Daily Archives: November 6, 2017

विद्यालयसौधात् पतित्वा छात्रा आहता।

कोट्टयम् – विद्यालयसौधात् पतित्वा एका छात्रा आहता। कटुत्तुरूत्तिदेशस्थे सेय्न्ट् मैक्किल्स् विद्यालये दशमकक्ष्यायां पठन्ती छात्रा एव पतिता। छात्रां समीपस्थं वैयक्तिकचिकित्सालयं प्रावेशयत्। गतदिवसे कोल्लं ट्रिनिट्टी लैस्यं विद्यालये समाना घटना सञ्जाता परं तत्र पतिता बालिका मृता आसीत्। अध्यापिकाभिः कृता मानसिकपीडा एव तत्र आत्महत्यायाः कारणमिति रक्षिदलं निरणयत्।

भिन्नमण्डलेषु संस्कृतम्।

PROMOTIONAL SANSKRIT VIDEOS

दशमिकक्ष्या।

यम-नचिकेतयोः संवादः – video

सामज वर गमना।

रागपरिचयः।

शिशुसंस्कृतम्।

संस्कृतव्याकरणपाठाः – Dr. Vasudevan Potti

संस्कृतोत्सवम्।

സംസ്കൃതോത്സവ മത്സരാര്‍ത്ഥികള്‍ക്ക് സഹായകമായേക്കാവുന്ന ചില വീഡിയോകൾ ഇവിടെ ചേര്‍ത്തിരിക്കുന്നു.

പ്രഭാഷണം

സംഘഗാനം

പദ്യോച്ചാരണം

ഗാനാലാപനം

हेलि कोप्टर् दुर्धटना, सौदी राजकुमारः मृतः।

रियाद् – यमन् सीमनि सञ्जातायां व्योमयानदुर्घटनायां सौदी राजकुमारः मन्सूर् बिन् मुक्रिन् कालकबलीभूतः। असिर् प्रविश्यायाम् उपपाज्यपालः अस्त्ययम्। नगरपालः, उपसचिवः, प्रबन्धकश्च तस्य सहयात्रिकः आसीत्। तेषामवस्थां प्रति सूचना न लब्धा, सर्वे मृताः इति अनौद्योगिकी सूचना। दुर्घटनाकारणमपि अज्ञातमेव। अबहा प्रदेशात् ६० कि.मी. मिते दूरे समुद्रतीरे आसीत् दुर्घटना। आभ्यन्तरयुद्धेन नष्टप्रायस्य यमन् देशस्य दक्षिणसीमां संदृश्यमानः आसीदयम्। तदानीम् अपघातः समभवत्।