Monthly Archives: December 2017
सर्वं भूयात्तु मंगलम् – 06-01-2018
नूतनी समस्या –
“सर्वं भूयात्तु मंगलम्“
Last date 06-01-2018
श्रीनारायणगुरुदेवस्य दर्शनानि जीवने प्रावर्तिकानि कुर्युः – प्रधानमन्त्री।
शिवगिरिः – समाजपरिष्कर्तुः नारायणगुरुदेवस्य दर्शनानि एकैको/पि स्वजीवने प्रवृत्तिपथम् आनीयात् इति प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। जनानां राष्ट्रस्य च समृद्धिः विकासश्च शिवगिरितीर्थाटनस्य मुख्यं लक्ष्यम् इति सः अवदत्। ८५तमं शिवगिरितीर्थाटनं दृश्यपरिषद् द्वारा उद्घाटनं कुर्वन्नासीत् सः।
समाजस्य दिशाबोधिका भवतीयं तीर्थयात्रा। आन्तरिकदूष्यतः जनान् परिवर्तयितुम् एतादृशानि पारम्पर्याणि अत्यन्तापेक्षितानि। राष्ट्रे विविधराज्यस्थानां जनानाम् ऐकमत्यमेवात्र दरीदृश्यते इत्यपि स न्यगादीत्। गतशतकस्थानां नवोत्थाननेतृणां मध्ये श्रीनारायणगुरुदेवः अद्वितीयः। विद्यया प्रबुद्धाः भवेयुः, सङ्घटनेन शक्ताः भवेयुः, उद्योगेन अभिवृद्धाः भवेयुः इति गुरुदेवः मन्त्रयामास।
समाजोद्धारणाय दलितानां पीडितानां प्रबलीकरणाय च गुरुदेवः अयतत। शिक्षया एव एते प्रबुद्धाः भविष्यन्ति इति स विश्वसिति स्म इत्यपि प्रधानमन्त्री सूचयामास।
स एवमपि अवदत् यद् नारायणगुरुदेवस्य अनुग्रहेण नववर्षारम्भः परितोषकर एव। शिवगिरिमठं यदा यदा समायात तदा तदा तत्रत्या अनुभूतिः मयि आह्लादजनिका आसीत्। अधुना तीर्थयात्रायाः उद्घाटनं कर्तुमवकाशमलभत। अनेन नितरां सन्तुष्टश्च इति। शिवगिरिमठाधिकारिभ्यः प्रधानमन्त्री कृतज्ञतामपि व्याहरत्।
PRASNOTHARAM 06-01-2018
प्रश्नोत्तरम्।
- शक्तिभद्रस्य देशः कुत्र ?( क) कश्मीरः (ख) कर्णाटकम् (ग) केरलम्
- कृष्णस्य समीपम् – (क) कृष्णसमीपम् (ख) उपकृष्णम् (ग) सहकृष्णम्
- ————- सङ्कल्पकम् । (क) मनः (ख) हृदयः (ग) बुद्धिः
- पाणिनेः महाकाव्यम् किम् ? (क)जाम्बवतीजयम् (ख) बालचरितम् (ग) महानन्दमयम्
- लिम्पतीव तमोsङ्गानि वर्षतीवाञ्जनं नभः । अलङ्कारः कः ? (क) उपमा (ख) उत्प्रेक्षा (ग) रूपकम्
- मृच्छकटिकम् इति नाटके नायकः कः ? (क) चाणक्यः (ख) उदयनः (ग) चारुदत्तः
- शकुन्तलाय़ाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती
- ननमयययुतेयं ———- भोगिलोकैः। (क) शालिनी (ख) मालिनी (ग) तोटकम्
- अवस्थानुकृतिः———-।(क) नृत्तम् (ख) नाट्यम् (ग) नृत्तम्
- रामगिर्याश्रमेषु वसतिं चक्रे। कः ? (क)इन्द्रः (ख) यक्षः (ग) किन्नरः
Last date: 06-01-2018
ഈയാഴ്ചയിലെ വിജയി
