सार्वजनीनशिक्षाविभागस्य आभिमुख्ये राष्ट्रिय-संस्कृत-संगोष्ठी कासरगोडे।

कासरगोड्- संस्कृतभाषायाः पठनपाठनप्रचारणरंगे केरलीय-सार्वजनीनशिक्षाविभागः विपुलान् विशिष्टान् च कार्यक्रमान् आयोजयति। प्रथमकक्ष्यायाः आरभ्य संस्कृतं पठितुं राष्ट्रे सौविध्यम् अत्रैवास्ति। छात्राणा कृते धिषणावृत्तिपरीक्षा, संस्कृतकलोत्सवः, राज्यस्तरीयः संस्कृतदिनसमारोहः, अध्यापकानां कृते विशेषकार्यक्रमः, राष्ट्रियसंगेष्ठी इत्यादयः तेषु कार्यक्रमेषु अन्तर्भवन्ति।

      अस्मिन् वर्षे संस्कृते राष्ट्रियसंगोष्ठी २०१९ जनुवरी १९ दिनाङ्के कासरगोड् मण्डले नगरसभा अधिवेशनशालायाम् आयोजयिष्यति। तद्दिने प्रातः दशवादने केरलीय-राज्यस्वमन्त्री श्रीमान् इ चन्द्रशेखरः अस्य उद्घाटनं निर्वक्ष्यति। नियमसभायाः कासरगोड् सदस्यः एन्.ए. नेल्लिक्कुन्न् वर्यः अध्यक्षः भविता। जिल्ला पञ्चायत् अध्यक्षः विशिष्टातिथिः भविता।

       द्वादशवादने विचारगोष्ठी समारभ्यते।एस्. श्रीकुमार् स्वागतं व्याहरिष्यति। संस्कृतभाषापोषणे विघाताः परिहाराश्च इति विषये प्रोफ. डो. रामचन्द्रलु बालाजी प्रबन्धं प्रस्तोष्यति। प्रोफ. वी. माधवन् पिल्ला वर्यः चर्चानियन्त्रको भविता। वी.विजयन्, प्रदीप्कुमार् च चर्चायां भागं गृहीष्यतः।
१२.१५ वादने परिभाषया परिलसन्त्यः संस्कृतकृतयः इति विषये अन्या संगोष्ठी भविता। कालटी संस्कृतविश्वविद्यालयस्य पय्यन्नूर् केन्द्रे सहप्राध्यापकः डो. इ. श्रीधरन् वर्यः प्रबन्धं प्रस्तोष्यति। एन्.के.रामचन्द्रन्, हरिप्रसाद् कटम्पूर् च चर्चायां भागं गृहीष्यतः। संगोष्ठ्याः अनन्तरं संस्कृतकलापरिपाट्यः अपि आयोजिताः।

Leave a Reply

Your email address will not be published. Required fields are marked *