Monthly Archives: February 2019

भारतस्य वीरपुत्रः अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति।

इस्लामाबाद्- पाकिस्तानेन बन्दिरुपेण गृहीतः भरतस्य वायुसेना विंग् कमान्टर् अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति। पाक् प्रधानमन्त्रिणा इम्रान् खान् वर्येण इस्लामाबादे इदम् उद्घोषितम्। अभिनन्द् वर्धमान् वर्यस्य ग्रहणे अन्ताराष्ट्ररंगे महान् विमर्शः पाकिस्तानं विरुध्य प्रचरति इत्यतः पाकिस्तानस्य अयं निर्णयः। समाधानसन्देश इति रुपेणैव अभिनन्द् वर्यं मोचयतीति इम्रान् खान् अवदत्।

     ह्यस्तने सीमामुल्लङ्ख्य आगतानि पाक् विमानानि सीमातः दूरीकर्तुं यतमान आसीत् अभिनन्द् वर्यः। तदन्तरे मिग् 21 इति विमानं भञ्जयन् पाक् सैन्यं अभिनन्द् वर्धमानम् अग्रहीत्। सः झटित्येव मोचनीय इति भारतेन सूचित आसीत्।

राज्यस्तरीयाः चलचित्रपुरस्काराः घोषिताः।

तिरुवनन्तपुरम्- 49 तमाः राज्यचलचित्रपुरस्काराः घोषिताः। जयसूर्या तथा सौबिन् षाहिर् च विशिषिटनटौ भवत।। ञान् मेरिक्कुट्टी इति चलचित्रे नायकपात्रस्य अभिनयेन जयसूर्या पुरस्कां प्राप। सुडानि फ्रं नैजीरिया इति चित्रे अभिनयेन सौबिन् षाहिर् पुरस्कारमाप। विशिष्टा नटी निमिषा सजयन् भवति।

     विशिष्टनिदेशकत्वेन श्यामप्रसाद् चितः विशिष्टः छायाग्राहकः के.यूय मोहनन्- चित्रं कार्बण्। विजय् येशुदासः विशिष्टगायकस्य पुरस्कारमाप। तथा श्रेया घोषाल् विशिष्टगायिका च भवति। जोजु जोर्ज् विशिष्टः स्वभावनटः भवति। विशिष्यं चलचित्रं ओरु ञायराय्च

     पुरस्कारनिर्णयसमित्यध्यक्षः कुमार् साह्नि अस्ति। 101 चलचित्राणि प्रतियोगितायां भागमभजन्त। 21 चित्राणि अन्तिमघट्टे प्रविष्टान्यासन्।

पाकिस्तानाय प्रत्यादेशं दत्वा भारतम्, दिल्ल्यां प्रधानमन्त्रिणः नातृत्वे सद्यः अधिवेशनम्।

नवदिल्ली- पुल्वामा भीकराक्रमणे भारतसैन्येन पाकिस्तानाय प्रत्यादेशो दत्तः। सद्य एव दिल्यां राष्ट्रिय-सुरक्षाकार्य-संसत्समितेः अधिवेशनमारब्धम्।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये समारब्धे अधिवेशने राजनाथसिंहः, अरुण् जेय्टिली, निर्मला सीतारामन्, सुषमा स्वराज् प्रभृतयः केन्द्रमन्त्रिणः, राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल् च भागं गृह्णन्ति।
अधिवेशनानन्तरं सेनायाः सपद्याक्रमणमधिकृत्य प्रधानमन्त्री राष्ट्रम् अभिसम्बोधयिष्यति।
१२ मिराष् युद्धविमानान्युपयुज्य कुजवासरे प्रात एव भीकरशिबिरं प्रति आक्रमणं जातम्। जेय्षे शिविराणि नियन्त्रणप्रकोष्ठाश्च भग्नानि कृतानि। ३०० अधिकाः भीकराः व्यापादिताः इत्यावेदयति।

