Daily Archives: January 28, 2019

डो. एम्. लीलावतीवर्या केन्द्रसाहित्य अक्कादम्या पुरस्कृता।

नवदिल्ली- विख्याता कविः प्रभाषिका च डो. एम्. लीलावतीवर्या केन्द्र साहित्य अक्कादमी पुरस्कारेण आदृता। विवर्तनस्य गणे एवायं पुरस्कारः दीयते। श्रीमद्वाल्मीकिरामायणस्य कैरलीविवर्तनमेव तां पुरस्कारार्हामकारयत्।

पूर्वं केरल-साहित्य-अक्कादमीपुरस्कारः, वल्लत्तोल् पुरस्कारः इत्यादिभिः एषा समादृता आसीत्। १९२७ सेप्तेम्बर् ६ दिनाङ्के तृशूर् मण्डले गुरुवायूर् देशे भूजातेयं महती कुन्नंकुलं विद्यालयात् प्राथमिकशिक्षामवाप्य पुनः एरणाकुलं महाराजास् कलालयः मद्रास् सर्वकलाशाला, केरलसर्वकलाशाला इत्यादिषु स्वकीयां शिक्षाम् अपूरयत्। बहुकालपर्यन्तं कलालये अध्यापिका असीत् विरामनन्तरं साहित्यसपर्यायां निरता वर्तते।

शर्माजीपुरस्कारं डो.जी. चन्द्रशेखरप्रभुवर्याय समार्पयत्

।कोल्लम्- विख्यातस्य कवेः संस्कृतप्रचारकस्य कृष्णशर्मणः स्मरणार्थम् आयोजितः पुरस्कारः भवति शर्माजी पुरस्कारः। प्रगद्भाय संस्कृताध्यापकाय प्रतिवर्षं एषः पुरस्कारः दीयते। अस्मिन् वर्षे डो.जी. चन्द्रशेखरप्रभुवर्याय पुरस्कारमिमं प्रादात्।

विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षः डो. पी.के. माधवन् वर्यः पुरस्कारमदात्। नागपूरस्थे कविकुलगुरुःकालिदास-विश्वविद्यालये व्याकरणविभागाध्यक्षः डो.सी.जी. विजयकुमारवर्यः मुख्यभाषणं व्यधास्यत्। राष्ट्रपतिपुरस्कारेण मानितं डोय जी. गङ्गाधरन् नायर् वर्यं समारोहे/स्मिन् समादरयत्। डो. एटनाट् राजन् नम्प्यार्, डो. एं.पी. उण्णिकृष्णन्, डो. पी.के. शङ्करऩारायणन् प्रभृतयः आशंसां समार्पयन्।