Monthly Archives: January 2019

केरल साहित्य अक्कादमी पुरस्काराः घोषिताः।

तृशूर्- २०१७ वर्षस्य केरल-साहित्य-अक्कादमीपुरस्काराः घोषिताः नोवल् विभागे वी.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् उत्कृष्टकृतित्वेन चितम्। कविताविभागे वीरान् कुट्टीवर्यस्य मिण्टाप्राणी इति कवितायाः कृते एव पुरस्कारः।

     अन्ये पुरस्काराः एवम्-

कथा- इतरचराचरङ्ङलुटे चरित्रपुस्तकम्- अय्मनं जोण्,

नाटकम्- स्वदेशाभिमानी – एस्.वी. वेणुगोपन् नायर्,

साहित्यविमर्शः- कवियुटे जीवचरित्रम्- कल्पट्ट नारायणन्

     २५००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। डो. के.एन्. पणिक्कर्, आट्टूर् रविवर्मा इत्येतयोः अक्कादमी विशिष्टाङ्गत्वमदात्। ५०००० रूप्यकाणि सुवर्णपतकं प्रशस्तिपत्रं च अस्मिन् पारितोषिके भवन्ति।

     समग्रयोगदानाय पुरस्काराः एवम्- सी.वी. बालकृष्णन्, यात्राविवरणम्, वी.आर्. सुधीष्- बालसाहित्यम्, एन्.जे.के. नायर्- वैज्ञानिकसाहित्यम्, जयचन्द्रन् मोकेरि- आत्मकथा, रमा मेनोन् – विवर्तनम्, चोव्वल्लूर् कृष्णन् कुट्टी – हास्य साहित्यम्।

सप्ततितमे गणतन्त्रदिवसीय-सञ्चलने केरलस्य निश्चलदृश्याय केन्द्रसर्वकारः अनुमतिं न ददौ।

नवदिल्ली- शनिवासरे सम्पत्स्यमाने गणतन्त्रदिवसीयसञ्चलने अस्मिन् वर्षे केरलस्य निश्चलदृश्यं न भविता। नवोत्थानस्य आशययुक्तं निश्चलदृश्यमेव केरलेन प्रस्तोतुं निश्चितमासीत्। वैक्कं सत्याग्रहप्रभृतीनां इतिहासघटनानां सूचनामनुबन्ध्य आयोजितमिदं निश्चलदृश्यं प्रस्तोतुम् अन्तिमनिमेषे प्रतिरोध मन्त्रालयेन अनुमतिः निषिद्धा।

     राष्ट्रे षोडशराज्यानि अस्मिन् वर्षे गणतन्त्रदिवसीयसञ्चलने भागं गृह्णन्ति। राज्यानां प्रथमपट्टिकायां केरलस्यापि स्थानमासीत्। परन्तु अन्तिमघट्टे अवतरणानुमतिः निषिद्धा।

आर्थिकघटनायाः सन्तुलनं नास्ति।

नवदिल्ली- नरेन्द्रमोदीसर्वकारस्य पञ्चवर्षीये प्रशासने भारते आर्थिकघटनायाः सन्तुलनं विनष्टमभवत् इति पठनावेदनम्। ओक्स्फाम् इति अन्ताराष्ट्रपठनसंघस्य आवेदने निर्णायकः आश्चर्यजनकश्च अवगमः दष्टः।

विश्वे जनसंख्यायां द्वितीयस्थानसुक्ते भारते जनतायाःपञ्चाशत् परिमितानां जनानां सम्पदः तुल्यं सम्पत् मुकेश् अम्बानि, अदानि प्रभृतीनां नव कोटीश्वराणां हस्ते अस्ति इति ओक्स्फाम् आवेदनम्।

राष्ट्रे जनतायाः दशशतमितानां जनानां हस्तेषु एव राष्ट्रसम्पदां ७७.४ शतमितं सम्पत् वर्तते इति आवेदने सूचयति। मुद्रानिरोधात् परं एकवर्षाभ्यन्तरे १८ शतरोटीश्वराः नूतनतया आविर्भूता इत्यपि आवेदने अस्ति।

