Monthly Archives: November 2017
भूतपूर्वः केन्द्रमन्त्री प्रियरञ्जन् दास् मुन्षी दिवंगतः।
नवदिल्ली – काण्ग्रेस् दलस्य नेता तथा भूतपूर्वः केन्द्रीय सूचनाप्रसारणमन्त्री च प्रियरञ्जनदास् मुन्षी वर्यः निर्यातः अभवत्। स ७२ वयस्कः आसीत्। आमयपीडया वर्षाणि यावत् चिकित्सायामासीत्। अद्य मध्यान्हे १२.१० वादने नवदिल्याम् अप्पोलो आतुरालये आसीत् अन्त्यम्।
पक्षाघातात् परं २००८ तः अबोधावस्थायां स्थितः सः जीवरक्षोपकरणानां साहाय्येन जीवन्नासीत्। मस्तिष्कं प्रति रुधिरप्रवाहस्थगनेन नाडीदौर्बल्यं सञ्जातम्। तद्वारा आशयविनिमयशेषी विनष्टा च अभवत्।
१९९९ -२००९ काले स पश्चिमवंगस्य रायिगञ्ज् मण्डलात् लोकसभासदस्यः आसीत्। २००५ – २००८ काले मन्मोहन् सिंह् मन्त्रिमण्डले अयं संसदीयकार्यस्य तथा सूचना प्रसारणकार्यस्य च मन्त्रित्वेन असेवत।
२० वर्षाणि यावत् आल् इन्ड्या फूट्बोल् फेडरेषन् आख्यस्य पादकन्दुकसङ्घस्य अध्यक्षः आसीत्। विश्वचषक पादकन्दुकस्पर्धायां स्पर्धाकार्यदर्शीरूपेण कर्म कृतः प्रथमः भारतीयश्चासीदयम्।
विद्यालयीयकलोत्सवः, पञ्चविंशति वेदिकाः, तेक्किन् काट् मुख्यवेदिका।
तृशूर् – २०१८ जनवरिमासे त्रिशिवपुरे सम्पत्स्यमानस्य विद्यालयीयकलोत्सवस्य सङेघाटकसमितिः जाता। जनुवरि मासस्य ६ तः १० पर्यन्तमेव एष्यायाः सर्वोच्चः अयं कलोत्सवः प्रचलिष्यति। तृशिवपुरुत्तनमेव अस्मिन् वर्षे कलोत्सवस्य आतिथेयत्वं विधास्यति। अत्र तेक्किन् काट् प्रतोलिका एव मुख्या वेदिका इति विद्याभ्यासमन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवदत्। अवरतः द्वे वेदिके तेक्किन् काटे भविता। परमतः पञ्चविंशतिः वेदिकाः भवेयुः। आवश्यकं चेत् अधिकां वेदिकाम् आयोजयिष्यते। कलोत्सवस्य विधिनिर्णयोपि अन्यूनं कर्तुं पद्धतिः आव्ष्कृता। ये पूर्वं द्विवारं विधिनिर्णेतारः आसन् तादृशान् पट्टिकातः निष्कासयिष्यते। छात्राणां शेषीमापनमेव अत्रभवेत्। कलोत्सवस्य रूपरेखासंहारः परिष्कृतः अस्ति। तस्य प्रकाशनमपि कृषिमन्त्रिणे सुनिल्कुमाराय प्रतिकृतिं दत्वा मन्त्री प्रोफ. रवीन्द्रनाथः कृतवान्।
कलोत्सवसंघाटनार्थं २१ समितीनां रूपवत्करणमपि सम्पन्नम्। मन्त्रिवर्ययोः सान्निध्ये समितेः प्रथमम् अधिवेशनमपि प्राचलत्।
कार्यक्रमे नगरपालिका अजिता जयराजः, जिल्ला पञ्चायत् अध्यक्षा षीला विजयकुमारः, सामाजिकः के. राजन्, भूतपूर्वः सामाजिकः टी.वी. चन्द्रमोहन्, उपनगरपालः वर्गीस् कण्टंकुलत्ती प्रभृतयः भागं गृहीतवन्तः।
PRASNOTHARAM – 25-11-2017
प्रश्नोत्तरम्।
- ‘ वन्दे वाल्मीकिकोकिलम् ‘ अत्र कर्तृपदम् किम् ?
- “जननी जन्मभूमि्श्च स्वर्गादपि गरीयसी ” कस्मात् ग्रन्थात् स्वीकृतम् वाक्यम् ?
- ‘ ऋते ‘ इति शब्दस्य योगे का विभक्तिः ?
- “इचुयशानाम् ” स्थानं किम् ?
- स्वप्नवासवदत्तम् नाटके कति अङ्काः सन्ति ?
- ‘ केरलव्यासः ‘ इति प्रसिद्धः कः ?
- व्याकरणस्य भाष्यकारः कः ?
