Category Archives: Online Magazine
गुरुनाथाय ते नमः
सर्वेश्वर्यप्रदं देवं सूर्यतेजसमानकम्
अक्षरामृतदातारं गुरुनाथं नमाम्यहम्
यथा हि ग्रहमध्येषु सूर्यों भाति निरन्तरम्
तथा च शिष्यमध्यस्थो गुरुनाथो विराजते
अज्ञानतिमिरं हत्वा ज्ञानसूर्य : प्रशोभते
छात्रान् विज्ञान् विधायैवं गुरुनाथो विराजते ॥
नमामि गुरुनाथं तं सर्वज्ञं विनयान्वितम् ।
विद्याया : वारिधिं वन्दे गुरु नाथं यशस्विनम्
यश्च मे दत्तवान् स्नेहं यश्चादात्ज्ञानसागरम् ।
तस्मा आचार्यवर्याय सर्वज्ञाय नमो नमः ॥
Vijayan V Pattambi
*कुर्महे संस्कृतभाषणम्* (संस्कृतदिनस्य शुभावसरे संस्कृत वन्दनम् )
भाषास्तु विविधा : सन्ति
प्रथमं तत्र संस्कृतम् ।
विश्रुतं सर्वलोकेषु
सर्वचित्तप्रचोदकम् ॥
भाषणं मघुरं कर्तुं
सर्वान् कर्षयितुं तथा ।
समर्थं संस्कृतं ब्रूमः
स्पष्टोचारसमर्थकम् ॥
काव्यमाधुर्यपानार्थं
शास्त्रतत्त्वस्य सिद्धये ।
पठतात् संस्कृतं मित्र !
भाषारत्नसमं हि तत्॥
संस्कृतं ललितं धन्यं
विज्ञानस्य महाम्बुधि:।
देवभाषेति प्रख्यातं
संस्कृतं मम जीवनम् ॥
वेदेतिहासशास्त्राणां
लेखनाय प्रयोजितम् ।
नटराजस्य ढक्कातः
गलितो शब्दसागर : ॥
शङ्का नैवास्तु चित्तेषु
दोषभाषणभीस्तथा ।
करोतु चोत्तमैनैव
संस्कृतेन भाषण म् ॥
लेखनं श्रूयते व्यक्ते :
स्वत्वस्यापि प्रकाशकम् ।
यदि संस्कृतेन कुर्यास्ते
यशसो वर्धकं हि तत् ॥
सौम्यं शान्तं तथा दीप्तं
भानुतुल्यप्रकाशकम्
भाषणे लेखने कुर्यात्
संस्कृतं सर्ववन्दितम् ॥
अमृतां तां महावाणीं
वेदार्थसारगुम्फिताम् ।
स्वीकुरु तव सौख्याय
सज्जन !साधुधीमते ॥
भाषाणां जननी चैतत्
संस्कृतं सर्ववन्दितम् ।
अभ्यासेनैव जायेत
सर्वभाषाप्रयोगकः ॥
विनयं शान्तभावञ्च
नैपुणीः धर्मचिन्तनम्
सर्वं हि वर्धते नित्यं
सर्वं संस्कृतसाधकम् ॥
ज्ञातुं च पैतृकं स्वस्य
वेदेतिहासवाङ्मयम् ।
