Monthly Archives: October 2020

भीकरवादविरुद्धे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः।

नवदिल्ली- फ्रान्स् राष्ट्रे नोत्रदां बसेलिक्का इति क्रैस्तवाराधनालये त्रयाणां मृत्योः कारणभूतं भीकराक्रमणं भारतेन अपलपितम्। भीकरवादं विरुद्ध्य क्रियमाणे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी वर्यः ट्वीट्टर् मध्ये सूचितवान्। बहुभिः विश्वराष्ट्रैः एषा दुर्घटना अपलपिता। आक्रमणे मृतानां परिवारेभ्यः प्रानस् पौरेभ्यश्च प्रधानमन्त्री अनुशोचनं व्याजहार। कस्मिन्नपि साहचर्ये भीकरवादस्य आतङ्कवादस्य च न्यायीकरणं कर्तुं न शक्यते इति भारतीय विदेशकार्यमन्त्रालयस्यापि सूचना अस्ति।

     पूर्वं फ्रान्सिस् मार्पापा वर्यः घटनामेनाम् अपलपति स्म। सर्वविधानि भीकरप्रवर्तनानि अवसादयितुं मार्पापा जनान् उदबोधयत्। मारितेभ्यः प्रार्थनां विधास्यतीत्यपि मार्पापा व्याजहार। ब्रिट्टीष् प्रधानमन्त्री बोरिस् जोण्सण् वर्यः अपि भाकरविरुद्धतायैः स्वसज्जतां प्रकटीचकार। तुर्की, इरान् प्रभृतीनि राष्ट्राण्यपि घटनामेनाम् अपालपन्।

   फ्रान्स् राष्ट्रे नीस् आख्ये तीरदेशनगरे  एव नोत्रदां वसेलिका अवतिष्ठते। ह्यस्तने एव तत्र भीकराक्रमणं सञ्जातम्। बसेलिकायाः अन्तः प्रविश्यैव भीकराः आक्रमणमारभन्त। मृतेषु द्वे स्त्रियौ स्तः। धर्मनिन्दामारोप्य फ्रान्स् देशे पारीसे कंचन श्क्षकं शिरच्छेदेन हन्ति स्म।

फेस् बुक्क् नयनिदेशिका अङ्की दास् वर्या स्वपदवीं तत्याज।

नवदिल्ली-  फेस्बुक्क् इत्याख्यस्य मुखपुस्तकस्य भारत-दक्षिणेष्या मध्येष्या प्रान्तस्य नयनिदेशिका अङ्की दास् वर्या स्वकीयस्थानात् त्यागपत्रम् अदात्। फेस् बुक्क् मध्ये विद्वेषप्रचारणनियन्त्रणमनुबन्ध्य सञ्जाते विवादे भा.ज.पा. दलाय स्वपक्षं समर्थितवती सा इति विषये  विवादवनिता आसीत् सा। परन्तु स्थानत्यागस्य कारणम् अविदितमेव।

     फेस् बुक्क मध्ये राजनैतिकविषयनियन्त्रणविषये अङ्की दास् वर्यायाः दायित्वं संघस्य अन्तर्भागात् सर्वकारीयतलाच्च विमर्शितमासीत्। भा.ज.पा दलीयानां विद्वेषप्रचारणं विरुध्य कार्यान्वयनस्वीकारम् अङ्किता द्सेन स्थगिता  इति वाल्स्ट्रीट् मासिक्याः आवेदनमेव विवादास्पदमभूत्।

     गते सप्ताहे अङ्की दास् वर्या  संसदीयसमितेः पुरतः उपस्थिता आसीत्। फेस्बुक्क् मध्ये  वैयक्तिकतामनुबन्ध्य आशङ्का परिहारार्थमेव सा समितेः पुरतः उपस्थिता। तत्र होराद्वयं यावत् सा प्रश्नान् प्रत्युक्तवती आसीत्।