अनेन भारते शतकोटीश्वराणां संख्या ११९ जाता। राष्ट्रस्था २८ लक्षंकोटि समपद् एषां ११९ जनानां पार्श्वे एव वर्तते। एतत् वार्षिकायव्ययपत्रकस्य पञ्चसु एकांशः भवतीयं संख्या।

अद्वैत-विशिष्टाद्वैत-द्वैत-शुद्धाद्वैतादीनाम् मिथः समानता भेदाश्च – शङ्करनारायणः।

अद्वैत-विशिष्टाद्वैत-द्वैत-शुद्धाद्वैतादीनाम् मिथः समानता भेदाश्च – शङ्करनारायणः।

कोपस्त्याज्यो हि सज्जनैः – 26-01-2019

 

नूतना समस्या –

“कोपस्त्याज्यो हि सज्जनैः”

Last date: 26-01-2019

ഒന്നാംസ്ഥാനം

മിത്രാണാംഭ്രാതൃവർഗാണാം
പിത്രോശ്ചഗുരുതുല്യയോ:
സന്താപകാരകോഹന്താ
കോപസ്ത്യാജ്യോഹിസജ്ജനൈ:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

पञ्चदशतमं प्रवासीभारतीयगिवससम्मेलनम् अद्य प्रारभते।

वाराणसी- प्रवासीभारतीयदिवससम्मेलनस्य अद्य वाराणस्यां शुभारम्भः। नूतन भारतनिर्माणे प्रवासिनां योगदानम् इति विषयमधिकृत्यैव सम्मेलनमिदं प्रचलति। विविधेभ्यः विदेश राष्ट्रेभ्यः २००० प्रतिनिधयः भागं गृह्णन्ति।

      अद्य प्रातः उत्तरप्रदेशमुख्यमन्त्री योगी आदित्यनाथः अधिवेशनस्य उद्घाटनं विधास्यति। विदेशकार्यमन्त्री सुषमा स्वराजप्रभृतयः सम्मेलनम् अभिसम्बोधयिष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदीवर्यः कुजवासरे प्रतिनिधीन् अभिसम्बोधयिष्यति। बुधवासरे समापनाधिवेशने राष्ट्रपतिः रामनाथ कोविन्द वर्यः प्रवासिपुरस्कारान् वितरिष्यति।

 

PRASNOTHARAM 26-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “प्राचीनमलयाळं ” इति ग्रन्थस्य कर्ता कः ? (क) श्रीनारायणगुरुः (ख) चट्टम्पिस्वामि (ग) शङ्कराचार्यः
  2. “पितृ” शब्दस्य सप्तमी एकवचनं किम् ? (क) पितरः  (ख) पितुः  (ग) पितरि 
  3. ” सत्यमेव जयते  ” वाक्यमिदं कस्याम् उपनिषदि भवति ? (क) मुण्डके (ख) माण्डूक्ये  (ग) छान्दोग्ये
  4.  ” गुरु ” शब्दस्य चतुर्थी एकवचनं किम् ? (क) गुरवे  (ख) गुरवः (ग) गुरोः
  5. वेदेषु एव प्रयुक्तः लकारः कः ? (क) लट्  (ख) लोट् (ग) लेट्
  6. कोषिक्कोट् नगरात् प्रकाश्यमाना संस्कृतमासिकी का ? (क) रसना (ख) सम्भाषणसन्देशः (ग) चन्दमामा
  7. भविष्यकालसूचकः लकारः कः ?  (क) लट्  (ख) लृट् (ग) लङ्
  8. रघुवंशस्य कर्ता कः ?  (क) कालिदासः (ख) माघः (ग) भारविः
  9. महाभारते कति  पर्वाणि सन्ति ?  (क) १६  (ख) १७  (ग) १८
  10. चट्टम्पिस्वामिनः जन्मदेशः कः ?  (क) कालटी (ख) पन्मना (ग) चेम्पषन्ति