पठन्तु संस्कृतं सर्वे
देशभक्तिप्रवर्धकम् ॥
लज्जां त्यक्त्वा प्रयत्नेन
यततां संस्कृतभाषणे ।
भाषेयं भाषणादेव
जायेत रसनास्थिता ॥
भाषणद्वर्धते बुद्धिः
संस्कृतिश्च यशस्तथा ।
पुनः व्यक्तिविकासश्च
सर्वं संस्कृतचोदकम् ॥
संस्कृतं मृतभाषेति
प्रमूढैरुच्यते भुवि ।
अज्ञातैश्चानभिज्ञैश्च
संस्कृतस्यास्य माधुरी
संस्कृतस्य दिने चास्मिन्
कुर्म: शपथमुत्तमम् ।
महता संस्कृतेनैव
कुर्महे हितभाषणम् ॥
Vijayan V Pattambi
पुस्तकं मम जीवनम्
अज्ञाननाशकं नित्यं
विज्ञानाब्धिप्रवर्धकम्
सज्जनानां प्रियं मित्रं
पुस्तकं मम जीवनम् ॥
जिज्ञासावर्धकं .नित्यं
पठनाय प्रचोदकम् ।
गुरुणां चाथ शिष्याणां
पठने तु सहायकम् ॥
चित्तविनोदकं तत्तु
नित्यमेकान्तमित्रकम् ।
अज्ञाननाशकं तत्तु
विज्ञानस्य प्रवर्धकम् ॥
अज्ञानतिमिरं हत्वा
कुरुते ज्ञानवर्धनम्
चित्तरोगविनाशाय
पुस्तकमुक्तमौषधम् ॥
यशो ददाति कर्तृभ्यो
धनञ्चानन्दसागरम् ।
पुस्तकं सर्वरत्नेषु
प्रथमं परिकीर्तितम् ॥
निश्शब्दं स्वपिति कोशे
ज्ञानसागरमुत्तमम् ।
येन तु बुध्यते तस्मै
दीयते ज्ञानसौभगम् ॥
पदवाक्यसमूहेन
कुरुते चित्तसौष्ठवम् ।
अत एवोच्यते प्राज्ञैः
पुस्तकमुत्तमौषधम् ॥
चित्तसन्तापवेलासु
मित्रसम्मितरूपि यत् ।
पुस्तकमात्ममित्रं स्यात्
तस्मात् मामकजीवनम् ॥
अन्धकारे यथा दीपः
चान्धस्य तु सहायक : ।
तथा तत् कुरुते नित्यं
साहाय्यं सर्वसम्मतम् ॥
सज्जनानां तु सर्वेषां
जीवितायोधने सदा ।
साहाय्यकरणादेव
पुस्तकमुत्तमायुधम् ॥
संसारसागरं तर्तुं
मानवस्य सहायकम् ।
पुस्तकं नौरिव नित्यं
ज्ञानाब्धेस्तु प्रतारकम् ॥
द्वेषक्रोधादिहेतोश्च
चित्तं कलुषितं भवेत् ।
तादृशस्य तु चित्तस्य
पुस्तकं व्याधिहारकम् ॥
तैलाद्रक्ष जलाद्रक्ष
रक्ष तत् श्लथबन्धनात् ।
इत्येवं चिन्तनीयं मे
रक्षायै पुस्तकस्य च ॥
पुस्तकानि चासंख्यानि
वर्तन्ते चापणेषु किम् ?