राज्य-परिवहणनिगमस्य वैद्युत-बस् यानानि अद्यःप्रभृति सेवां विधास्यन्ति।

तिरुवनन्तपुरम्- केरलराज्य-परिवहणनिगमस्य नूतनः संरम्भः भवति वैद्युतबस् यानसेवा। सेवेयम् अद्यःप्रभृति प्रवर्तते। शब्दरहित‌ः धूमरहितश्च बस् यानमिति सङ्कल्पः अनया सेवया साध्यो भवति।

     डीजल् उपयुज्य प्रवर्तमानस्य बस् यानस्य व्ययः प्रतिकिलोमीट्टर् ३१ रूप्यकाणि भवन्ति, परं वैद्युतयानार्थं व्ययः केवलं त्रीणि रूप्यकाण्येव इति विशेषः। एकस्मिन् समये वैद्युतविन्यासेन ३०० कि.मी.पर्यन्तं दूरं यातुं शक्यते।

     तिरुवनन्तपुरे एरणाकुले च प्रथमं सेवा भविष्यति। दश बस् यानानि अधुना सेवार्थं सज्जानि भवन्ति। एतानि कांचन समयामनुसृत्य सज्जीकृतानि। समयानुसारं निजीयनिगमस्य यानं चालकसहितं परिवहणनिगमाय दीयते। वैद्युतिः नियन्त्रकश्च परिवहणनिगमेन आयोज्येते।

स तु पण्डित उच्यते – 02-03-2019

 

नूतना समस्या –

“स तु पण्डित उच्यते”

ഒന്നാംസ്ഥാനം

ഇന്ദ്രിയാണാം സുഖം നൈവ
നൈവ സ്വാര്‍ഥം ധനം യശഃ
ഈഹതേ പരമൈശ്വര്യം
സ തു പണ്ഡിത ഉച്യതേ

Purushothaman Mumbai

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 02-03-2019

 

प्रश्नोत्तरम्।

 

Last Date: 02-03-2019

 

 

  1. नोबल् पुरस्कारेण समादृतः प्रथमः भारतीयः कः  (क) आशापूर्णादेवी (ख) रवीन्द्रनाथ टागोर् (ग) जी शङ्करक्कुरुप्प्
  2. केरलराज्यस्य सांस्कृतिकराजधानी का (क) तिरुवनन्तपुरम् (ख) कोषिक्कोट् (ग) तृश्शूर्
  3. परोपकाराय …………… नद्यः (क) वहन्ति (ख) दुहन्ति (ग) फलन्ति
  4. भूतानि कस्मात् भवन्ति (क) जलात् (ख) अन्नात् ग) (आकाशात्
  5. विश्वपरिस्थितिदिनं कस्मिन् दिने भवति (क)  जूण् ५ (ख) जूलाई ११ (ग) डिसम्बर् १
  6. क्रिस्तुभागवतस्य कर्ता कः (क) पि.सि. देवस्या (ख) मेरि जोण् प्लात्तोट्टम् (ग) अक्काम्मा चॆऱियान्
  7. विष्णुशर्मणा विरचितः प्रशस्तः ग्रन्थः कः (क) वेतालपञ्चविंशतिः (ख) कथासरित्सागरः (ग) पञ्चतन्त्रम्
  8. ‘पिकस्तु गायति’ इत्यत्र पिकस्य समानार्थकं पदं किम् (क) मयूरः (ख) शुकः (ग) कोकिलः
  9. केरलराज्ये  प्रथमः संस्कृतजालपुटः कः (क) सम्प्रति वार्ता (ख) नववाणी (ग) रसना
  10. प्रोफ. पि. सि देवस्या महाभागस्य जन्मस्थलं कुत्र वर्तते (क) तिरुवनन्तपुरम् (ख) तृश्शूर्  (ग) कोट्टयम्

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O M
  • S. MURALI
  • ANAGHA V V
  • K HARIHARAN
  • ADWAITH C S
  • JOHN KURIAKOSE
  • AJMAL K S
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

