Monthly Archives: December 2018

मृणाल् सेन् कालयवनिकायाम् अन्तरधात्।

कोल्कत्ता- प्रशस्तः बंगाली चलचित्रनिदेशकः मृणाल् सेन् वर्यः कालकबलीभूतः। तेन कृतानि नैकानि चलचित्राणि राष्ट्रियान्ताराष्ट्रियप्रशस्तियुतानि सन्ति। नवतरंगचलचित्रे सामाजिकप्रतिबद्धताम् अभिलक्ष्य पृथक् तिष्ठति अस्य चलचित्राणि।

अधुना बंग्लादेशे अन्तर्भूते फरीद्पुरे १९२३ मेय् १४ दिनाङ्के अयं लब्धजन्माभूत्। २०१८ दिसम्बर् ३० दिनाङ्के पश्चिमबंगे अस्य मृत्युश्च सञ्जातः। पठनानन्तरं भौतिकशास्त्रे बिरुदसम्पादनाय अयं कोल्कत्तां समागतः। अस्मिन् कालघट्टे साम्यवादिदलस्य सांस्कृतिकविभागेन सह सम्बन्धो/जायत। तथापि स दले अङ्गत्वं न स्वीकृतवान्। भारतीय-जनवेदिकासंघेन IPTA सह प्रवर्तयन् नैकैः कलाकारैः सह सम्पर्के भवितुम् अवसरो लब्धः।

१९५३ तमे वर्षे निर्मितं रात् बोरे इत्यासीत् अस्य प्रथमं चलचित्रम्। तृतीयं चलचित्रं बैषेय् श्रावण् तं राष्ट्रान्तरप्रशस्तिम् अनयत्।

राज्यस्तर-राष्ट्रियपुरस्कारानतिरिच्य राष्ट्रान्तरपुरस्कारमपि बहुवारं स अलभत। केन्द्रसर्वकारेण पद्मभूषणपुरस्कारः तस्मै दत्तः। चलचित्ररंगे अत्युन्नतं ददासाहेब् फाल्के पुरस्कारमपि २००५ तमे वर्षे स अलभत। १९९८ तः २००३ पर्यन्तं राज्यसभायां सदस्यः आसीत्।

वर्षो∫यं सुखदो भवेत् – 05-01-2019

 

नूतना समस्या –

“वर्षो∫यं सुखदो भवेत्”

ഒന്നാംസ്ഥാനം

വർഷമേഘാഃ യഥാകാലം
ഹർഷായഹേതവോയദി
സന്തുഷ്ടാ:കർഷകാസ്തർഹി
വർഷോ Sയംസുഖദോഭവേത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 05-01-2019

 

प्रश्नोत्तरम्।

 

 

  1.  ” अङ्कणमञ्जूषा निरावरणा ” ? (क) कूपः (ख) नदी (ग) वापी
  2.   मातुः पिता भवति मातामहः । मातुः माता का ? (क) पितामही (ख) मातुलः (ग) मातामही
  3.  श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्यां जिल्लायां भवति ? (क) तृश्शूर् (ख) एरणाकुलम् (ग) कोट्टयम्
  4.  ” काव्यस्यात्मा ध्वनिः ” इति केन उक्तम् ?  (क) आनन्दवर्धनेन (ख) भामहेन (ग) कुन्तकेन 
  5.  ” उत्तररामचरितम् ” नाटकस्य कर्ता कः  ? (क) भासः (ख) कालिदासः (ग) भवभूतिः
  6.  कति वेदाः सन्ति  ?  (क) ३  (ख) ४  (ग) ५
  7.  केरलराज्यस्य प्रथममुख्यमन्त्री कः  ?  (क) करुणाकरः (ख) ई एम् एस् नम्पूतिरिप्पाट् (ग) अच्युतमेनोन्
  8.  अस्माकं राष्ट्रपतिः कः  ?  (क) रामनाथ् कोविन्द् (ख) प्रणब् मुखर्जी  (ग) वेङ्कय्या नायिडु
  9.  विश्वयोगादिनं कदा भवति  ? (क) जूण् २१ (ख) जूण् २२ (ग)  जूण् २३
  10.   ” दीपशिखा ” इति  कस्य कवेः विशेषणम् ? (क) भासस्य (ख) भामहस्य (ग) कालिदासस्य 

