Monthly Archives: September 2020
केरलेषु कोविड् रोगिणां प्रतिदिनसंख्या ५००० अतीताः।
तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगबाधा प्रतिदिनं वर्धते।ह्यस्तने रोगिणां संख्या इद्प्रथमतया ५००० अतीता। ५३७६ जनेभ्यः ह्यस्तने कोविड् स्थिरीकृतम् इति मुख्यमन्त्री असूचयत्। २० मरणानि अपि ह्यस्तने स्थिरीकृतानि। कोविडवलोकनानन्तरं वार्ताहरमेलने भाषमाण आसीत् मुख्यमन्त्री। २५९१ जनाः रोगमुक्ताः अभवन्। रोगिषु ४४२६ जनाः सम्पर्केण रोगबाधिताः अभवन्। ९० स्वास्थ्यकर्मकराः अपि रोगग्रस्ताः सञ्जाताः।
सम्पर्केण रोगं स्थिरीकृतेषु ६८० रोगिणां रोगप्रभवः अज्ञातः भवति। ह्यस्तने ५१२०० जनेषु रोगपरिशोधना विहिता। रोगमधिकृत्य मिथ्याभीतिः नावश्यकः। मानदण्डः पालयति चेत् भीतिः अस्थाने एव। स्वगृहे एव सम्पर्कविरोधेन वसति चेत् मानसिकसम्मर्दं दूरीकर्तुं शक्यते इत्यपि मुख्यमन्त्री अवदत्।
गुरुपादौ नमाम्यहम् (भागः १५०) – 26-09-2020
EPISODE – 150
नूतना समस्या-
“गुरुपादौ नमाम्यहम्”
ഒന്നാംസ്ഥാനം
“ജാതിരേകാ മതം ചൈകം
പ്രഖ്യാപന വിളംബരേ
വാർഷികേ ശതവർഷേ തു
ഗുരുപാദൗ നമാമ്യഹം”
Narayanan N
“അഭിനന്ദനങ്ങള്”
षट्सु राज्येषु सेप्तम्बर् 21 आरभ्य विद्यालयाः प्रवर्तिष्यन्ते, मार्गनिर्देशाः घोषिताः।
दिल्ली- कोविड् व्यापनस्य भूमिकायां गत पञ्चमासान् यावत् पिहिताः विद्यालयाः षट्सु राज्येषु श्वः प्रभृति भागिकतया प्रवर्तिष्यन्ते। आन्घ्राप्रदेशः असं, हरियाणा, जम्मू-काश्मीर्, कर्णाटक, पञ्चाब् इति राज्येष्वेव कक्ष्या समारभ्यते। परं दिल्ली, गुजरात्, केरला, उत्तरप्रदेश, उत्तराखण्ड, पश्चिमबंगाल्, राज्येषु सेप्तम्बर् 21 दिनाङ्के विद्यालयानां प्रवर्तनं न भविता इति पूर्वं सूचितमासीत्।
अनावरणं चतुर्थसोपानस्य भागत्वेन विद्यालयानां प्रवर्तनं भागिकतया अनुमितमासीत्। नवमतः द्वादशपर्यन्तं कक्ष्यायाः प्रवर्तने एव अनुमतिः दत्ता आसीत्। परन्तु कक्ष्याप्रवर्तनम् अनिवार्यं न कृतमासीत्। एतन्निर्णेतुम् अधिकारः राज्यसर्वकारेभ्यः दत्तमासीत्।
PRASNOTHARAM (भागः १५०) – 26-09-2020
EPISODE – 150
प्रश्नोत्तरम्।
- सः (अहम्) ——- आह्वयति।(क) माम् (ख) त्वाम् (ग) वयम्
- सा (भवती) ——–पश्यति। (क) भवन्तम् (ख) भवतीः (ग) भवतीम्
- जननी (सा) ——-स्पृशति।(क) त्वाम् (ख) ताम् (ग) तान्
- त्वं (ते – पुंल्लिंग) ——मा विस्मर। (क) तान् (ख) भवन्तम् (ग) त्वाम्
- धर्मः (भवान् ) ——रक्षति। (क) भवतीम् (ख) भवन्तम् (ग) भवतीः
- सा (भवत्यः) ——स्मरति। (क) भवतीः (ख) भवन्तम् (ग) भवतीम्
- सर्वे (यूयम्) ——-पृच्छन्ति। (क) त्वाम् (ख) युष्मान् (ग) तान्
- भवान् (एषा) ——-जानाति किम् ? (क) भवतीम् (ख) ताम् (ग) एताम्
- सः (त्वम्) ——-न जानाति। (क) ताम् (ख) तान् (ग) त्वाम्
- के (वयम् ) ——- पृच्छन्ति ? (क) अस्मान् (ख) युष्मान् (ग) तान्
ഈയാഴ്ചയിലെ വിജയി
LEENA K S
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- Leena K S
- Indulekha
- Jiji Mathew
- Adhilkrishna
- Dawn Jose
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
अक्षरवृक्षं पद्धत्यै राष्ट्रिय पुरस्कारः।
तिरुवनन्तपुरम्- सम्पूर्णपिधानकाले गृहे एव स्थितानां छात्राणां सर्गशेषीं प्रोत्साहयितुं सार्वजनीन शिक्षाविभागेन आविष्कृता योजना भवति अक्षरवृक्षं योजना। अस्यै योजनायै राष्ट्रियपुरस्कारः दत्तः। इन्ड्या बुक्क् आफ् रेक्कार्ड्स् इत्यस्य 2020 तमस्य देशीयपुरस्कार एव राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजितस्य अक्षरवृक्षं योजनया अवाप्तः।
अक्कादमिकसंस्थायाः नेतृत्वे छात्राणां अधिकानां साहित्यसृष्टीनां प्र सज्काजीकर्शतुं प्नारकाशितुं च यैव राष्ट्रियपुरस्कारः। अक्षरवृक्षं योजनायां 56249 साहित्यसृष्टीः स्कूल् विक्की द्वारा लब्धा।
कथा कविता लेखनम् इत्यादिषु विभागेषु लब्धाः साहित्यसृष्टयः विदग्धपरीक्षणानन्तरमेव एस्.सी.इ. आर्,टी. संस्थायाः नेतृत्वे विविधसम्पुटरूपेण प्रकाशिताः।
परिस्थितिः, शुचित्वं, रोगप्रतिरोधः इत्यादीन् विषयान् आधारीकृत्य लेखनं, कविता, कथा इत्यादयः पद्सधत्ज्जीयाः निर्कवहणधुरार्तुं प्रकाशयितुं च एकैकस्य छात्रस्य अवसरदानमेव योजनायाः लक्ष्यमासीत्। पद्धत्याः निर्वहणधुरा एस्.सी.इ.आर्.टी. कैट् संस्थायोः निक्षिप्ता। प्रथमतः द्वादशकक्ष्यापर्यन्तं छात्राः भागभाजः आसन्।
नृत्तकलानिष्णाता कपिला वात्स्यायन् वर्या निरगात्।
दिल्ली- भारतीय शासात्रीयनृत्तं, कला, वास्तुविद्या कलाचरित्रम् इत्यादिषु निष्णाता कपिला वात्स्यायन् वर्या दिवङ्गता। भूतपूर्वा संसद् सदस्या, इन्दिरागान्धी राष्ट्रीय कलाकेन्द्रस्य स्थापकनिदेशिका चासीत्। शिक्षामन्त्रालये भारतसर्वकारस्य सचिवा चासीत्। सा 91 वयस्का आसीत्। विख्यातः हिन्दी साहित्यकारः एस्.एच्. वात्स्यायन् अस्याः पतिः भवति।
1970 तमे वर्षे सङ्गीतनाटक-अक्कादमी सभाङ्गत्वं, संगीतं, नृत्तं, नाटकम् इत्यादिषु केन्द्रसर्वकारेण दीयमाना परमोन्नतबहुमतिः, 1995 तमे वर्षे ललितकला अकादमी सभाङ्गत्वं इत्यादिषु पुरस्कारेषु समादृता सा 2011 तमे वर्षे पद्मविभूषणेन च बहुमता।
दिल्ली विश्वविद्यालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पाद्य मिषिगण् विश्वविद्यालयात् आन् आर्बर् शिक्षायां द्वितीयस्नातकोत्तरबिरुदं, बनारस् हिन्दू विश्वविद्यालयात् विद्या वारिधिबिरुदमपि सम्पादितवती।
2006 तमे वर्षे राज्यसभायाम् अङ्गत्वेन निर्दिष्टा कपिला वर्या पुनः तदङ्गत्वं तत्याज।
भारते कोविड् रोगिणां संख्या 50 लक्षमतीता। गते 24 होराभ्यन्तरे 90123 रोगिणः।
दिल्ली- भारते कोविड् रोगिणः 50 लक्षमतीताः। गते 24 होराभ्यन्तरे 90123 जनाः अपि कोविड् बाधिताः अभवन्। अनेनैव रोगिणां संख्या 50 लक्षमतीता। अनेन विश्वे कोविड् रोगिणां संख्या 50 लक्षमतीतेषु राष्ट्रेषु भारतं द्वितीयस्थाने वर्तते। अमेरिका राष्ट्रमेव प्रथमस्थाने वर्तते।
भारते गते 24 होराभ्यन्तरे 1290 जनाः कोविड् बाधया मृताः। एव राष्ट्रे कोविड् बाधया मृतानां संख्या 80776 जाता। 5020380 जनेभ्यः एव कोविड् रोगः भारते स्थिरीकृतः। एषु 995933 जनाः अधुना कोविड् चिकित्सायां सन्ति। 3942361 जना कोविड्मुक्ताः अभवन्।
आशङ्का एवं वर्तते यत् 50 लक्षं कोविड् रोगिषु दशलक्षं जनाः गते 11 दिनाभ्यन्तरे एव रोगिणः संजाता इति। परं प्रथमं दशलक्षं रोगिणः 167 दिनेनैव रोगावेदिताः अभवन्। शिष्टानां 40 लक्षं जनानां रोगस्थिरीकरणं 61 दिनाभ्यन्तरे संजातम्। राष्ट्रे प्रतिदिनं रोगिणां संख्या ऊर्धं गच्छतीति अनेन सूच्यते।
संसदः वर्षाकाल अधिवेशनं समारब्धम्।
दिल्ली- कोविड् मानदण्डं कर्शनतया पालयन् संसदः वर्षाकालाधिवेशनम् अद्य समारब्धम्। लोकसभा राज्यसभायोः मेलनं चतुर्होरावधिकं पृथक् भविष्यति।
प्रातः नववादने लोकसभाक्रमस्य समारम्भः अभवत्। स्वर्गीयाः राष्ट्रपतिचरः प्रणव् मुखर्जी वर्यः, संगीतज्ञः पण्डित् हस्राजः, भूतपूर्वः चण्डीगड् मुख्यमन्त्री अजित् जोगी, मध्यप्रदेश् राज्यपालः लाल्जी टण्टन्, इत्येतेषाम् आदराञ्जलिं समर्प्य लोक्सभा समारब्धा, राज्यसभाक्रमः सायं त्रिवादनात् सप्तवादनपर्यन्तं भविष्यति।
अस्मिन्नधिवेशने सुप्रधानाः निर्णयाः स्वीकरिष्यन्ते इति लोकसभायां वार्ताहरैः सह भाषमाणः प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। सर्वेपि विषयाः चर्चायां भविष्यति। सर्वैरपि कोविड् मानदण्डाः पालनाीयाः इत्यपि प्रधानमन्त्री अवदत्।
मानो हि महतां धनम् (भागः १४९) – 19-09-2020
EPISODE – 149
नूतना समस्या –
“मानो हि महतां धनम्”
ഒന്നാംസ്ഥാനം
“സ്ത്രീണാം ധനം സ്വചാരിത്ര്യം
പുരുഷാണാം ഹി പൗരുഷം
ഛാത്രാണാം നിജജിജ്ഞാസാ
മാനോ ഹി മഹതാം ധനം.”
Bhaskaran N K
“അഭിനന്ദനങ്ങൾ”
ओक्स्फट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्।
लण्टन्-, प्रासङ्गिकत्वेन स्थगयितं ओक्सफट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्। प्रतिरोधकौषधं स्वीकृतेषु सन्नद्धप्रकर्तकेषु एकः अज्ञातरोगग्रस्तः अभूत्। अतः परीक्षणं सामयिकत्वेन अवसितमासीत्।
परीक्षणस्य भागत्वेन १८००० सन्नद्धप्रवर्तकेषु प्रतिरोधकं सूच्यौषधरूपेण परीक्षितम्। एषु एक एव आज्ञाकामयग्रस्तः सञ्जातः। ब्रिट्टने प्रतिरोधकनिर्माणे विश्वविद्यालयेन सह आस्ट्रसनेक इति औषधनिर्माणसंस्था अपि भागं भजते।
भारते सिरम् इन्टिट्यूट् इति संस्था एव ओर्स्फट् विश्वविद्यालयस्य प्रतिरोधौषधं परीक्षते। ब्रिट्टने यदा परीक्षणं स्थगयितं तथा भारते अपि एवमेव स्थगयितमासीत्।