उत्तमानि च द्वित्राणि
क्रीणाम्यद्य यथोचितम् ॥
विजयन् वि पट्टाम्पि ॥
नवाध्ययनवर्षशुभाशंसा:
*अशोकन् पुरनाट्टुकरा* (मेय् 9 : स्मृतिदिनम् )
संस्कृतस्य प्रचाराय
यतमानेषु चाग्रणीः ।
अशोक : कश्चिदासीन्मे
पुरनाट्टुकरास्थले । ।
संस्कृताध्यापक : सो /यं
रामकृष्णकलालये ।
छात्राणां क्षेमलाभाय
चाकरोत्कर्म निर्भयम् ॥
सुरेन्द्रस्य सहाय्येन
कटक्कोट्देशवासिनः ।
केरलेषु स सर्वत्र
चोदयामास संस्कृतम् ॥
स्थितं विभिन्नभागेषु
प्रसृतं गुरूमण्डलम् ।
सूत्रे गुम्फितमालेव
योजयमास केसरी ॥
नाटके भाषणे तस्य
प्रागल्भ्यं बहुविश्रुतम् ।
नाटकानि बहून्येष
विलिख्य रङ्गमानयत्॥
संस्कृतस्य प्रचाराय
मासिकीं काञ्चिदुत्तमाम्
प्राकाशयच्च स धीमान्
त्रिंशद्वर्षमितं ततः ॥
कलोत्सवस्य कालेषु
तत्प्रचालनतत्परः ।
छात्राणां विजयायैव
यतमानश्चादृश्यत॥
अकाले गतवान् स्वर्गं
त्यक्त्वा संस्कृतवाङ्मयम् ।
प्लावयन् तत्सुहृल्लोकं
दुःखसागरवीचिषु ॥
नास्त्यत्र शाश्वतं किञ्चित्
केवलं तु यशः स्मृतम् ।
तस्य स्मृतिदिनं चाद्य
चाल्यते त्रिश्शिवान्तिके ॥
आद्रियन्ते संस्कृतज्ञाः
पुरस्कारश्चदीयते ।
तस्यां शुभवेलायां
शंसये सर्वमड्गलम् ॥
विजयन् वि पट्टाम्पि
जलमेव जीवनम् । (मार्च् 22 : लोकजलदिनम् )
जलं हि जीवनं प्राहुः
जीविनां प्राणरक्षकम् ।
जीवने पोषणे चैव
जलमेव प्रधानकम् ॥
न केवलं निदाघे तु
सर्वदा जलजीविनाम् ।
जलमवश्यमित्यस्मात्
जलममृतमुच्यते ॥
जलं सकलजन्तूनां
जीवनाय सहायकम् ।
पिपासाशमकं क्षीरं
क्षीणप्रशमकं सदा ॥
हरिद्वारे च गङ्गायां
गोदवर्यां निलातटे ।
नर्मदायां च कावेर्यां
जलं पावनमेव तत्॥
वृक्षाणां चापि सस्यानां
सर्वेषां प्राणिनां तथा ।
जलमेवानिवार्यं हि
सृष्टि स्थिति प्रवर्धने ॥
पञ्चभूतेषु यत् दिव्यं
प्रथमं सर्वतोमुखम् ।
प्रयुज्यते हि सर्वत्र
सलिलं पुण्यकर्मसु ॥
जलमेव परं धर्म :
जलमेव परं धनम् ।
जलं हि सर्वजन्तूनां
सुखाय परिकल्पितम् ॥
अनुस्मार्य तु प्राधान्यं
नीरस्य हि महाजनै:
आयोजितं दिनं कञ्चित्
जलप्राधान्यहेतुकम् ॥
जलं विना न जीवन्ति
नैके भूमिषु जन्तवः ।
किं पुन : लघुसस्यानि
जलाशयसुजीविनः ॥
सर्वभूतहितं चैतत्
सर्वदेहेषु संस्थितम् ।
जलं हि चौषधं प्राहुः
स्वास्थ्यशास्त्रविशारदाः ॥
ग्रीष्मातपे विषण्णानां
शीतं वारि तु भेषजम् ।
पानेन जायते सर्वे
श्रममुक्ताश्च शीतलाः ॥