- प्रक्रियासर्वस्वम् केन विरचितम् भवति ?
- लीलावती इति गणितशास्त्रग्रन्थस्य कर्ता कः ?
- 2017 तम वर्षस्य लोकसुन्दरी ( Miss World ) का ?
ഈയാഴ്ചയിലെ വിജയി
Dilkrishna C Std 7-C St. Mary’s HSS Chengaloor
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- Dilkrishna C S, St.Marys HS Chengaloor
- Gokul P
- Rajani P G,
- Rajani A G, GUPS Annamanada
- Bushara V P, GUPS Nediganga, Kannur
- Adidev C S, Sree Rama Vidyanikethan, Thazhekkad
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
रक्ष रक्षेति रोदिति – 25-11-2017
समस्या
“रक्ष रक्षेति रोदिति”
ഒന്നാംസ്ഥാനം
ब्लूवेल्क्रीडासमासक्तं
पुत्रं दृष्ट्वा भयाकुला।
सत्वरं मित्रमाहूय
रक्ष रक्षेति रोदिति ॥
Nayana KS
“വിജയികള്ക്ക് അഭിനന്ദനങ്ങള്”
जयललितायाः वासस्थले आयकरविभागेन सहसान्वीक्षणम्।
चेन्नै – आयकरविभागेन तमिलुनाडुराज्यस्य पूर्वमुख्यमन्त्रिणः जयललितायाः आवासस्थले गतरात्रौ दशवादने सहसान्वीक्षणं कृतम्। अधिकारिभिः प्रोक्तं यत् रात्रौ दशवादने मद्रास् उच्चन्यायालयात् अन्वेषणादेशस्य प्राप्तेरनन्तरं सहसान्वीक्षणं कृतम्। गतरात्रौ चतुःपञ्चहोरापर्यन्तं तस्याः आवासे वेदनिलयम् इत्यत्र आयकरविभागेन अन्वीक्षणं कृतम्।
वर्षशताभ्यन्तरे भारतस्य प्रधाननगराणि आप्लावितानि भविष्यन्ति – नासा ।
नवदिल्ली – आगामिनि वर्षशताभ्यन्तरे प्रधानानि भारतीयनगराणि जलाप्लावितानि भविष्यन्तीति नासा नामिकायाः अमेरिक्का राष्ट्रस्य बहिराकाशपर्यवेक्षणसंस्थायाः अवधाननिर्देशः। आगोल- तापनस्य प्रभावेन विश्वं व्याप्य तापमानम् उन्नतं भविता। अस्याम् अवस्थायां प्रथममाप्लवमानानां नगराणां पट्टिकायांं मुम्बै मंगलूरु नगरे स्तः इति नासा पर्यवेक्षकसङ्घस्य निर्धारणम्।
तीरदेशनगराणि एव जलोपप्लवः अधिकं बाधेत। वर्षशताभ्यन्तरे सामुद्रजलपरिधिः उन्नता भविष्यति। काकिनटा (आन्ध्राप्रदेशः), मुम्बै (महाराष्ट्रा ), मंगलूरु (करणाटका)प्रभृतिषु मुख्येषु नैकाश्रयनगरेषु जलप्रतलम् भाविनिकाले ऊर्धं गमिष्यति इत्यपि नासायाः पठनं सूचयति।
छात्रेषु कायिकप्रशिक्षणम् अनिवार्यं करोति।
नवदेहली – विद्यालयीयछात्राणां कृते प्रतिदिनम् एकहोरापर्यन्तं कायिकप्रशिक्षणम् अनिवार्यं करोति। एतदर्थं सर्वकारप्रतिनिधयः कार्यकर्तारश्चान्तर्भूता समितिः केन्द्र-मानवसंसाधनमन्त्रालयाय आवेदनमदात्। आवेदनम् अङ्गीक्रियते चेत् आराष्ट्रं विद्यालयेषु कायिकप्रशिक्षणम् अनिवार्यं करिष्यति।
मानवसंसाधनमन्त्रालयेन आयोजितायां कार्यशालायामेव कायिकशिक्षा, मूल्याधिष्ठिता शिक्षा इत्यादीः अधिकृत्य संस्तुतिपत्रं समर्पितम्। सामान्यजनाः राज्य-केन्द्रसर्वकराणां प्रतिनिधयश्चान्तर्भूतायां कर्मशालायाम् अङ्कीयशिक्षा, जीवितनैपुण्यशिक्षा, कायिकशिक्षा, परीक्षणपठनानि, मूल्याधिष्ठिता शिक्षा इत्यादीनि चर्चाविषयाणि अभवन्। कायिकप्रशिक्षणं शिक्षायाः विशिष्य विद्यालयपठने अविभाज्यघटकः भवति इत्यतः तदनिवार्यं कर्तव्यमिति मन्त्रालयस्य वरिष्ठसचिवाः अवोचन्।