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O.M.
  • Hariharan K.
  • Rajani A G
  • Dawn Jose
  • Adwaith C S
  • Mariya K W
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

देशीयसंगोष्ठी सुसम्पन्ना।

कासरगोड् – सार्वजनीनशिक्षाविभागस्य संस्कृतकौण्सिल् इत्यनेन आयोजिता संगोष्ठी अत्र सुसम्पन्ना। नियमसभासामाजिकः श्री एन्.ए. नेल्लिक्कुन्न् वर्यः समुद्घाटकः आसीत्। उद्घाटकेन भाषितं यतदन्येषां भाषाणामपेक्षया श्रोतुं मधुरतरा भवति संस्कृतभाषा। पूर्वतनशिक्षामन्त्रिणा इ.टि. मुहम्मद् बषीर् वर्येण संस्कृतसर्वकलाशालायाः साक्षात्कारार्थं बहुप्रयत्नं कृतम्।  नैको∫पि भाषा ईश्वरेण सृष्टा। सर्वा∫पि भाषाः मनुष्यैरेव निर्मिता अस्ति। अतः सर्वाः भाषाः सर्वेभ्यो प्राप्तव्याः इति श्री नेल्लिक्कुन्नु वर्यः उद्बोधषितवान्। प्रथमकक्ष्यातः आरभ्य संस्कृतपठनाय शिक्षकाणां नियुक्तिविषये प्रयत्नं करिष्यतीति सः वाग्दानं प्रकटितवान्।

मुख्यप्रभाषक आसीत् प्रमुखः कैरलीलिपिकारः श्री वि.आर् सुधीष् वर्यः। साहित्यमण्डले शोभमानाः गिरिशृङ्गाः भवन्ति संस्कृतपुराण-इतिहास-वाङ्मयाः इति सुधीष् वर्येण प्रोक्तम्। कालिदासादिभिः महाकविभिः सर्वैः मनुष्याणां शोकः एव अनुधावित आसीदिति सो∫ब्रवीत्। कुट्टिक्कृष्णमारार् महोदयेन साकं अन्ये कैरलीसंस्कृतकारेण दीप्ते पथि अस्माभिः इतो∫पि सञ्चारं करणीयमिति मुख्यप्रभाषकेण प्रोद्घोषयत्।

संस्कृतभाषापोषणे विघाताः परिहाराश्च इत्यस्मिन् विषये डो. रामचन्द्रलु बालाजि वर्येण, पुनः परिभाषया परिलसन्त्यः संस्कृतकृतयः इत्यस्मिन् विषये डो. इ.श्रीधरन् वर्येण च प्रबन्धौ साक्षात्कृतौ। श्री विजयन् वि. पट्टाम्पि, श्री प्रदीपकुमारः, श्री एन्.के रामचन्द्रः, श्री हरिप्रसाद् कटम्पूर् च चर्चायां भागमावहन्।

कार्यक्रमे बीफात्तिमा इब्राहीम्, डो. गिरीष् चोलयिल् श्री वि.  श्रीकण्ठः सुनिल्कुमार् कोरोत्त्, टि.डि. सुनीतिदेवी प्रभृतयः भाषणमकुर्वन्। योगानन्तरं संस्कृतकलाकार्यक्रमाः अपि प्राचलन्।

सार्वजनीनशिक्षाविभागस्य आभिमुख्ये राष्ट्रिय-संस्कृत-संगोष्ठी कासरगोडे।

कासरगोड्- संस्कृतभाषायाः पठनपाठनप्रचारणरंगे केरलीय-सार्वजनीनशिक्षाविभागः विपुलान् विशिष्टान् च कार्यक्रमान् आयोजयति। प्रथमकक्ष्यायाः आरभ्य संस्कृतं पठितुं राष्ट्रे सौविध्यम् अत्रैवास्ति। छात्राणा कृते धिषणावृत्तिपरीक्षा, संस्कृतकलोत्सवः, राज्यस्तरीयः संस्कृतदिनसमारोहः, अध्यापकानां कृते विशेषकार्यक्रमः, राष्ट्रियसंगेष्ठी इत्यादयः तेषु कार्यक्रमेषु अन्तर्भवन्ति।