SOPHIA .E .V, G. H. S.S KOTTAYI
“അഭിനന്ദനങ്ങൾ”
ശരിയുത്തരമയച്ചവർ:
- SOPHIA .E .V, G. H. S.S KOTTAYI
- Jyotsna K S
- Sathyan Arickatt
- Adidev C S
- Raja lakshmi
- Anoop kolam kanni
- Amrutha C J
“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”
पद्मावती चलनचित्रस्य सोपाधिकम् प्रदर्शनानुमतिपत्रम्।
नवदिल्ली – सञ्जय् लीला बन्सारी वर्यस्य निदेशने निर्मितस्य पद्मावती इति विवादचलनचित्रस्य उपाधीः अनुसृत्य प्रदर्शनानुमतिं दातुं केन्द्रिय अभिवीक्षकमण्डलं निरणयत्। चित्रस्थानि २६ दृश्यानि निष्कासनीयानि। अपि च नाम पद्मावती इत्यस्य स्थाने पद्मावत् इति परिवर्तनीयम्। दीपिका पदुकोण् नायिका तथा रण्वीर् सिंह् नायकश्च भवति अस्मिन् चित्रे। रजपुत्राणां निन्दारूपाणि दृश्यानि परामर्शाश्च सन्ति अस्मिन् चलचित्रे इति विवादमुन्नीय केचन जनाः चलचित्रस्य निदेशकं नायिकानायकौ च विरुद्ध्य प्रक्षोभं कुर्वन्नासीत्। दिनानि यावत् सांस्कृतिकनेतृणां चलचित्रनिरूपकाणां च चर्चायाः कारणमभूदिदम्। दिनद्वयेन अस्मिन् विषये अन्तिमनिर्णयः भविष्यति।
मद्रस्सासु संस्कृतं पाठ्यविषयं करोति।
रुद्रापूर् – उत्तराखण्ड् राज्ये मद्रस्सासु इतः परं संस्कृतं पाठ्यविषयं भविष्यति। राज्यस्थैः मद्रस्साधिकारिभिः इदम् उद्घोषितम्। डेराडूण्, हरिद्वार्, नैनिट्टाल्, उधंसिंहपुर् इत्येतेषु जनपदेषु २०७ मद्रस्साः सन्ति। तेषु २५००० छात्राः पठन्ति। ते सर्वे संस्कृतमपि पठन्तु इति बुद्ध्या एव संस्कृतं तत्र पाठ्यविषयं कर्तुम् अधिकारिणः उत्सहन्ते।
आयुर्वेदं संस्कृतभाषायामधिष्ठितं भवति। इस्लामीयछात्राणमपि आयुर्वेदरङ्गे प्रवेशनम् अनेन निर्णयेन साध्यते। आयुर्वेदयोगादिषु एषां छात्राणां प्रामुख्यं ते इच्छन्ति। अतो/यं निर्णयः तैः स्वीकृतः
उत्तराखण्ड् मद्रस्साक्षेमसंघस्य अधीनतायां मद्रस्साप्रवर्तनं प्रचलति। तत्रत्यानां छात्राणां सामान्यशिक्षाविभागे इव सर्वाणि आनुकूल्यानि सन्ति। सर्वकारीणवृत्यादिष्वपि ते छात्राः नियुज्यन्ते।
उत्तराखण्डस्य द्वितीया औद्योगिकभाषा भवति संस्कृतम्।
आर्थिक-उपकक्षा अफ्गानिस्थानपर्यन्तं नेतुं निर्णयः। उपकक्षा भारतविरुद्धा नास्ति।
बैय्जिङ् – चीना-पाकिस्तान् आर्थिकोपकक्षा अफ्गानिस्थानपर्यन्तं दीर्घीकर्तुं निर्णयः अभवत्। त्रयाणां राष्ट्राणां विदेशकार्यमन्त्रिणां मिथः चर्चायामेव निर्णयो जातः। निर्णयो/यं एषां राष्ट्राणां पुरोगतिं लक्ष्यीकृत्यैव स्वीकृत इति चीना विदेशकार्यमन्त्रालयस्य वक्ता अवदत्। अस्मिन् निर्णये भारतं प्रति विरुद्धता कापि नास्तीति तेन निगदितम्। अस्मिन् विषये भारतस्य आशङ्कायाः समाधानरूपेण चीनाधिकृतानाम् इयमुक्तिः
