Category Archives: Online Magazine
संस्कृतं मम वाणी ।
जननी सर्व भाषाणां
संस्कृतं विश्ववन्दितम् ।
येन वागुच्यते शुद्धं
तं नित्यं प्रणमाम्यहम् ॥
आर्षसंस्कृतिसम्पन्ना
देववाणीति कीर्तिता ।
सा भाषा सर्वतोभद्रा
वेद वेदाङ्गसंयुता ॥
अनृता सरला भद्रा
विमला सर्वमङ्गला ।
ज्ञानविज्ञानसम्पन्ना
देवभाषा हि संस्कृतम् ॥
सर्वशास्त्रार्थसम्पन्ना
विशालकुलसम्भवा ।
पुराणापि नवा हृद्या
सर्वचित्तनिवासिनी ॥
विबुधैराश्रिता वाणी
शास्त्रभाषैव संस्कृतम् ।
कालिदासकवीन्द्रेण
पूजिता नाकसम्मिता ॥
नानार्थपदसम्पन्ना
काव्यालङ्कारसंयुता ।
इतिहासपुराणैश्च
दीव्यमाना सुराङ्गना ॥
यो पठति तां नित्यं
सादरं च सभक्तिकम् ।
तस्मिन् हि जायते शुद्ध –
भाषाज्ञानं सुमङ्गलम् ॥
भाषया भाषते नित्यं
यः पुमान् लिखति तथा ।
तस्मिन् हि जायते स्पष्ट –
सुवागर्थस्य सन्निधिः ॥
साहितीकोमलं शुद्ध –
ज्ञानस्यापि प्रदीपकम् ।
तं वन्दे संस्कृतं सर्व –
विज्ञानस्य पयोनिधिम् ॥
जयतात् देववाणी सा
जयतात् चामरा नवा ।
जयतात् धन्यधन्येयं
देववाणी चिरं भुवि ॥
Vijayan V Pattambi
സംസ്കൃത ഗാനം !!
സംസ്കൃതംശൃണോമ്യഹം
മധുര മോഹനം!സംസ്കൃതം പഠാമ്യഹം
നിത്യസുന്ദരം
സംസ്കൃതം വദാമ്യഹം
സസ്ഫുടാക്ഷരം
സംസ്കൃതം ലിഖാമൃഹം
സ്ഫടികകോമളം !!
(സംസ്കൃതം….)
സംസ്കൃതം വിരാജതേ
വ്യാസസേവിതം
ആദികാവ്യതല്ലജം
ശോകജാമൃതം !
കാളിദാസ പൂജിതം
കാവ്യനിർഭരം
സംസ്കൃതം മഹത്തരം
കർണ്ണികാമൃതം !!
(സംസ്കൃതം…..)
ദിവ്യ ഭാഷാനാമകം
സംസ്കൃതം മഹത്
ദീവ്യതി ചനാരതം
സർവ്വമോദകം !
വർധതേ പ്രവർധതേ
ചിത്തപങ്കജേ
സംസ്കൃതായ സഞ്ചിതാ
ഭക്തി ഭാവനാ
( സംസ്കൃതം….)
ശാസ്ത്രതത്ത്വ നിർഭരം
ചാരു ശോഭനം
സംസ്കൃതം വിരാജതേ
നിത്യനൂതനം!
ഭാനു ബിംബ സമ്മിതം
ശോഭമാനകം
സർവ്വലോകവന്ദിതം
ദേവവാങ്മയം!
(സംസ്കൃതം…..)
സംസ്കൃതായ വന്ദനം
സ്നേഹപൂർവകം
സംസ്കൃതായ സേവനം
കുർമഹേ സദാ
സംസ്കൃതായ ജീവനം
നാകസമ്മിതം
സംസ്കൃതസ്യ വർധനം
കാമയേ സദാ !!
(സംസ്കൃതം..)
വിജയൻ വി പട്ടാമ്പി
स्तवविंशति:
विद्या चारभ्यते ह्यत्र दिनेस्मिन् मङ्गले शुभे।
वाणीस्तुतिपरै : कैश्चित् श्लोका मृतपल्लवैः ॥
श्वेतपद्मासने देवि ! सरस्वति नमोस्तुते ।
शुभ्रवस्रावृते धन्ये वन्दे त्वां कामरूपिणीम् ॥
कुन्देन्दुधवले दीप्ते पूर्णचन्द्रानने शुभे ।
कामाक्षि करुणापूर्णे वाणि !तुभ्यं नमो नमः ॥
वीणावादनसंलग्ने चारुशीले मनोहरे ।
सर्वसिद्धिप्रदे धन्ये वाणि तुभ्यं नमोस्तु ते ॥
सर्वपापहरे देवि सर्वदे ! करुणा परे ।
शब्दार्थसुखबोधाय देवि तुभ्यं नमो नमः ॥
हिमशैलसुते पुण्ये सर्वहृदय वासिनि !
साहित्यामृतकल्लोले ज्ञानवारिधि सन्निभे ॥
कामदे करुणानेत्रे कामरूपे च शैलजे ।
महाशक्ते महापुण्ये जयतात् वरवर्णिनि ॥
सत्यकण्ठप्रदानाय शीलस्य पालनाय च
सौम्ये देवि सदा रक्ष भद्रे पालय पाहि माम् ॥
चरन्तं चन्द्रिकास्वद्य पामरं कुक्कुटोपमम् ।
विज्ञानदीपसाह्येन मां रक्ष भुवनेश्वरि !!
सौवर्णभूषिते देवि सर्वरत्न प्रभूषिते ।
सर्वज्ञे मङ्गले धन्ये रक्ष मां जगदीश्वरि ॥
तिमिरान्धस्य नेत्रस्य यथा शस्त्र क्रिया वरा
तथा सरस्वती पूजा सूक्ष्मशब्दार्थ दर्शिका ॥
नवरात्रेषु तत्पूजा मुख्या च फल दायिका ।
सारस्वतस्य बोधाय पूजेयं कीर्तिता बुधैः ॥
कर्मसाफल्यलामाय . शब्दार्थ बोधनाय च
वन्दे त्वां वरदे धन्ये सुन्दरे हिम शैलेजे ॥
साहित्यरसिके देवि सङ्गीतप्रवरे शुभे
जगताञ्च समस्तानां कुरुतात् मङ्गलं शुभे ॥
देव्यानुग्रहमात्रेण पामर : पण्डिता यते
उन्मीलयति चक्षूंषि देवी भक्त परायणा ॥
साहित्यं चाथ सङ्गीतं वाणीदेण्याः स्तनद्वयम् ।
चिन्तामधुरञ्चैकं चान्यच्छ्रवण चोदकम् ॥
दुष्टनिग्रहलाभाय दुर्गारूप मुपाश्रिते ।
दुष्टान् सर्वांश्च संहत्य शिष्टान् रक्ष महाभुजे ॥
अधर्मस्य निरासाय ह्युग्ररूपं समाश्रिते
धर्मसंस्थापिके देवि ! वन्दे त्वामुग्र मूर्त्तिके ॥
मकुटाभे महामन्त्रे नवलावण्य संयुते ।
साकारे करुणानेत्रे सर्वपापहरे शुभे ॥
कर्मसाफल्यलाभाय सर्वमर्त्य हिताय च
देवि तुभ्यं नमस्कृत्य विद्या चारभ्यते मया ॥
Vijayan V Pattambi
श्रावणोत्सवकेलि :l
व्याध्राः नृत्यन्ति सामोदं
नानावर्णमनोहराः ।
संस्कृता राजधानी तु
शोभते हर्षसागरात् ॥
पीतवर्णाः चलत्पुच्छाः
क्रूरनेत्राः भयानकाः ।
दृष्टास्तु नृत्तनिपुणा :
वेषभूषैश्चालङ्कृताः ॥
असितास्तु महाक्रूराः
वीर्यवन्तश्च सर्वथा ।
दर्शयन्तो महाजिह्वा –
ममन्दं विहरन्ति ते॥
स्त्रीव्याघ्राः बहवस्सन्ति
नृत्यन्त्यः चटुलैः पदैः ।
केरलानां तु चित्तानि
हरन्त्यः वपुषा च ताः
ये ये पश्यन्ति सामोदं
नृत्तं व्याघ्रप्रदर्शितम् ।
ते पतन्ति हि सद्यैव
प्रचलति तोषसागरे ॥
अहोरूपमहोनृत्त –
महो वर्णस्य विस्मयः ।
देवतानुग्रहादेव
जातमेतत्तु दर्शनम् ॥
नन्यत्र दृश्यते सेयं
केलिः मानसहारिका ।
केवलं केरलेष्वैव
विश्रुते माबलिस्थले ।
Vijayan V Pattambi
स्वातन्त्र्यं तोषदायकम् l
सर्वेषां जीवजालानां स्वातत्र्यं शक्तिवर्धकम् ।
पारतन्त्र्यं तु मर्त्यानां मरणादपि भीकरम् ॥
बलमुत्तेजकं वस्तु समेषां हि शरीरिणाम् ।
जीवजालानि सर्वाणि स्वातन्त्राल्लभते बलम् ॥
पारतन्त्र्यं न कांक्षन्ते पञ्जर स्थापि पक्षण : ।
केन वा शक्यते ह्यत्र पारतन्त्र्येण जीवितम् ॥
स्वातन्त्र्यं नवपीयूषं स्वातन्त्र्यं जीवनामृतम् ।
सर्वेषां मानवेभ्यस्तु स्वातन्त्र्यं स्वास्थ्यदायकम् ॥
अबला चपला न स्यात् स्वातन्त्यं दीयते यदि ।
स्वतन्त्रा ह्यङ्गना विश्वे हिमशैलसमा श्रुता ॥
नेच्छन्ति बन्धनं कोपि स्वतन्त्र्य मेव कांक्षते ।
सर्वै विहर्तुमिच्छन्ति को वा वाञ्छति बन्धनम् ॥
चिन्तनं समभावेन सोदरत्वेन जीवनम् ।
स्वातन्त्र्येणैव साध्यं तत् मानवानां हितैषिणाम् ॥
पठने च कलारङ्गे स्वातन्त्यं शक्तिवर्धकम् ।
अतो हि गुरुभि : सर्वैःदीयते तु स्वतन्त्रता ॥
बन्धुरबन्धनं नूनं सर्वशक्ति विनाशकम् ।
शुनकश्चालये बद्धो दीनं भषति सर्वदा ॥
प्रयत्नेनैव लभ्यं तत् स्वातन्त्र्यं शक्तिवर्धकम् ।
यत्नं कुरत सर्वेपि रक्षाम स्व स्व जीवनम् ॥
Vijayan V Pattambi
धीरदेशाभिमानिनः। Prepared by N. K. Ramachandran
संस्कृत दिनम्
श्रावणो मधुरः प्राप्तः
सर्वेभ्यश्च सुखप्रदः ।
मितशीतप्रदो मासः
कस्य नानन्ददायकः ?
