Daily Archives: January 1, 2019

नवोत्थानमूल्यसंरक्षणार्थं वनिताप्राकारः

तिरूवनन्तपुरम्- नवोत्थानमूल्यानां संरक्षणसन्देशेन सह वनिताप्राकारः महाप्राकाररूपेण परिणतः। कासरगोड् नगरादारभ्य तिरुवनन्तपुरं वेल्लयम्पलं पर्यन्तं राष्ट्रियरथ्याद्वारा 620 किलोमीट्टर् दैर्घ्ययुक्तं प्राकारं वनितासंघः निरमात्। अंसादंसं पङ्क्तौ स्थित्वा लक्षपरिमिताः वनिताः वनिताप्राकारे भागमभजन्त।

राष्ट्रियवीथ्यां प्रथमं आदर्शरूपेण स्थित्वा अवालोकयन। पुनः प्राकारं संरचयन् धर्मनिरपेक्ष-नवोत्थानप्रतिज्ञां स्वीकृत्य वीथ्याः वामभागे स्त्रियः पङ्क्तिरूपेण अतिष्ठन्। द्वादशनिमेषपर्यन्तमासीत् प्राकारबन्धः। तदनन्तरं मण्डलकेन्द्रेषु सम्मेलनमपि आयोजयत्। कासरगोडे स्वास्थ्यमन्त्री के.के. शैलजावर्या प्रथमं स्थिता। तिरुवनन्तपुरे बृन्दा काराट् वर्या अन्तिमपङ्क्तौ च स्थिता।

वनिताप्राकारः केरलनवोत्थानस्य नूतनः घट्टः। – के. एन्. पणिक्कर्।

कोच्ची- वनिताप्राकारः नवोत्थानस्य नूतनः घट्ट एव, स्त्रीशक्तिः एवं रूपेण बहिरानीयते चेत् समाजस्य प्रचोदकं भविष्यतीति च विख्यातः इतिहासकारः के.एन्. पणिक्कर् वर्यः अवदत्।

कस्मिंश्चित् कालघट्टे सञ्जातः केवलः प्रतिभासः इति रूपेण नवोत्थानं न पश्येयुः। तत् अनुस्यूततया समाजे अनुवर्तमाना प्रक्रिया इति च स न्यगादीत्।

भारते नवोत्थानस्य घट्टत्रयमस्ति। प्रथमघट्टे समाजस्थाम् अनीतिं विरुद्ध्य समररूपेणासीत्। अन्धविश्वासात् जनान् बहिरानेतुं परिश्रम एव तदानीं सञ्जातः। केवलं सामाजिकपरिष्करणे एव तत् संलग्नमासीत्। तत्र राजनैतिकपरिवेषः न संयोजितः।

अनन्तरकालीनं नवोत्थानं सामाजिक परिष्करणस्य राजनैतिकेन संयोज्यैव समारब्धम्। एतत् देशीयप्रस्थानकाले एवासीत्। सामाजपरिष्करणं राजनैतिकं च सममेव प्रवर्तितम्।

तृतीये घट्टे वामपक्षीय-लोकतान्त्रिकचिन्ताधारया सह सामाजिकपरिष्करणस्य सम्बन्धः दृष्टः इत्यपि तेन निगदितम्।