संस्कृतसंरक्षणं समाजस्य कर्तव्यम् – स्वामी कृष्णात्मानन्दमहाराजः।
कोल्लंकोट् – संस्कृतभाषायाः संरक्षणं समाजस्य कर्तव्यमेवेति ओलश्शेरी दयानन्दाश्रमस्य स्वामी कृष्णानन्दमहाराजः अभिप्रैति स्म। विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे मध्यमेखला संस्कृतपठनसरणीम् उद्घाटयन् भाषमाणः आसीदयम्। एकता मृतभाषारूपेण परित्यक्ता इयं भाषा अद्य अयुतपरिमितैः जनैः सम्भाषणभाषारूपेण स्वीकृता। अस्म्न्नवसरे पश्चाद्गमनम् अनुचितमेवेति स उक्तवान्। नेन्मारा एन्.एस्.एस्. कलालयस्य उपप्रांशुपालः अध्यक्षः आसीत्। चिन्मय मिषन् मठाधिपतिः स्वामी जितात्मानन्दजी अनुग्रहभाषणमकरोत्। कोल्लंकोट् चिन्मयविद्यालये आयोजिता पठनसरणिः दिसम्बर् ३० तमे दिनाङ्के समाप्तिमेष्यति।
देहल्यां नीहारप्रावरणम्, १८ रेल्यानानि अपकृष्टानि।
मणडलकालस्य परिसमाप्तिः, शबरिमलामन्दिरे अद्य मणडलपूजा।
सन्निधानम् – चत्वारिंशद्दिवसस्य मण्डलव्रतस्य परिसमाप्तिं सूचयन् अद्य शबरिमलामन्दिरे मण्डलपूजा आयोजयति। पूजानन्तरम् अद्य गोपुरद्वारं पिधास्यति। सन्निधाने अभूतपूर्वः भक्तजनसम्मर्दः अनुभूयते। पूजाक्रमः- प्रातः त्रिवादने गोपुरद्वारमुद्घाट्य गणपतिहोमः, अनन्तरं विशेषपूजा। प्रातः नववादने घृताभिषेकः, एकादशवादनतः पादोनद्वादशवादनाभ्यन्तरे मण्डलपूजा। रात्रौ तङ्क अङकी नामकं प्रावरणं धारयित्वा पूजया समं मण्डलपूजायाः परिसमाप्तिः भवति। ततः हरिवरासनम् इति गानालापेन साकं गोपुरद्वारस्य पिधानम्। मकरसंक्रान्ति उत्सवार्थं दिसम्बर् ३० दिनाङ्के पुनः गोपुरद्वारस्य उद्घाटनं भविता।
भक्तस्य भगवतश्च समाननामयुक्तं मन्दिरं भवति शबरिमला।
स्नेहस्य सद्भावस्य च सन्देशेन सह अद्य क्रिस्तुमस् आघुष्यते
आविश्वं सर्वे विश्वासिनः अद्य क्रिस्तुमस् आघोषे रताः सन्ति। दैवपुत्रस्य येशोः भुवनावतारस्मरणारूपः आघोष भवति क्रिस्तुमस्। विश्वे सर्वत्र देवालयेषु अतिविपुलः आघोषः प्रचलन्नस्ति। बालयेशोः जन्मभूमौ बेत्लहेमे प्रार्थनासमारोहे वैदेशिकैः सह बहवः जनाः प्रार्थनायां भागं भजन्ते। २५ दिवसीयस्य व्रतस्य समाप्तिः अद्यैव। नक्षत्राणि तृणकुटीराणि क्रिस्तुमस् वृक्षान् च सज्जीकृत्य विश्वासिनः क्रिस्तोः पुण्यजन्मस्मरणदिनाय स्वागतं व्याहरन्ति।
सर्वेभ्यो नववाणीसङ्घस्य क्रिस्तुमस् शुभकामनाः