Daily Archives: September 3, 2020

2020वर्षस्य श्रेष्ठचिन्तकेषु केरलीयस्वास्थ्यमन्त्रिणी प्रथमस्थाने।

तिरुवनन्तपुरम्- केरलीय स्वास्स्थ्यमन्त्रिणी के.के. शैलजावर्या 2020 श्रेष्ठचिन्तकेषु  प्रथमस्थाने चिता। ब्रिट्टने प्रोस्पेक्ट् नामिकया मासपत्रिकया आयोजिते छन्दाकलने एव श्रीमती शैलजावर्या प्रथमस्थानमाप्तवती। कोविड् प्रतिरोधप्रवर्तनानि अभिलक्ष्यैव अस्याः अयमङ्गीकारः। चिन्तकानाम् अनुसूचिकीसु द्वितीयस्थाने न्यूसिलान्ट् राष्ट्रस्य प्रथानमन्त्री जसीन्ता आर्डन् वर्या तिष्ठति।

     विंशतिसहस्रं जनाः मतानि दत्वा एव विश्वे प्रसिद्दानां 50 चिन्तकानाम् अनुसूची  सज्जीकृतवन्तः। भारते प्रथमं कोविड् रोगस्य आवेदनं केरलराज्ये एव संजातम्। अत्र रोगव्यापनस्य नियन्त्रणे मरणन्यूनीकरणे च मन्त्रिण्याः प्रवर्तनेन साध्यमभवदिति प्रोस्पेक्ट् मासिकी वदति।

     चीनीदेशे यदा प्रथमं कोविड् आवेदितमं तदा एव अस्य प्राधान्यं ज्ञात्वा प्रवर्तितुं मन्त्रिणी शक्ता अभवत्। विश्वस्वास्थ्यसंस्थानस्य मार्गनिर्देशान् परिपाल्य प्रतिरोधप्रवर्तनेषु नेतृत्वं विधातुमपि सा शशाक। 2018 तमे वर्षे निपा विषाणोः प्रतिरोधाय कृतं प्रवर्तनमपि मासिकी असूचयत्।