      अस्मिन् वर्षे संस्कृते राष्ट्रियसंगोष्ठी २०१९ जनुवरी १९ दिनाङ्के कासरगोड् मण्डले नगरसभा अधिवेशनशालायाम् आयोजयिष्यति। तद्दिने प्रातः दशवादने केरलीय-राज्यस्वमन्त्री श्रीमान् इ चन्द्रशेखरः अस्य उद्घाटनं निर्वक्ष्यति। नियमसभायाः कासरगोड् सदस्यः एन्.ए. नेल्लिक्कुन्न् वर्यः अध्यक्षः भविता। जिल्ला पञ्चायत् अध्यक्षः विशिष्टातिथिः भविता।

       द्वादशवादने विचारगोष्ठी समारभ्यते।एस्. श्रीकुमार् स्वागतं व्याहरिष्यति। संस्कृतभाषापोषणे विघाताः परिहाराश्च इति विषये प्रोफ. डो. रामचन्द्रलु बालाजी प्रबन्धं प्रस्तोष्यति। प्रोफ. वी. माधवन् पिल्ला वर्यः चर्चानियन्त्रको भविता। वी.विजयन्, प्रदीप्कुमार् च चर्चायां भागं गृहीष्यतः।
१२.१५ वादने परिभाषया परिलसन्त्यः संस्कृतकृतयः इति विषये अन्या संगोष्ठी भविता। कालटी संस्कृतविश्वविद्यालयस्य पय्यन्नूर् केन्द्रे सहप्राध्यापकः डो. इ. श्रीधरन् वर्यः प्रबन्धं प्रस्तोष्यति। एन्.के.रामचन्द्रन्, हरिप्रसाद् कटम्पूर् च चर्चायां भागं गृहीष्यतः। संगोष्ठ्याः अनन्तरं संस्कृतकलापरिपाट्यः अपि आयोजिताः।

प्रधानमन्त्री अद्य केरलानागच्छति।

तिरुवनन्तपुरम्- कोल्लम् अतिरिक्तवीथ्याः उद्घाटनं तथा अनन्तपुर्यां श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धतेः उद्घाटनं च विधातुं प्रधानमन्त्री नरेन्द्रमेदीवर्यः अद्य केरलान् प्राप्स्यति। प्रथमकार्यक्रमः कोल्लम् अतिरिक्तवीथ्याः उद्घाटनमेव।
सायं चतुर्वादने अनन्तपनर्यां वायुसेनाविमान -पत्तनमागच्छन्तं मोदीवर्यं राज्यपालः प्रत्युद्गमिष्यति। ततः प्रधानमन्त्री कोल्लं प्रति प्रस्थास्यति। कोल्लं बै पास् उद्घाटनानन्तरं तत्र भा.ज.पा. दलस्य सामान्याधिवेशने प्रभाषणं विधास्यति।
सायं सप्तवादने अनन्तपुरीम् आगम्यमानः प्रधानमन्त्री श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धत्याः उद्घाटनं कृत्वा नवदिल्लिं प्रतिगच्छति।
प्रधानमन्त्रिणः सन्दर्शनमनुबन्ध्य कोल्लं तिरुवनन्तपुरं प्रदेशयोः महती सुरक्षा विहिता। कोल्लं देशे अद्य एकादशवादनात् प्रभृति तिरुवनन्तपुरे सायं पञ्चवादनात् रात्रौ दशवादनपर्यन्तं च यातायातनियन्त्रणं निश्चितं वर्तते।