Daily Archives: January 15, 2019

प्रधानमन्त्री अद्य केरलानागच्छति।

तिरुवनन्तपुरम्- कोल्लम् अतिरिक्तवीथ्याः उद्घाटनं तथा अनन्तपुर्यां श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धतेः उद्घाटनं च विधातुं प्रधानमन्त्री नरेन्द्रमेदीवर्यः अद्य केरलान् प्राप्स्यति। प्रथमकार्यक्रमः कोल्लम् अतिरिक्तवीथ्याः उद्घाटनमेव।
सायं चतुर्वादने अनन्तपनर्यां वायुसेनाविमान -पत्तनमागच्छन्तं मोदीवर्यं राज्यपालः प्रत्युद्गमिष्यति। ततः प्रधानमन्त्री कोल्लं प्रति प्रस्थास्यति। कोल्लं बै पास् उद्घाटनानन्तरं तत्र भा.ज.पा. दलस्य सामान्याधिवेशने प्रभाषणं विधास्यति।
सायं सप्तवादने अनन्तपुरीम् आगम्यमानः प्रधानमन्त्री श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धत्याः उद्घाटनं कृत्वा नवदिल्लिं प्रतिगच्छति।
प्रधानमन्त्रिणः सन्दर्शनमनुबन्ध्य कोल्लं तिरुवनन्तपुरं प्रदेशयोः महती सुरक्षा विहिता। कोल्लं देशे अद्य एकादशवादनात् प्रभृति तिरुवनन्तपुरे सायं पञ्चवादनात् रात्रौ दशवादनपर्यन्तं च यातायातनियन्त्रणं निश्चितं वर्तते।