अन्ताराष्ट्रविपणिमनुसृत्य तैलेन्धनमूल्ये परिवर्तनमावश्यकमिति सर्वोच्चन्यायालये आवेदनम्।

नवदिल्ली-  पेट्रोल् डीजल् प्रभृतीनां तैलेन्धनानां मूल्यनियन्त्रणात् सर्वकाराणां प्रतिनिवर्तनं पुनःशोधनीयम् इति सूचयन् सर्वोच्चन्यायालये सार्वजनीनहितावेदनं समर्पितम्।अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्ये अपचये अत्र उपभोक्तृभ्यः तस्यानुकूल्यं न दीयते। तेभ्योपि आनुकूल्यम् आवश्यकमिति सूचयन् तृशूर् देशीयः षाजी. के. कोडङ्कत् वर्यः एव सर्वोच्चन्यायालयम् अभ्युपगतः। न्यायाधीशः आर्. एफ् नरिमान्  वर्यस्य आध्यक्ष्ये आयोजितं संवेशनं कुजवासरे अस्मिन् व्यवहारे वादं श्रोष्यति।

     तैलेन्धनानां करनिश्चयः असंस्कृततैलानां मूल्यमनुसृत्य न भवेत्। करनिर्णये सर्वकार एव अधिकारी। पेट्रोल् डाजल् इत्यादीनां मूल्यवर्धितकरः (वाट्) न्यूनीकरणीयः इत्यपि निषे राजन् इत्यभिभाषकद्वारा समर्पिते आवेदने सूचयति। अधुना मूल्यस्य 25 प्रतिशतमेव तैलेन्धनानां मूल्यवर्धितकरः।

     सर्वकारस्वामिता अधिकतयास्थिताः तैलसंघाः प्रतिदिनं तेलमूल्यं वर्धापयन्ति। अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यं  सार्वकालिकापचये तिष्ठति। तथापि अत्र इन्धनमूल्ये वर्धनमस्ति।

 

Leave a Reply

Your email address will not be published. Required fields are marked *