भक्षणं परमौषधम् (भागः १५५) – 31-10-2020

EPISODE – 155

नूतना समस्या –

“भक्षणं परमौषधम्”

ഒന്നാംസ്ഥാനം

“ദൈവദത്തം സ്വയംസിദ്ധം
പ്രകൃതേരതിനിർമലം
അത്യപൂർവ്വം മഹാഭാഗ്യം
ഭക്ഷണം പരമൗഷധം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १५५) – 31-10-2020

EPISODE – 155

 

प्रश्नोत्तरम्।

 

 

 

 

  1. बालकः वार्तां ——। (क) शृणोति  (ख) शृणोषि  (ग) शृणोमि
  2. जनकः विषयान् ——-। (क) शृणोमि (ख) शृणोति  (ग) शृणोषि
  3. अहं गीतां ——-। (क) शृणोषि  (ख) शृणोति (ग) शृणोमि
  4. यूयं श्लोकान् ——-। (क) शृण्मः (ख) शृणुथ  (ग) शृण्वन्ति
  5. त्वं प्रवचनं ——-। (क) शृणोमि   (ख) शृणोति  (ग) शृणोषि
  6. आवां भाषणं ——-। (क) शृण्वः (ख) शृणुथः (ग) शृणुतः 
  7. ते सङ्गीतं ——–। (क) शृण्मः  (ख) शृणुथ  (ग) शृण्वन्ति
  8. वयं पाठान् ——–। (क) शृणुथ  (ख) शृण्मः  (ग) शृण्वन्ति
  9. युवां भजनं ——-। (क) शृणुतः (ख) शृणुथः  (ग) शृण्वः
  10. तौ आकाशवाणीं ——-। (क) शृणुतः (ख) शृणुथः (ग) शृण्वः

ഈയാഴ്ചയിലെ വിജയി

Kishor Shevde

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Kishor Shevde
  • Leena K S
  • Adidev C S
  • Leena Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कुल्भूषण् जादवस्य मृत्युदण्डपुनरीक्षणार्थं सूचितस्य विधेयकस्य पाकिस्तानसंसद् परिषदः अङ्गीकारः।

इस्लामाबाद्-  मृत्युदण्डं  परिकल्प्य पाकिस्ताने कारागारवासम् अनुवर्तमानस्य कुलभूषण् यादवस्य दण्डनं पुनः परिशोधयितुं आयोजितं विधेयकं पाक् संसदः परिषदा अनुमितम्। इन्टर्नाषणल् कोर्ट् आफ् जस्टीस्(रिव्यू आन्ट् रीकण्सिडरेषन्) ओर्डिनन्स् इति नामाङ्कितस्य विधेयकस्य राष्ट्रिय  विधानसभायां नीतिन्याय स्थिरसमित्यां चर्चानन्तरमेव अङ्गीकारो लब्धः।

     अन्ताराष्ट्र नीतीन्यायालयस्य निर्देशान् पलयति विधेयकमिदम् इति चर्चायां भागं वहन् नीतिन्याय विभागमन्त्री फारुख् नसीम् अवदत्। भीकरवादं चारवृत्तिं च समारोप्य 2017 एप्रिल् मासे एव सेवाविरतं नौसेनाकर्मकरं कुल्भूषम् यादवं पाकिस्तान सैनिकन्यायालयः मृत्युदण्डम्  व्यदधात्।

STD-8: CHAPTER-7: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 7 – CLASS – 1

CHAPTER – 7 – CLASS – 2

CHAPTER – 7 – CLASS – 3

CHAPTER – 7 – CLASS – 4

CHAPTER – 7 – CLASS – 5

CHAPTER – 7 – CLASS – 6

CHAPTER – 7 – CLASS – 7

CHAPTER – 7 – CLASS – 8

CHAPTER – 7 – CLASS – 9

STD 9: CHAPTER-6: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER 6 – CLASS – 1

CHAPTER – 6 – CLASS – 2

केरलं स्वप्नसुन्दरम् (भागः १५४) – 24-10-2020

EPISODE – 154

नूतना समस्या-

“केरलं स्वप्नसुन्दरम्”

