जयललितायाः वासस्थले आयकरविभागेन सहसान्वीक्षणम्।

चेन्नै – आयकरविभागेन तमिलुनाडुराज्यस्य पूर्वमुख्यमन्त्रिणः जयललितायाः आवासस्थले गतरात्रौ दशवादने सहसान्वीक्षणं कृतम्। अधिकारिभिः प्रोक्तं यत् रात्रौ दशवादने मद्रास् उच्चन्यायालयात् अन्वेषणादेशस्य प्राप्तेरनन्तरं सहसान्वीक्षणं कृतम्। गतरात्रौ चतुःपञ्चहोरापर्यन्तं तस्याः आवासे वेदनिलयम् इत्यत्र आयकरविभागेन अन्वीक्षणं कृतम्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *