पुष्पाणि l

अशोकञ्च जपापुष्पं
सूर्यकान्ति : सुदर्शना ।
मन्दारं करवीरञ्च
पाटलं मल्लिका तथा ।
कमलं शाङ्खुपुष्पञ्च
कल्हारं वनमल्लिका ।
वासन्ती नागपुष्पञ्च
तुलसी यूथिका तथा ।
नीला सेवन्तिका कुन्दं
पारिजातञ्च चम्पकम् ।
इन्दीवरञ्च पारन्ती
तुलसी चोत्पलं तथा
केरलेषु हि दृश्यन्ते
सुमानि पञ्चविंशतिः ॥
Vijayan V Pattambi
Leave a Reply