ഒന്നാംസ്ഥാനം

“വ്യാമുഗ്‌ധം, വർണ്ണനാതീതം
വിസ്മയാവഹമുജ്ജ്വലം
അവാച്യമങ്ഗലാഭഞ്ച
കേരളം സ്വപ്നസുന്ദരം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १५४) – 24-10-2020

EPISODE – 154

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः कार्यं कर्तुं ——-। (क) शक्नोति  (ख) शक्नोमि  (ग) शक्नोषि
  2. त्वं अनुकरणं कर्तुं ——। (क) शक्नोति  (ख) शक्नोमि (ग) शक्नोषि
  3. अहं वृक्षमारो़ढुं ——-। (क) शक्नोषि (ख) शक्नोमि (ग) शक्नोति
  4. युवां तरणं कर्तुं ——-। (क) शक्नुतः  (ख) शक्नुथः  (ग) शक्नुवः
  5. आवां पर्वतमारोढुं ——-। (क) शक्नुवः  (ख) शक्वुतः  (ग) शक्नुथः
  6. वयं संस्कृतसम्भाषणं कर्तुं ——–। (क) शक्नुवन्ति (ख) शक्नुथ  (ग) शक्नुमः
  7. यूयं वाहनं चालयितुं ——। (क) शक्नुवन्ति (ख) शक्नुथ (ग) शक्नुमः
  8. भवान् शीघ्रं गन्तुं ——-। (क) शक्नोति  (ख) शक्नोषि  (ग) शक्नोमि
  9. भवन्तौ डयितुं न  ——-। (क) शक्नुवः  (ख) शक्नुथः (ग) शक्नुतः
  10. एषः योगासनं कर्तुं ——-। (क) शक्नोषि (ख) शक्नोति  (ग) शक्नोमि

ഈയാഴ്ചയിലെ വിജയി

SREEJITH

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreejith
  • Leena K S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

नीट्ट् परीक्षायां सम्पूर्णाङ्कप्राप्तिः, षोय्ब् अफ्ताब् श्रद्धेयो जातः।

जय्पूर्- अखिलभारतीय-वैद्यकप्रवेशकपरीक्षायां आहत्य 720 अङ्केषु 720 अङ्कान् पूर्णतया  अवाप्य अखिलभारतस्तरे प्रथमस्थानमाप्तवान् ओडीषा रूर्कलादेशायः षोय्ब् अफ्ताब् इति अष्टादशवयस्कः युवा। वैद्यकीयाध्ययनं समाप्य हृद्रोगचिकित्सको भवितुं स इच्छति।

     राज्यस्थानराज्ये कोट्टा मण्डले करियर् इन्स्टिट्यूट् इति संस्थाने एव ऊर्जिताध्ययनाय गतवानयम्। आराष्ट्रं पिधाने घोषिते सर्वेपि तस्य सब्रह्मचारिणः स्व स्वदेशं प्रतिनिवृत्ताः। तथापि षोय्ब् तत्रैव उषित्वा अधिकसमयम् अध्ययनाय व्ययितवान्। अस्य कठिनप्रयत्नस्य फलमेव अनेन प्राप्ताः पूर्णाङ्काः।

     प्रतिसन्धीनां मध्ये अतीव क्लेशमनुभूयैव अस्मिन् वर्षे नीट्ट् परीक्षा आयोजिता इति शिक्षामन्त्री रमेश् पोख्रियाल् वर्यः अवदत्। कोविड् मानदण्डान् परिपाल्य परीक्षा समुन्नतरीत्या प्रचालिता।तदर्थं सहकृतेभ्यः मुख्यमन्त्रिभ्यः मन्त्री कृतज्ञताम् अवदत्। 1367322 छात्राः परीक्षामलिखन्। एषु 290 छात्राः ओक्टोबर् 14 दिनाङ्के एव परीक्षां लिखितवन्तः।