148
प्रश्नोत्तरम्।
- छात्रः ——-गच्छति। (क) विद्यालयः (ख) विद्यालयम् (ग) विद्यलयस्य
- ——गणेशं अर्चति। (क) बालकः (ख) बालकौ (ग) बालकाः
- महिला घटं ——। (क) नयतः (ख) नयामि (ग) नयति
- गर्दभः——-वहति। (क) भारम् (ख) भारः (ग) भारे
- चटका —–पिबति। (क) जलस्य (ख) जलम् (ग) जलयोः
- ——-फलं खादति। (क) शुकः (ख) शुकौ (ग) शुकाः
- बालिका ——सिञ्छति । (क) वाटिका (ख) वाटिकाम् (ग) वाटिकायाः
- भारवाहकः पेटिकां ——–। (क) वहामि (ख) वहसि (ग) वहति
- जननी —— पचति। (क) रोटिकाम् (ख) रोटिकायाः (ग) रोटिका
- अध्यापकः ——-पश्यति। (क) घटीम् (ख) घटी (ग) घट्यः
ഈയാഴ്ചയിലെ വിജയി
LEENA K S
“അഭിനന്ദനങ്ങള്”
राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरम्-प्रधानमन्त्री।
दिल्ली- राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरमेवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः न्यगादीत्। अध्यापकदिनमालक्ष्य दत्ते सन्देशे एव प्रधानमन्त्रिणः एष परामर्शः। अस्मिन् सन्दर्भे डो. सर्वप्पल्ली राधाकृष्णवर्यं कृतज्ञतया स्मरति इत्यपि प्रधानमनत्री ट्विट्टर् मध्ये सूचितवान्।
मानसं रूपवत्कर्तुं तथा राष्ट्रं पुनर्निर्मातुं च कठिनप्रयत्नानाम् अध्यापकानां योगदानाय वयं कृतज्ञाः सन्ति। शिक्षकदिवसे शिक्षकाणां परिश्रमेभ्यः कृतज्ञताम् अर्पयामीति मोदीवर्यः ट्वीट् कृतवान्।
उपनिर्वाचनाानि नवम्बर् मासे पूर्तीकरिष्यन्ति इति निर्वाचनायोगः।
दिल्ली- उपनिर्वाचनानि नवम्बर् मासे पूर्णतां यास्यन्तीति केन्द्रिय निर्वाचनायोगः असूचयत्। दिनाङ्कः अनन्तरम् उद्घोषयिष्यति। केरलेषु चवरा, कुट्टनाट् इति द्वे क्षेत्रे अनुसूचिकायामस्ति। विहार् विधानसभा निर्वाचनेन साकम् उपनिर्वाचनानि अपि भविष्यन्तीति निरवाचनायुक्तस्य सूचना।
कोविड् व्यापनस्य साहचर्यमस्ति चेदपि उपनिर्वाचनानि न हातव्यानि इति निर्वाचनायुक्तस्य अभिप्रायः। कोविड्, अतितीव्रवृष्टिः इत्यादीनां भूमिकायाम् उपनिर्वाचनानि परिवर्तनीयानि इति कानिचन राज्यानि निर्वाचनायुक्त अभ्यर्थयन्। अद्य आयोजितम् अधिवेशनम् एतदधिकृत्य चर्चां कृत्वा परिवर्तनीयस्य आवश्यकता नास्तीति निरणयत्।
















