Monthly Archives: September 2020

STD-6: CHAPTER-5: VIVEK M V HSS PANANGAD

CHAPTER – 5 – CLASS – 1

CHAPTER – 5- CLASS – 2

PRASNOTHARAM (भागः १४८) – 12-09-2020

EPISODE – 148

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः ——-गच्छति। (क) विद्यालयः  (ख) विद्यालयम्  (ग) विद्यलयस्य
  2. ——गणेशं अर्चति। (क) बालकः (ख) बालकौ   (ग) बालकाः
  3. महिला घटं ——। (क) नयतः  (ख) नयामि (ग) नयति
  4. गर्दभः——-वहति। (क) भारम्  (ख) भारः  (ग) भारे
  5.  चटका —–पिबति। (क) जलस्य  (ख) जलम् (ग) जलयोः
  6. ——-फलं खादति। (क) शुकः  (ख) शुकौ  (ग) शुकाः
  7. बालिका ——सिञ्छति । (क) वाटिका (ख) वाटिकाम्  (ग) वाटिकायाः
  8. भारवाहकः पेटिकां ——–। (क) वहामि  (ख) वहसि (ग) वहति
  9. जननी —— पचति। (क) रोटिकाम् (ख) रोटिकायाः  (ग) रोटिका
  10. अध्यापकः ——-पश्यति। (क) घटीम्  (ख) घटी (ग) घट्यः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”

 

राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरम्-प्रधानमन्त्री।

दिल्ली- राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरमेवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः न्यगादीत्। अध्यापकदिनमालक्ष्य दत्ते सन्देशे एव प्रधानमन्त्रिणः एष परामर्शः। अस्मिन् सन्दर्भे डो. सर्वप्पल्ली राधाकृष्णवर्यं कृतज्ञतया स्मरति इत्यपि प्रधानमनत्री ट्विट्टर् मध्ये सूचितवान्।

     मानसं रूपवत्कर्तुं तथा राष्ट्रं पुनर्निर्मातुं च कठिनप्रयत्नानाम् अध्यापकानां योगदानाय वयं कृतज्ञाः सन्ति। शिक्षकदिवसे शिक्षकाणां परिश्रमेभ्यः कृतज्ञताम् अर्पयामीति मोदीवर्यः ट्वीट् कृतवान्।

गुरुगीतम्

रचना – विजयन् वि पट्टाम्बि।

आलापनम् – निरञ्जना पद्मनाभन्।

उपनिर्वाचनाानि नवम्बर् मासे पूर्तीकरिष्यन्ति इति निर्वाचनायोगः।

दिल्ली- उपनिर्वाचनानि नवम्बर् मासे पूर्णतां यास्यन्तीति केन्द्रिय निर्वाचनायोगः असूचयत्। दिनाङ्कः अनन्तरम् उद्घोषयिष्यति। केरलेषु चवरा, कुट्टनाट् इति द्वे क्षेत्रे अनुसूचिकायामस्ति। विहार् विधानसभा निर्वाचनेन साकम् उपनिर्वाचनानि अपि भविष्यन्तीति निरवाचनायुक्तस्य सूचना।

     कोविड् व्यापनस्य साहचर्यमस्ति चेदपि उपनिर्वाचनानि न हातव्यानि इति निर्वाचनायुक्तस्य अभिप्रायः। कोविड्, अतितीव्रवृष्टिः इत्यादीनां भूमिकायाम्  उपनिर्वाचनानि परिवर्तनीयानि इति कानिचन राज्यानि निर्वाचनायुक्त अभ्यर्थयन्। अद्य आयोजितम् अधिवेशनम् एतदधिकृत्य चर्चां कृत्वा परिवर्तनीयस्य आवश्यकता नास्तीति निरणयत्।

विभक्तयः – VIVEK M V HSS PANANGAD

विभक्तयः – CLASS – 1

2020वर्षस्य श्रेष्ठचिन्तकेषु केरलीयस्वास्थ्यमन्त्रिणी प्रथमस्थाने।

तिरुवनन्तपुरम्- केरलीय स्वास्स्थ्यमन्त्रिणी के.के. शैलजावर्या 2020 श्रेष्ठचिन्तकेषु  प्रथमस्थाने चिता। ब्रिट्टने प्रोस्पेक्ट् नामिकया मासपत्रिकया आयोजिते छन्दाकलने एव श्रीमती शैलजावर्या प्रथमस्थानमाप्तवती। कोविड् प्रतिरोधप्रवर्तनानि अभिलक्ष्यैव अस्याः अयमङ्गीकारः। चिन्तकानाम् अनुसूचिकीसु द्वितीयस्थाने न्यूसिलान्ट् राष्ट्रस्य प्रथानमन्त्री जसीन्ता आर्डन् वर्या तिष्ठति।

     विंशतिसहस्रं जनाः मतानि दत्वा एव विश्वे प्रसिद्दानां 50 चिन्तकानाम् अनुसूची  सज्जीकृतवन्तः। भारते प्रथमं कोविड् रोगस्य आवेदनं केरलराज्ये एव संजातम्। अत्र रोगव्यापनस्य नियन्त्रणे मरणन्यूनीकरणे च मन्त्रिण्याः प्रवर्तनेन साध्यमभवदिति प्रोस्पेक्ट् मासिकी वदति।

     चीनीदेशे यदा प्रथमं कोविड् आवेदितमं तदा एव अस्य प्राधान्यं ज्ञात्वा प्रवर्तितुं मन्त्रिणी शक्ता अभवत्। विश्वस्वास्थ्यसंस्थानस्य मार्गनिर्देशान् परिपाल्य प्रतिरोधप्रवर्तनेषु नेतृत्वं विधातुमपि सा शशाक। 2018 तमे वर्षे निपा विषाणोः प्रतिरोधाय कृतं प्रवर्तनमपि मासिकी असूचयत्।

2020 डिसम्बर् मासावधिकेन सर्वाः रेल्यानसेवाः पुनस्स्थाप्यन्ते।

देहली- राष्ट्रे डिसम्बर् मासावधिकेन सम्पूर्णरूपतया रेलयानसेवां पुनरारब्धुं रेल्वे मन्त्रालयः सन्नद्धः। अस्य भागत्वेन 100 रेल्यानासेवा अपि अचिरेण पुनस्स्थापयिष्यति। नूतनोयं निर्देशः गृहमन्त्रालयस्य अङ्गीकारार्थं समर्पितः।

     कोविड् कालेपि सुरक्षितया रीत्या सेवां क्रमीकर्तुं शक्यते इति रेल्वे मन्त्रालयस्य सन्नाहः। साममाजिक अन्तरं तथा अन्याः न्बन्धनाश्च परिपाल्य एव सेवा पुनस्स्थाप्यते। एतदर्थं आगामी मार्च् मासपर्यन्तं विशेषशुल्कं स्वीकृत्य सेवांम् आर्भते।

     पुनरुद्घाटनस्य चतुर्थसोपाने  अचिरेण 100 रेल्यानसेवा तथा पञ्चमे सोपाने प्रथमं 250 रेल्यानसेवा च पुनस्स्थाप्यते। केन्द्रीय गृहमन्त्रालयाय एतत्सम्बन्धी निर्देशः ह्यस्तने दत्तः।