Daily Archives: January 13, 2019

कलालयेषु विश्वविद्यालयेषु च अध्यापकनियुक्त्यर्थं विद्यावारिधिविरुदम् अवश्यं कारयति।

नवदिल्ली- मानवसंसादनमन्त्रालयस्य विज्ञप्त्यनुसारं २०२१ जूलै प्रथमदिनादारभ्य विश्वविद्यालयेषु कलालयेषु च सहप्राचार्यनियुक्त्यर्थं विद्यावारिधि( Ph.D) योग्यताम् अवश्यं कारयति। विश्वविद्यालयानुदानायोगस्य( UGC) अयं निर्णयः कलालयेषु वृत्तिं कुर्वतः स्थानोन्नतिमभिलषन्तश्च जनान् बाधते। अपि च आविश्वं प्रशस्तरूपेण प्रवर्तमानेभ्यः विश्वविद्यालयेभ्यः प्रथम पञ्चशतेभ्यः अन्यतमात् भवेत् बिरुदसम्पादनम् इत्यपि निबन्धना अस्ति।
अद्यत्वे कलाशालासु नियुक्त्यर्थं स्नातकोत्तरबिरुदं तथा राष्ट्रिय-योग्यता-परीक्षा (NET) च निश्चिता। इयं परीक्षा सहायनकार्यक्रमार्थं परिमितं च कारयति। मानवसंसादनकार्यमन्त्री प्रकाश् जावदेक्कर् वर्यः विज्ञप्तिं प्रकाशयन् एवमवदत्।

PRASNOTHARAM 19-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वाग्भटेन विरचितः प्रसिद्धः वैद्यशास्त्रग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख) सुश्रुतसंहिता  (ग) चरकसंहिता
  2. मधुसूक्तं कस्मिन् वेदे अन्तर्भवति  ?  (क) ऋग्वेदे (ख) यजुर्वेदे  (ग) सामवेदे 
  3. श्रीमद्भागवते कति श्लोकाः सन्ति  ?  (क) १८०००  (ख) १९००० (ग) २००००
  4. भारते सर्वत्र प्रसिद्धाः कति कलाः सन्ति ?  (क) ६३  (ख) ६४  (ग) ६५
  5. शौचं कति विधं स्मृतम् ?  (क) चतुर्विधम्  (ख)  पञ्चविधम्   (ग)  षड्विधम्
  6. कविकुलगुरुः कः ?  (क) कालिदासः  (ख) वाल्मीकिः (ग) व्यासः 
  7. कति पुराणानि सन्ति  ?  (क) १६ (ख) १७  (ग) १८
  8. ज्ञानप्पानायाः कर्ता कः ?  (क) मेल्पत्तूर्  (ख) पून्तानम् (ग) एषुत्तच्छन्
  9. केरलस्य सांस्कारिकराजधानी का ? (क) कोट्टयम् (ख) तिरुवनन्तपुरम्  (ग) तृश्शूर्
  10. शतकत्रयस्य कर्ता कः ?  (क) भर्तृहरिः (ख) सोमदेवः (ग) बाणभट्टः

ഈയാഴ്ചയിലെ വിജയി

ATHULYA

“അഭിനന്ദനങ്ങള്‍”

 

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ATHULYA
  • DURGA S
  • SINIMOL POULOSE
  • ADIDEV C S
  • MADHAVAN P A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”