Daily Archives: September 20, 2020

षट्सु राज्येषु सेप्तम्बर् 21 आरभ्य विद्यालयाः प्रवर्तिष्यन्ते, मार्गनिर्देशाः घोषिताः।

दिल्ली- कोविड् व्यापनस्य भूमिकायां गत पञ्चमासान् यावत् पिहिताः विद्यालयाः षट्सु राज्येषु श्वः प्रभृति भागिकतया  प्रवर्तिष्यन्ते। आन्घ्राप्रदेशः असं, हरियाणा, जम्मू-काश्मीर्, कर्णाटक, पञ्चाब् इति राज्येष्वेव कक्ष्या समारभ्यते। परं दिल्ली, गुजरात्, केरला, उत्तरप्रदेश, उत्तराखण्ड, पश्चिमबंगाल्, राज्येषु सेप्तम्बर् 21 दिनाङ्के विद्यालयानां प्रवर्तनं न भविता इति पूर्वं सूचितमासीत्।

     अनावरणं चतुर्थसोपानस्य भागत्वेन विद्यालयानां प्रवर्तनं भागिकतया अनुमितमासीत्। नवमतः द्वादशपर्यन्तं कक्ष्यायाः प्रवर्तने एव अनुमतिः दत्ता आसीत्। परन्तु कक्ष्याप्रवर्तनम् अनिवार्यं न कृतमासीत्। एतन्निर्णेतुम्  अधिकारः राज्यसर्वकारेभ्यः दत्तमासीत्।

PRASNOTHARAM (भागः १५०) – 26-09-2020

EPISODE – 150

 

प्रश्नोत्तरम्।

 

 

 

  1. सः (अहम्) ——- आह्वयति।(क) माम्  (ख) त्वाम्  (ग) वयम्
  2. सा (भवती) ——–पश्यति। (क) भवन्तम्  (ख) भवतीः (ग) भवतीम्
  3. जननी (सा) ——-स्पृशति।(क) त्वाम् (ख) ताम्  (ग) तान्
  4. त्वं (ते – पुंल्लिंग) ——मा विस्मर। (क) तान्   (ख) भवन्तम् (ग) त्वाम् 
  5. धर्मः (भवान् ) ——रक्षति। (क) भवतीम्  (ख) भवन्तम् (ग) भवतीः
  6. सा (भवत्यः) ——स्मरति। (क) भवतीः  (ख) भवन्तम्  (ग) भवतीम्  
  7. सर्वे (यूयम्) ——-पृच्छन्ति। (क) त्वाम् (ख) युष्मान्  (ग) तान् 
  8. भवान् (एषा) ——-जानाति किम् ? (क) भवतीम्  (ख) ताम् (ग) एताम्
  9. सः (त्वम्) ——-न जानाति। (क) ताम्  (ख) तान्  (ग) त्वाम्
  10. के (वयम् ) ——- पृच्छन्ति ? (क) अस्मान् (ख) युष्मान्  (ग) तान्

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Leena K S
  • Indulekha
  • Jiji Mathew
  • Adhilkrishna
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”