अन्ताराष्ट्र आयुर्वेदानुसन्धानकेन्द्राय शिलान्यासं व्यदधात्।

श्रीकण्ठापुरम्, केरलम्- अन्ताराष्ट्रप्रशस्तम् आयुर्वेदानुसन्धानकेन्द्रं केरले अचिरेण सफलं भविष्यति। कण्णूर् श्रीकण्ठापुरसमीपे कल्याट् देशे अस्य केन्द्रस्य शिलान्यासं मुख्यमन्त्रिणा पिणराय् विजयन् वर्येण कृतम्। स्वास्थ्यमन्त्री शैलजा वर्या अध्यक्षा आसीत्।

     केरलस्य आयुर्वेदपारम्पर्यं संरक्षितुं औषधानां फलप्राप्तिं शास्त्रीयरीत्या अवगन्तुं च अनेन केन्द्रेण साध्यं भविता। जीवितशैलीरोगः अर्बुदरोगः वार्धक्यकालरोगः इत्यादिषु नूतनं गवेषणमत्र भविष्यति।

     अमूल्यानां तालीपत्रग्रन्थानां संरक्षणाय नूतना साङ्केतिकविद्या अत्रोपयुज्यते। केन्द्र-राज्यसर्वकारयोः सहयोगेन ३०० कोटिरूप्यकाणां व्ययेनैव केन्द्रस्यास्य निर्माणं क्रियते।

प्रश्नसमाहारः – दशमिकक्ष्या।

  1. आयुरारोग्यसौख्यम्।
  2. दीनवत्सला जननी।
  3. मधुमान् नो वनस्पतिः।
  4. कनकधारा।
  5. जयन्ति ते सुकृतिनः।
  6. रागसुधारस…
  7. काव्यमुक्तावलिः।
  8. विगतानुशयः।
  9. ईशोपदेशः।
  10. किमसौ न भयङ्करः।
  11. प्राप्य वरान् निबोधत।

कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् कार्यक्रमः।

कालटी- विश्वविद्यालयस्य प्रवर्तनानि योगदानं च सामान्यजनेभ्यो सम्यगवगन्तुं केरलसर्वकारेण आयोजिता परियोजना भवति शास्त्रयान्।
विश्वविद्यालयानुदानायोगस्य ए ग्रेड् लब्धः विश्वविद्यालयः भवति संस्कृतविश्वविद्यालयः। कालटी मुख्यकेन्द्रादृते अष्टौ प्रादेशिककेन्द्राणि च सन्ति अस्य विश्वविद्यालयस्य। भाषा, मानविकविषयाः, अभिनयः, नृत्तं, चित्रकला, सामाजिकपठनं, कायिकपछनम् इत्येवं वैविध्यरूपाः पठनविभागाः अत्र सन्ति।
अस्य वर्षस्य शास्त्रयान् पद्धतिः दर्पणं २०१९ नाम्ना फिब्रुवरी २२, २३ दिनाङ्कयोः आयोजयिष्यति। सामान्यजनानां कृते आयेजिते अस्मिन् कार्यक्रमे ह्रस्वचलचित्राणां प्रदर्शनं भविता। अस्योद्घाटनं २२ दिनाङ्के कोच्ची शास्त्रसाङ्केतिकसर्वकलाशालायाः कुलपतिः प्रोफ. आर्. शशिधरन् निर्वक्ष्यति।

कोच्चीनगरे महती अग्निबाधा, जीवहानिः नास्ति।

कोच्ची- कोच्चीनगरे एरणाकुलं सौत् रेल्निस्थानस्य समीपे बहुतलमन्दिरे महती अग्निबाधा जाता। अद्य प्रातः ११ वादने पारगण् इति पादुकसंभरणशालायाम् अग्निबाधा जाता। रब्बर् उपयुज्य निर्मिता पादरक्षा अत्र अधिकतया सम्भृता इत्यतः अग्निबाधायाः काठिन्यं वर्धते। रक्षिदलम् अग्निशमनसेनादलं च पावकशमनकर्मणि व्यापृते वर्तेते। अग्निबाधा आरभ्य होराद्वये अतीते अपि सम्पूर्णनियन्त्रणं न जातम्। अस्यां घटनायां जीवनाश‌ नाभवत्, को/पि रुग्णश्च न संजातः।