Daily Archives: January 12, 2019

अद्य राष्ट्रिययुवजनदिनम्।

नवदिल्ली-  जनुवरी १२ भारते राष्ट्रिय-युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे दिनमिदं युवजनदिनत्वेन आचरितुं भारतसर्वकारेण निर्णीतम्। १९८५ तः प्रतिवर्षम् इदं दिनं युवजनदिनत्वेन आचर्यमाणो वर्तते।

     भारते सन्यासिवर्येषु प्रमुखस्य विवेकानन्दस्य जन्मदिनमेव राष्ट्रिय युवजनदिनत्वेन आचरन्ति इति विशेषताप्य़स्ति अस्य दिनस्य। विवेकानन्दस्वामिनः तत्त्वानि आशयाश्च भारतीययुवतायै प्रचोदकानि इति संसूच्यैव केन्द्रसर्वकारः एवं निरणयत्।

     विद्यालयेषु कलालयेषु च विविधाः कार्यक्रमाः अस्मिन् दिने आयुज्यन्ते। युवजनसम्मेलनानि, प्रभाषणानि, संगीतं, घोषयात्रा इत्यादीनि कार्यक्रमैषु मुख्यानि।