Daily Archives: January 24, 2019

राज्ये विद्यालयीयशिक्षारंगे समग्रपरिवर्तनाय विदग्धसमितेः अनुशासनम्।

तिरुवनन्तपुरम्- राज्यस्थेषु विद्यालयेषु शिक्षारंगे समग्रपरिवर्तनाय विदग्धसमित्या अनुशासितम्। प्रथमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं शिक्षा एकस्य निदेशालयस्य परिधौ आनयनमेव मुख्यः निर्देशः। एतत्सम्बन्धि आवेदनं समित्यध्यक्षः एन्.ए. खादर् वर्यः मुख्यमन्त्रिणे अदात्।

     निर्देशानुसारं विद्यालयस्य पूर्णनियन्त्रणं प्रांशुपालस्य दायित्वं भविता। शिक्षायाः घट्टद्वयं प्रकीर्तितमत्र। प्रथमघट्टः प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं भवति। एषु अध्यापकानां योग्यता स्नातकबिरुदं तथा बी.एड्. च भवति। अष्टमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं द्वितीयो घट्टः। अत्र अध्यापकानां योग्यता स्नातकोत्तरबिरुदं तथा बी.एड्. च भवति।

.

केरल साहित्य अक्कादमी पुरस्काराः घोषिताः।

तृशूर्- २०१७ वर्षस्य केरल-साहित्य-अक्कादमीपुरस्काराः घोषिताः नोवल् विभागे वी.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् उत्कृष्टकृतित्वेन चितम्। कविताविभागे वीरान् कुट्टीवर्यस्य मिण्टाप्राणी इति कवितायाः कृते एव पुरस्कारः।

     अन्ये पुरस्काराः एवम्-

कथा- इतरचराचरङ्ङलुटे चरित्रपुस्तकम्- अय्मनं जोण्,

नाटकम्- स्वदेशाभिमानी – एस्.वी. वेणुगोपन् नायर्,

साहित्यविमर्शः- कवियुटे जीवचरित्रम्- कल्पट्ट नारायणन्

     २५००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। डो. के.एन्. पणिक्कर्, आट्टूर् रविवर्मा इत्येतयोः अक्कादमी विशिष्टाङ्गत्वमदात्। ५०००० रूप्यकाणि सुवर्णपतकं प्रशस्तिपत्रं च अस्मिन् पारितोषिके भवन्ति।

     समग्रयोगदानाय पुरस्काराः एवम्- सी.वी. बालकृष्णन्, यात्राविवरणम्, वी.आर्. सुधीष्- बालसाहित्यम्, एन्.जे.के. नायर्- वैज्ञानिकसाहित्यम्, जयचन्द्रन् मोकेरि- आत्मकथा, रमा मेनोन् – विवर्तनम्, चोव्वल्लूर् कृष्णन् कुट्टी – हास्य साहित्यम्।