भूमेः उपस्थितिमधिकृत्य शास्त्रज्ञानाम् अवधाननिर्देशः।

न्यूयोर्क् – भूमेः उपस्थितिमधिकृत्य विश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० शास्त्रज्ञैः दीयमानः अवधाननिर्देशः अधुना चर्चाविषयमभवत्। विपत्करं कालावस्था व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थान्तराणि भूमेः घोरां भीषणीं सृजन्ति इति भीकरेण जाग्रतानिर्देशेन सह आगच्छन्ति विश्वे सर्वत्र विद्यमानाः शास्त्रज्ञाः। एवं पुरो गच्छति चेत् अस्माकं भूमेः इतः परम् अधिकम् आयुः न भविष्यति इति ते मनुष्यवर्गाय जाग्रतानिर्देशं ददति। प्रथमं १९९२ तमे वर्षे अयं निर्देशः लिखितः आसीत्। अस्मिन् १७०० शास्त्रज्ञाः हस्ताक्षरमकुर्वन्। तदनुबन्धेन अनन्तरं प्रसिद्धीकृते निर्देशे एव १८२ राष्ट्रेभ्यः १५००० शास्त्रज्ञाः हस्ताक्षरं कृतवन्तः।

भूमेः भविष्यमधिकृत्य आगोलशास्त्रसमूहस्य अतिनिराशापूर्णं वीक्षणमेवेति अस्माल्लेखात् अवगन्तुं शक्यते। अस्मिन् लेखे विद्यमानानि ओसोण् प्रतलस्य भेदनम् आदीनि बहूनि कार्याणि १९९२ तमे वर्षे एव ज्ञातानि आसन्। एतानि एकैकं वर्षमपगते सति घोरतराणि भवन्ति इति अस्माभिः अवगन्तुं शक्यते। एतदेवास्य लेखस्य प्रसक्तिं वर्धयति।

Leave a Reply

Your email address will not be published. Required fields are marked *