मासेस्मिन् पौर्णमी प्राप्ता
संस्कृतदिनसूचिका ।
संस्कृतज्ञाः वयं जाताः
सन्तुष्ठाः साभिमानिनाः ॥
साहित्यधनिका भाषा
शास्त्रसागरसंभृता ।
काचिन्नास्ति हि लोकेषु
संस्कृतेन समा क्वचित् ॥
स्खालित्यरहिता दिव्या
शुद्धोच्चारणसाधिका ।
पठ्यते यदि भाषेयं
भवतः साहाय्यदायिका ॥
मातेव रक्षति भाषा
पितेव पथदर्शिका ।
भाषेभ्यो भारतीयेभ्यः
पदार्थाब्धिप्रदायिका ॥
पठेयुः संस्कृतं नित्यं
वदेयुः संस्कृतं महत् ।
भवतो रक्षणायैव
संस्कृतस्य चोद्भवः ॥
दिने च मङ्गले भूयात्
हृद्या हि शुभकामना ।
औन्नत्यमतुलं दीप्तं
भूयात्तव सुजीवितम् ॥
( सर्वेभ्य: संस्कृतदिनस्य शुभकामनाः)
Vijayan V Pattambi
छात्रेभ्यो शुभाशंसाः
आरब्धाः खलु विद्याशाला :
शलभाश्चात्र तु प्राप्ताः ।
नानावर्णै : शोभनगात्राः
विकसितनयनाः बालाः ॥
पुस्तकस्यूतैः नव्यसुवस्त्रैः
छत्रैर्वर्णमनोज्ञैः ।
अङ्कणमध्यं सम्प्राप्तास्ते
पुष्पैः मण्डितमखिलम् ॥
घण्टानादश्रवणमुहूर्ते
विशन्तु कक्ष्यामनघाम् ।
प्रणम्य वदत गुरवरमेव
संस्कृतपठनं कार्यम् ॥
सरसमनोज्ञकथाभिः पूर्णं
तावकसंस्कृतकुसुमम् ।
उपदेशशतैः ललितैः हृद्यै:
पुस्तकमेतत्भरितम् ॥
पठतात् संस्कृतं वदतान्नित्यं
संस्कृतभाषामनघाम् ।
लिखतान्मिन्त्र सुन्दरगात्रां
ललितमनोज्ञां भाषाम् ॥
उत्तमछात्राः भवन्तु सर्वै
सज्जनसेवां कुरुत।
भारतराष्ट्रसमुद्वहनाय
प्रयासमखिलं चरत ॥
Vijayan V Pattambi
पुष्पाणि l
केरलगीतम्।
केरवृक्षाणां निचया – देव
केरलनामकराज्यम् ।
काननं क्षेत्रं कदली – हन्त
सर्वहरितकभूमिः ।
नव्यतुलसीं धरन्ती – शीर्षे
कान्तिभरिता सुहासा ।
हेमन्तवस्त्रं धरन्ती मम
कैरली सुन्दरी कन्या ।
नीलाब्धिपर्यन्तां भूमिं : – पश्य
सुन्दरसैकततीरम् ।
कृष्णक्कुरुञ्ञिसुपुष्पै – सर्व-
सानवश्चाम्बरतुल्याः ।
तैय्य कलाकारै :सर्वैः -तथा
वर्णकथाकेलिनृत्तैः
ताललयन्वितनृत्ता : – सर्वे
व्याघ्रकलाकेलिसङ्घाः ।
राज्यमहान्तहृदेषु – हर्ष
यानानि कुर्वन्ति स्वर्धाम् ।
पद्मनाभस्य प्रभायां – भक्ताः
पश्यन्ति सर्पशयनम् ।
केरलं सौन्दर्यपूरात् – देश:
नाकसमानो कथितः ।
Vijayan V Pattambi