परिवहणमन्त्री तोमस् चाण्टी त्यागपत्रम् अयच्छत्।
तिरुवनन्तपुरम् – भूसंसक्षणनियममुल्लङ्घ्य निर्माणप्रवृत्तीः सरोवरातिक्रमणं च कृतवान् इत्यारोपणानन्तरं केरलस्य परिवहणमन्त्री तोमस् चाण्टी वर्यः मन्त्रिमण्डलात् स्वकीयं त्यागपत्रं समर्पितवान्। अद्य प्रातः क्लिफ् हउस् इति मुख्यमन्त्रिणः वसतिं प्राप्य मुख्यमन्त्रिणं पिणरायि विजयं सम्मन्त्र्य एव स त्यागसन्नद्धतामावेदयत्।अनन्तरं एन्.सी.पी. राष्ट्रियनेतृत्वेन सह चर्चां कृत्वा मध्याह्ने त्यागपत्रं मुख्यमन्त्रिणे प्रयच्छति स्म। मुख्यमन्त्री तत् त्यागपत्रं राज्यपालाय प्रैषयच्च।
वाट्टर् वेल्ड् ट्यूरिसं कम्पनी इति निगमस्य निदेशकः अस्ति तोमस् चाण्टी। स निगमः भूसंरक्षणनियमं व्रीहिक्षेत्र-जलाशयनियमं च अलङ्घयत् इत्येवारोपणम्। एतदनुबन्धव्यवहारे ह्यः उच्चन्यायालयः तोमस् चाण्टीं विरुद्ध्य रूक्षं विमर्शनं प्रकटयन्नासीत्। तदनन्तरं मन्त्री स्वपदं त्यक्तुं प्रेरितः अभवन्।
रेल् निस्थानेषु अत्याधुनिकः विश्रामप्रकोष्ठः,प्रथमं कोच्ची-अनन्तपुरी निस्थानयोः।
कोच्ची – ऐ.आर्.सी.टी.सी. संस्थायाः परियोजनानुसारं रेल् निस्थानेषु अत्याधुनिकाः विश्रामप्रकोष्ठाः आरभ्यन्ते। अयं निर्णयः प्राप्तलक्ष्याणां यात्रिकाणाम् अत्यन्तोपकाराय भविष्यति। विश्रान्तेः ऋते टेविविजन्,. इन्टर्नेट् भोजनं,शौचप्रकोष्ठः, वस्त्रप्रक्षालनसुविधा प्रभृतीनि अत्रैव भविष्यन्ति।
ऐ.आर्.सी.टी.सी. जालपुटद्वारा प्रकोष्ठानाम् आरक्षणं कर्तुं शक्यते। तदर्थं यात्रिकैः अभिज्ञापत्रं समर्पणीयम्। प्रथमं तिरुवनन्तपुरं स्न्ट्रल्, एरणाकुलं टउण् निस्थानयोः अस्याः परियोजनायाः आरम्भः। शबरिमला तीर्थाटकानां क्षेमाय अयमारम्भः।
भूमेः उपस्थितिमधिकृत्य शास्त्रज्ञानाम् अवधाननिर्देशः।
न्यूयोर्क् – भूमेः उपस्थितिमधिकृत्य विश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० शास्त्रज्ञैः दीयमानः अवधाननिर्देशः अधुना चर्चाविषयमभवत्। विपत्करं कालावस्था व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थान्तराणि भूमेः घोरां भीषणीं सृजन्ति इति भीकरेण जाग्रतानिर्देशेन सह आगच्छन्ति विश्वे सर्वत्र विद्यमानाः शास्त्रज्ञाः। एवं पुरो गच्छति चेत् अस्माकं भूमेः इतः परम् अधिकम् आयुः न भविष्यति इति ते मनुष्यवर्गाय जाग्रतानिर्देशं ददति। प्रथमं १९९२ तमे वर्षे अयं निर्देशः लिखितः आसीत्। अस्मिन् १७०० शास्त्रज्ञाः हस्ताक्षरमकुर्वन्। तदनुबन्धेन अनन्तरं प्रसिद्धीकृते निर्देशे एव १८२ राष्ट्रेभ्यः १५००० शास्त्रज्ञाः हस्ताक्षरं कृतवन्तः।
भूमेः भविष्यमधिकृत्य आगोलशास्त्रसमूहस्य अतिनिराशापूर्णं वीक्षणमेवेति अस्माल्लेखात् अवगन्तुं शक्यते। अस्मिन् लेखे विद्यमानानि ओसोण् प्रतलस्य भेदनम् आदीनि बहूनि कार्याणि १९९२ तमे वर्षे एव ज्ञातानि आसन्। एतानि एकैकं वर्षमपगते सति घोरतराणि भवन्ति इति अस्माभिः अवगन्तुं शक्यते। एतदेवास्य लेखस्य प्रसक्तिं वर्धयति।