Daily Archives: September 16, 2020

नृत्तकलानिष्णाता कपिला वात्स्यायन् वर्या निरगात्।

दिल्ली-  भारतीय शासात्रीयनृत्तं, कला, वास्तुविद्या कलाचरित्रम् इत्यादिषु निष्णाता कपिला वात्स्यायन् वर्या दिवङ्गता। भूतपूर्वा संसद् सदस्या, इन्दिरागान्धी राष्ट्रीय कलाकेन्द्रस्य स्थापकनिदेशिका चासीत्। शिक्षामन्त्रालये भारतसर्वकारस्य सचिवा चासीत्। सा 91 वयस्का आसीत्। विख्यातः हिन्दी साहित्यकारः एस्.एच्. वात्स्यायन् अस्याः पतिः भवति।

     1970 तमे वर्षे सङ्गीतनाटक-अक्कादमी सभाङ्गत्वं, संगीतं, नृत्तं, नाटकम् इत्यादिषु केन्द्रसर्वकारेण दीयमाना परमोन्नतबहुमतिः, 1995 तमे वर्षे ललितकला अकादमी सभाङ्गत्वं इत्यादिषु पुरस्कारेषु समादृता सा 2011 तमे वर्षे पद्मविभूषणेन च बहुमता।

     दिल्ली विश्वविद्यालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पाद्य मिषिगण् विश्वविद्यालयात् आन् आर्बर् शिक्षायां द्वितीयस्नातकोत्तरबिरुदं,  बनारस् हिन्दू विश्वविद्यालयात् विद्या वारिधिबिरुदमपि सम्पादितवती।

     2006 तमे वर्षे राज्यसभायाम् अङ्गत्वेन निर्दिष्टा कपिला वर्या पुनः तदङ्गत्वं तत्याज।

 

भारते कोविड् रोगिणां संख्या 50 लक्षमतीता। गते 24 होराभ्यन्तरे 90123 रोगिणः।

दिल्ली- भारते कोविड् रोगिणः 50 लक्षमतीताः। गते 24 होराभ्यन्तरे 90123 जनाः अपि कोविड् बाधिताः अभवन्। अनेनैव रोगिणां संख्या 50 लक्षमतीता। अनेन विश्वे कोविड् रोगिणां संख्या 50 लक्षमतीतेषु राष्ट्रेषु भारतं द्वितीयस्थाने वर्तते। अमेरिका राष्ट्रमेव प्रथमस्थाने वर्तते।

     भारते गते 24 होराभ्यन्तरे 1290 जनाः कोविड् बाधया मृताः। एव राष्ट्रे कोविड् बाधया मृतानां संख्या 80776 जाता। 5020380 जनेभ्यः एव कोविड् रोगः भारते स्थिरीकृतः। एषु 995933 जनाः अधुना कोविड् चिकित्सायां सन्ति। 3942361 जना कोविड्मुक्ताः अभवन्।

     आशङ्का एवं वर्तते यत् 50 लक्षं कोविड् रोगिषु दशलक्षं जनाः गते 11 दिनाभ्यन्तरे एव रोगिणः संजाता इति। परं प्रथमं दशलक्षं रोगिणः 167 दिनेनैव रोगावेदिताः अभवन्। शिष्टानां 40 लक्षं जनानां रोगस्थिरीकरणं 61 दिनाभ्यन्तरे संजातम्। राष्ट्रे प्रतिदिनं रोगिणां संख्या ऊर्धं गच्छतीति अनेन सूच्यते।