Daily Archives: January 29, 2019

भूतपूर्वः केन्द्रमन्त्री जोर्ज् फर्णाण्टस् वर्यः मृतिमुपगतः।

नवदिल्ली- जनता पार्टी इति दलस्य स्थापकाङ्गं तथा भूतपूर्वः केन्द्रीय-प्रतिरोधमन्त्री जोर्ज् फर्णाण्टस् वर्यः(88वयस्कः) कालयवनिकायाम् अन्तरधात्। स्मृतिभ्रंशरोगबाधितः स बहुकालं चिकित्सायामासीत्।

पूर्वं एन्.डी.ए. सर्वकारस्य मन्त्रिसभायां प्रतिरोधमन्त्रिपदम् अलंचकार। तदनन्तरं एन्.डी.ए. खटबन्धात् विमुक्तः सन् स्वतन्त्ररूपेण निर्वाचनमभिमुखीकृतः। परन्तु पराजितः। पत्रकारप्रवर्तनात् राजनैतिकरंगमागतः अयं महानुभावः आपातस्थितेः काले कारागारे बद्धः आसीत्। कर्णाटकराज्ये मंगलूरु देशीयः भवत्ययम्।