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Dawn Jose
  • Harinarayanan Irinjalakuda
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति।

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति इति लोकसभासदस्यः शशी तरूर् वर्यः अवदत्। केरलेषु सञ्जाते महाप्रलये तैः कृतानि रक्षाप्रवर्तनानि संसूच्यैव प्रस्तुतिः भविता इति तेनेक्तम्। शान्तिभिभागे दीयमानाय पुरस्काराय बाह्यनामाङ्कनरूपेणैव प्रस्तावः भविष्यतीति सूचना।

२०१८ आगस्त् मासे सञ्जाते महाप्रलये तेषां सेवनं अतिमहत्तरमासीत्। सैन्येनापि अप्राप्यान् प्रदेशान् गत्वा सहस्राधिकान् जनान् सुरक्षितस्थानमनयन् ते। अतः केरलानां सैनिकाः इति मुख्यमन्त्री तान् विशिनष्टि स्म।

अमेरिक्का श्रेष्ठवनितापुरस्कारः मिषेल् ओबामा वर्यायै।

वाषिङ्टण्- अमेरिक्कीया श्रेष्ठवनिताचयने हिलारि क्लिन्टन् वर्यां पराजित्य मिषेल् ओबामा वर्या जिता। अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः बराक् ओबामावर्यस्य पत्नी भवति मिषेल्। गतेषु सप्तदशवर्षेषु अयं पुरस्कारः हिलारि क्लिन्टन् वर्यया स्वायत्तीकृतः आसीत्।

     अस्मिन् वर्षे हिलारी क्लिन्टन् तृतीयस्थानमागता। भूतपूर्वा राज्यसचिवा तथा तत्कालीनराष्टंरपतेः बिल् क्लिन्टन् वर्य़स्य पत्नी च भवति हिलारी क्लिन्टन्। टोक् षो द्वारा प्रसिद्धा ओप्रा विन्फ्रा एव द्वितीया।

     ग्यालप् नामकसंघेन कृतं वार्षिकं सार्वजनीनाभिप्रायसमाकलने एवेदम् अङ्कितम्। १९४६ प्रभृति ग्यालप् इदम समाकलनं सञ्चालयति।

     भूतपूर्वः राष्ट्रपतिः बराक् ओबामा एव श्रेष्ठपनरुषत्वेन चितः। डोनाल्ड् ट्रम्प् वर्यः द्वितीयस्थाने अस्ति। गतेषु ११ वर्षेषु बराक् ओबामा एव प्रथमस्थाने वर्तते।

मुम्बय्यां अग्निबाधा – पञ्च वयोधिकाः मृताः।

मूम्बै – तिलकनगरस्थे कस्मिंश्चिदावासनिलये पञ्चदशदिलयात्मके दुराबाधिते सविधे उषितानां वयोधिकानां मृतौ नगरस्थाः स्तब्धाः। मृतेषु एकपुरुषः, अन्याः वनिताः च भवन्ति। गुरुवासरे सायं अष्टवादने अग्निबाधा विदिता आग्नेयारक्षिदलाः आगत्य सुरक्षाकार्यक्रमान् स्वीकृतवन्तः। अग्निबाधायाः निदानं किमिति न को∫पि जानन्ति।

दिव्यजन्मस्मृतौ आविश्वम् अद्य क्रिस्तुमस् समारोहः।

येशुदेवस्य दिव्यजन्मस्मृतौ विश्वे सर्वत्र विश्वासिजनाः अद्य क्रिस्तुमस् समारोहे निरताः सन्ति। देवपुत्रस्य अवतारः भूमौ सञ्जातः। तच्च गोष्ठे एवासीत्। गोष्ठे बालयेशोः जन्मदिवस इति विश्वासे एव क्रिस्तुमस् आचर्यते।आविश्वं विविधेषु देवालयेषु विपुलाः समारोहाः आयोजिताः । बालयेशोः जन्मभूमौ बत्लेहेमे वैदेशिकैः सह बहवः जनाः प्रार्थनासमारोहे भागं गृहीताः। जन्मस्थले प्रादेशिकदेवालये दिव्यबलिरपि समायोजयत्।