असाध्यं जीवितं चात्र
सर्वेषां प्रणिनां तथा
तरुवर्गलतादीनां
तस्मात् रक्ष जलं सदा ॥
व्ययीकृतं जलं सर्वं
पुनरायाति भूतलम् ।
वृष्टिहेतोः तथा कूपात्
जलं नाशविहीनकम् ॥
जलादुदयते लोकः
जलेन वृद्धिमेति च ।
अन्ते जलं बुधाः प्राहुः
विश्वस्य नाशकारणम् ॥
आप : वारि जलं प्राहुः
सलिलं कमलं तथा
पयः कीलालममृतं
जीवनंभुवनं वनम् ॥
कबन्धमुदकं पाथः
पुष्करं सर्वतोमुखम् ।
अम्भोर्णस्तोयपानीय
निरक्षिरम्बुशम्बरम् ॥
ग्रन्थे चामरकोशे तु
दत्तानि च पदानि वै ।
जलनामानि नैकानि
साधूनां बोधनाय हि ॥
Vijayan V Pattambi
नववर्ष शुभाशयाः
नववर्ष शुभाशयाः
नूतनं हि क्रैस्तवीयं वर्षमागतम्
चादरेण स्वागतं व्याहराम भोः ।
जीवनं तु तोषदं सर्वसौख्यदं
शान्तिशक्तिदायकं नित्यहर्षदम् ।।
( . . .नूतनं हि क्रैस्तवीयं . . )
लसतु मानसेषु ते संस्कृते रतिः
भवतु सन्मुखेषु ते भाषणे मतिः
जयतु कर्म तावकं धर्मसंयुतं
हरतु भीति मिश्वरो लोकनायक: ।।
( नूतनं हि क्रैस्तवीयं . . )
संस्कृतं तत् भवतु ते शक्तिरुज्वला
संस्कृतेन भवतु ते भाषणं वरम् ।
संस्कृताय भवतु ते कर्मणः फलम्
संस्कृतेषु स्निह्यतात् तावकं मनः ।।
(नूतनं हि क्रैस्तवीयं . .)
नास्तु ते कदापि भेदभावना
नास्तु कलुषतादिदोषचिन्तनम्
नास्तु सूनृतात्तु भेदचिन्तनं
मास्तु ते कदापि दुष्टसङ्गति : ॥
( नूतनं हि क्रैस्तवीयं . .)
नव्यचिन्ता मानसेषु भासताञ्चिरं
त्यागभाव : तावकेषु वर्धताञ्चिरम् ।
मानवस्य सेवया शेभतां मनः
भवतु वर्ष एव ते सुखद :शीतलः॥
( नूतनं हि क्रैस्तवीयं . . )
Vijayan V Pattambi
माता प्रत्यक्षदेवता ॥
जनयित्री प्रसूर्माता
जननी जन्मदा तथा।
अम्बा मातेति नामानि
मातृसम्बन्धकानि वै ॥
यथा सर्वंसहा भूमिः
यथोन्नतहिमाचलम् ।
तथा माता महाधन्या
विशाला चोन्नता वरा ॥
माता तु सर्वथा वन्द्या
माता हि करुणापरा ।
समेषां जीवजालानां
माता तु देवता परा ॥
नाशिका सर्वदुःखानां
सर्वसौख्यप्रदायिनी ।
सदा स्नेहमयी काचित्
गृहदीपसमा सदा ॥
माता पिता गुरुर्दैवं
इत्यस्ति महती प्रथा ।
प्रथमोक्ता प्रथायुक्ता
जननी मम देवता ॥
कारुण्यस्य च त्यागस्य
मूर्तीभूता तपस्विनी ।
सर्वेषां जीवजालानां
माता प्रत्यक्षदेवता ॥
वहनात् गर्भभारस्य
क्षीणा वमनभीषणा ।
सुखेन शयना चापि
सहमाना च वेदनाम् ॥
या तु पाययति स्तन्यं
लालयति तथा पुनः ।
स्नापनं स्वापनं तस्या :
तोषवर्धनहेतुकम् ॥
सर्जने तु महापीडां
वर्धने क्लेशजीवनम् ।
चिन्ताक्लेशस्तु वार्धक्ये
स्वपुत्रोन्नतिहेतुकः ॥
या जीवति परार्थाय
परसौख्यं हि कांक्षते ।
आद्याक्षरप्रदानेन
गुरुणां हि गुरुश्च सा ॥
विना स्वापं विना खेदं
विना स्नानविलेपनम् ।
यया हि जीवनं नीता
पुत्रपौत्रहिताय सा ॥
इहामुत्र तु या पुण्या
भक्त्या हि स्मर्यते सदा ।
आजीवं स्मरणीया मे
देवतां मातरं सदा॥
Vijayan V Pattambi
संस्कृतं मम वाणी ।
जननी सर्व भाषाणां
संस्कृतं विश्ववन्दितम् ।
येन वागुच्यते शुद्धं
तं नित्यं प्रणमाम्यहम् ॥
आर्षसंस्कृतिसम्पन्ना
देववाणीति कीर्तिता ।
सा भाषा सर्वतोभद्रा
वेद वेदाङ्गसंयुता ॥
अनृता सरला भद्रा
विमला सर्वमङ्गला ।
ज्ञानविज्ञानसम्पन्ना
देवभाषा हि संस्कृतम् ॥
सर्वशास्त्रार्थसम्पन्ना
विशालकुलसम्भवा ।
पुराणापि नवा हृद्या
सर्वचित्तनिवासिनी ॥
विबुधैराश्रिता वाणी
शास्त्रभाषैव संस्कृतम् ।
कालिदासकवीन्द्रेण
पूजिता नाकसम्मिता ॥
नानार्थपदसम्पन्ना
काव्यालङ्कारसंयुता ।
इतिहासपुराणैश्च
दीव्यमाना सुराङ्गना ॥
यो पठति तां नित्यं
सादरं च सभक्तिकम् ।
तस्मिन् हि जायते शुद्ध –
भाषाज्ञानं सुमङ्गलम् ॥
भाषया भाषते नित्यं
यः पुमान् लिखति तथा ।
तस्मिन् हि जायते स्पष्ट –
सुवागर्थस्य सन्निधिः ॥
साहितीकोमलं शुद्ध –
ज्ञानस्यापि प्रदीपकम् ।
तं वन्दे संस्कृतं सर्व –
विज्ञानस्य पयोनिधिम् ॥
जयतात् देववाणी सा
जयतात् चामरा नवा ।
जयतात् धन्यधन्येयं
देववाणी चिरं भुवि ॥
Vijayan V Pattambi
സംസ്കൃത ഗാനം !!
സംസ്കൃതംശൃണോമ്യഹം
മധുര മോഹനം!സംസ്കൃതം പഠാമ്യഹം
നിത്യസുന്ദരം
സംസ്കൃതം വദാമ്യഹം
സസ്ഫുടാക്ഷരം
സംസ്കൃതം ലിഖാമൃഹം
സ്ഫടികകോമളം !!
(സംസ്കൃതം….)
സംസ്കൃതം വിരാജതേ
വ്യാസസേവിതം
ആദികാവ്യതല്ലജം
ശോകജാമൃതം !
കാളിദാസ പൂജിതം
കാവ്യനിർഭരം
സംസ്കൃതം മഹത്തരം
കർണ്ണികാമൃതം !!
(സംസ്കൃതം…..)
ദിവ്യ ഭാഷാനാമകം
സംസ്കൃതം മഹത്
ദീവ്യതി ചനാരതം
സർവ്വമോദകം !
വർധതേ പ്രവർധതേ
ചിത്തപങ്കജേ
സംസ്കൃതായ സഞ്ചിതാ
ഭക്തി ഭാവനാ
( സംസ്കൃതം….)
ശാസ്ത്രതത്ത്വ നിർഭരം
ചാരു ശോഭനം
സംസ്കൃതം വിരാജതേ
നിത്യനൂതനം!
ഭാനു ബിംബ സമ്മിതം
ശോഭമാനകം
സർവ്വലോകവന്ദിതം
ദേവവാങ്മയം!
(സംസ്കൃതം…..)
സംസ്കൃതായ വന്ദനം
സ്നേഹപൂർവകം
സംസ്കൃതായ സേവനം
കുർമഹേ സദാ
സംസ്കൃതായ ജീവനം
നാകസമ്മിതം
സംസ്കൃതസ്യ വർധനം
കാമയേ സദാ !!
(സംസ്കൃതം..)
വിജയൻ വി പട്ടാമ്പി