     25 दिवसीयस्य व्रतस्य तथा प्रार्थनायाश्च अनन्तरमेव क्रैस्तवाविश्वासिनः दिव्यजन्म आचरन्ति। नक्षत्राणि तृणागारः, क्रिस्तुमस् वृक्षः इत्यादीनि समायोज्य एव विश्वाससमूहः क्रिस्तुमस् दिनं स्वागतीकरोति।

  सर्वेभ्यो नववाणीसुहृद्भ्यः क्रिस्तुमस् शुभकामनाः।

भारतसमुद्रतलं २.८ पादपरिमतं उूर्ध्वं गच्छेत्। दक्षिणकेरले महती भीषा।

नवदिल्ली- अन्तरिक्षे आगोलतापनस्य काठिन्येन अस्य शतकस्य अन्ते केरलानभिव्याप्य भारतीयसमुद्रतीरेषु समुद्रतलम २.८ पादं यावत् उन्नतिं प्राप्स्यति इति केन्द्रसर्वकारस्य जाग्रतानिर्देशः। अनेन बहवः प्रदेशाः जलाप्लाविताः भवेयुः इति अनुमीयते। दक्षिणकेरलस्य तीरप्रदेशाः महाभीषायां वर्तन्ते इति आवेदनेन सूचयति। मुम्बै प्रभृतयः पश्चिमतीरप्रदेशेषु गुजरात् राज्यस्थे कच् खंबत् प्रदेशयोः, कोङ्कणदेशे च भीषा वर्तते।
हैदरबाद् आस्थानत्वेन प्रवर्तमानायाः इन्कोय्स् इति संस्थायाः पठनानुसारमेव परिस्थितिमन्त्री महेश् शर्मावर्यः लोकसभायाम् इदमावेदयत्।गङ्गा, कृष्णा, कावेरी, गोदावरी, महानदीप्रभृतीनां तीराण्यपि भीषाप्रदेशा एवेति आवेदनमस्ति।

पर्यावरणस्य व्यतियानमेव अस्य प्रतिभासस्य कारणं स्यादिति पठनं सूचयति।

सृष्टं वा नवकेरलम् – 29-12-2018

 

नूतना समस्या –

“सृष्टं वा नवकेरलम्”

ഒന്നാംസ്ഥാനം

പുഷ്ടം രാഷ്ട്രീയവൈരാഗ്യം
ദൃഷ്‌ടമാചാരലംഘനം
നഷ്ടം വിശ്വാസമൈക്യം ച
സൃഷ്ടം വാ നവകേരളം.

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 29-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामायणे कति काण्डानि सन्ति ?(क) ७  (ख) ८ (ग) ६
  2. कति पुराणानि सन्ति ? (क) १६ (ख) १७ (ग) १८
  3. नाट्यशास्त्रस्य कर्ता कः ? (क) पाणिनिः (ख) भरतमुनिः (ग) पतञ्जलिः
  4. मीमांसादर्शनस्य उपज्ञाता कः ? (क) जैमिनिः (ख) बादरायणः (ग) कपिलः
  5. नौकागानकर्ता कः ? (क) उण्णायिवारियर् (ख) रामपुरत्तुवारियर् (ग)कुञ्चन् नम्प्यार्
  6. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजरङ्गिणि (ख) कादम्बरी (ग) उत्तररामचरितम्
  7. हितोपदेशस्य कर्ता कः ? (क) विष्णुशर्मा (ख) गुणाड्यः (ग) सोमदेवः
  8. भासनाटकचक्रे कति रूपकाणि सन्ति ? (क) १२ (ख) १३ (ग) १४
  9. सङ्गीतप्रधानः वेदः कः ?  (क) ऋग्वेदः (ख)यजुर्वेदः (ग) सामवेदः
  10. प्रस्थानत्रयस्य भाष्यकारः कः ?  (क) श्रीशङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Adidev C S
  • Akshay P C
  • Dawn Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”